रामायणम्

एकपंचाशः सर्गः 2.51

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

तम् जाग्रतम् अदम्भेन भ्रातुर् अर्थाय लक्ष्मणम् । गुहः सम्ताप सम्तप्तः राघवम् वाक्यम् अब्रवीत् ॥१॥

इयम् तात सुखा शय्या त्वद् अर्थम् उपकल्पिता । प्रत्याश्वसिहि साध्व् अस्याम् राज पुत्र यथा सुखम् ॥२॥

उचितः अयम् जनः सर्वः क्लेशानाम् त्वम् सुख उचितः । गुप्ति अर्थम् जागरिष्यामः काकुत्स्थस्य वयम् निशाम् ॥३॥

न हि रामात् प्रियतरः मम अस्ति भुवि कश्चन । ब्रवीम्य् एतत् अहम् सत्यम् सत्येन एव च ते शपे ॥४॥

अस्य प्रसादात् आशंसे लोके अस्मिन् सुमहद् यशः । धर्म अवाप्तिम् च विपुलाम् अर्थ अवाप्तिम् च केवलाम् ॥५॥

सो अहम् प्रिय सखम् रामम् शयानम् सह सीतया । रक्षिष्यामि धनुष् पाणिः सर्वतः ज्ञातिभिः सह ॥६॥

न हि मे अविदितम् किंचित् वने अस्मिमः चरतः सदा । चतुर् अन्गम् हि अपि बलम् सुमहत् प्रसहेमहि ॥७॥

लक्ष्मणः तम् तदा उवाच रक्ष्यमाणाः त्वया अनघ । न अत्र भीता वयम् सर्वे धर्मम् एव अनुपश्यता ॥८॥

कथम् दाशरथौ भूमौ शयाने सह सीतया । शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा ॥९॥

यो न देव असुरैः सर्वैः शक्यः प्रसहितुम् युधि । तम् पश्य सुख सम्विष्टम् तृणेषु सह सीतया ॥१०॥

यो मन्त्र तपसा लब्धो विविधैः च परिश्रमैः । एको दशरथस्य एष पुत्रः सदृश लक्षणः ॥११॥

अस्मिन् प्रव्रजितः राजा न चिरम् वर्तयिष्यति । विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति ॥१२॥

विनद्य सुमहा नादम् श्रमेण उपरताः स्त्रियः । निर्घोष उपरतम् तात मन्ये राज निवेशनम् ॥१३॥

कौसल्या चैव राजा च तथैव जननी मम । न आशंसे यदि जीवन्ति सर्वे ते शर्वरीम् इमाम् ॥१४॥

जीवेद् अपि हि मे माता शत्रुघ्नस्य अन्ववेक्षया । तत् दुह्खम् यत् तु कौसल्या वीरसूर् विनशिष्यति ॥१५॥

अनुरक्त जन आकीर्णा सुख आलोक प्रिय आवहा । राज व्यसन संसृष्टा सा पुरी विनशिष्यति ॥१६॥

कथम् पुत्रम् महात्मानम् ज्येष्ठम् प्रियमपस्यतः । शरीरम् धारयुष्यान्ति प्राणा राज्ञो महात्मनः ॥१७॥

विनष्टे नृपतौ पश्चात्कौसल्या विनशिष्यति । अनन्तरम् च माताऽपि मम नाशमुपैष्यति ॥१८॥

अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनोरथम् । राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति ॥१९॥

सिद्ध अर्थाः पितरम् वृत्तम् तस्मिन् काले हि उपस्थिते । प्रेत कार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् ॥२०॥

रम्य चत्वर संस्थानाम् सुविभक्त महा पथाम् । हर्म्य प्रसाद सम्पन्नाम् गणिका वर शोभिताम् ॥२१॥

रथ अश्व गज सम्बाधाम् तूर्य नाद विनादिताम् । सर्व कल्याण सम्पूर्णाम् हृष्ट पुष्ट जन आकुलाम् ॥२२॥

आराम उद्यान सम्पन्नाम् समाज उत्सव शालिनीम् । सुखिता विचरिष्यन्ति राज धानीम् पितुर् मम ॥२३॥

अपि जीवेद्धशरथो वनवासात्पुनर्वयम् । प्रत्यागम्य महात्मानमपि पश्येम सुव्रतम् ॥२४॥

अपि सत्य प्रतिज्ञेन सार्धम् कुशलिना वयम् । निवृत्ते वन वासे अस्मिन्न् अयोध्याम् प्रविशेमहि ॥२५॥

परिदेवयमानस्य दुह्ख आर्तस्य महात्मनः । तिष्ठतः राज पुत्रस्य शर्वरी सा अत्यवर्तत ॥२६॥

तथा हि सत्यम् ब्रुवति प्रजा हिते । नर इन्द्र पुत्रे गुरु सौहृदात् गुहः । मुमोच बाष्पम् व्यसन अभिपीडितः । ज्वरा आतुरः नागैव व्यथा आतुरः ॥२७॥

इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे एकपंचाशः सर्गः ॥

Listen to the sarga
0:00