रामायणम्

द्विपंचाशः सर्गः 2.52

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

प्रभातायाम् तु शर्वर्याम् पृथु वृक्षा महा यशाः । उवाच रामः सौमित्रिम् लक्ष्मणम् शुभ लक्षणम् ॥१॥

भास्कर उदय कालो अयम् गता भगवती निशा । असौ सुकृष्णो विहगः कोकिलः तात कूजति ॥२॥

बर्हिणानाम् च निर्घोषः श्रूयते नदताम् वने । तराम जाह्नवीम् सौम्य शीघ्रगाम् सागरम् गमाम् ॥३॥

विज्ञाय रामस्य वचः सौमित्रिर् मित्र नन्दनः । गुहम् आमन्त्र्य सूतम् च सो अतिष्ठद् भ्रातुर् अग्रतः ॥४॥

स तु रामस्य वचनम् निशम्य प्रतिगृह्य च । स्थपतिस्तूर्णमाहुय सचिवानिदमब्रवीत् ॥५॥

अस्य वाहनसम्युक्ताम् कर्णग्राहवतीम् शुभाम् । सुप्रताराम् दृढाम् तीर्खे शीग्रम् नावमुपाहर ॥६॥

तम् निशम्य समादेशम् गुहामात्यगणो महान् । उपोह्य रुचिराम् नावम् गुहाय प्रत्यवेदयत् ॥७॥

ततः सप्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत् । उपस्थितेयम् नौर्देव भूयः किम् करवाणि ते ॥८॥

तवामरसुतप्रख्य तर्तुम् सागरगाम् नदीम् । नौरियम् पुरुषव्याग्र! ताम् त्वमारोह सुव्रत! ॥९॥

अथोवाच महातेजा रामो गुहमिदम् वचः । कृतकामोऽस्मि भवता शीघ्रमारोप्यतामिति ॥१०॥

ततः कलापान् सम्नह्य खड्गौ बद्ध्वा च धन्विनौ । जग्मतुर् येन तौ गन्गाम् सीतया सह राघवौ ॥११॥

रामम् एव तु धर्मज्ञम् उपगम्य विनीतवत् । किम् अहम् करवाणि इति सूतः प्रान्जलिर् अब्रवीत् ॥१२॥

ततोऽब्रवीद्दाशरथिः सुमन्त्रम् । स्पृशन् करेणोत्तमदक्षिणेन । सुमन्त्र शीघ्रम् पुनरेव याहि । राज्ञः सकाशे भवचाप्रमत्तः ॥१३॥

निवर्तस्व इति उवाच एनम् एतावद्द् हि कृतम् मम । रथम् विहाय पद्भ्याम् तु गमिष्यामि महावनम् ॥१४॥

आत्मानम् तु अभ्यनुज्ञातम् अवेक्ष्य आर्तः स सारथिः । सुमन्त्रः पुरुष व्याघ्रम् ऐक्ष्वाकम् इदम् अब्रवीत् ॥१५॥

न अतिक्रान्तम् इदम् लोके पुरुषेण इह केनचित् । तव सभ्रातृ भार्यस्य वासः प्राकृतवद् वने ॥१६॥

न मन्ये ब्रह्म चर्ये अस्ति स्वधीते वा फल उदयः । मार्दव आर्जवयोः वा अपि त्वाम् चेद् व्यसनम् आगतम् ॥१७॥

सह राघव वैदेह्या भ्रात्रा चैव वने वसन् । त्वम् गतिम् प्राप्स्यसे वीर त्रीम्ल् लोकांस् तु जयन्न् इव ॥१८॥

वयम् खलु हता राम ये तया अपि उपवन्चिताः । कैकेय्या वशम् एष्यामः पापाया दुह्ख भागिनः ॥१९॥

इति ब्रुवन्न् आत्म समम् सुमन्त्रः सारथिस् तदा । दृष्ट्वा दुर गतम् रामम् दुह्ख आर्तः रुरुदे चिरम् ॥२०॥

ततः तु विगते बाष्पे सूतम् स्पृष्ट उदकम् शुचिम् । रामः तु मधुरम् वाक्यम् पुनः पुनर् उवाच तम् ॥२१॥

इक्ष्वाकूणाम् त्वया तुल्यम् सुहृदम् न उपलक्षये । यथा दशरथो राजा माम् न शोचेत् तथा कुरु ॥२२॥

शोक उपहत चेताः च वृद्धः च जगती पतिः । काम भार अवसन्नः च तस्मात् एतत् ब्रवीमि ते ॥२३॥

यद् यद् आज्ञापयेत् किंचित् स महात्मा मही पतिः । कैकेय्याः प्रिय काम अर्थम् कार्यम् तत् अविकान्क्षया ॥२४॥

एतत् अर्थम् हि राज्यानि प्रशासति नर ईश्वराः । यद् एषाम् सर्व कृत्येषु मनो न प्रतिहन्यते ॥२५॥

यद्यथा स महा राजो न अलीकम् अधिगच्चति । न च ताम्यति दुह्खेन सुमन्त्र कुरु तत् तथा ॥२६॥

अदृष्ट दुह्खम् राजानम् वृद्धम् आर्यम् जित इन्द्रियम् । ब्रूयाः त्वम् अभिवाद्य एव मम हेतोर् इदम् वचः ॥२७॥

न एव अहम् अनुशोचामि लक्ष्मणो न च मैथिली । अयोध्यायाः च्युताः च इति वने वत्स्यामह इति वा (महेति!) ॥२८॥

चतुर् दशसु वर्षेषु निवृत्तेषु पुनः पुनः । लक्ष्मणम् माम् च सीताम् च द्रक्ष्यसि क्षिप्रम् आगतान् ॥२९॥

एवम् उक्त्वा तु राजानम् मातरम् च सुमन्त्र मे । अन्याः च देवीः सहिताः कैकेयीम् च पुनः पुनः ॥३०॥

आरोग्यम् ब्रूहि कौसल्याम् अथ पाद अभिवन्दनम् । सीताया मम च आर्यस्य वचनाल् लक्ष्मणस्य च ॥३१॥

ब्रूयाः च हि महा राजम् भरतम् क्षिप्रम् आनय । आगतः च अपि भरतः स्थाप्यो नृप मते पदे ॥३२॥

भरतम् च परिष्वज्य यौवराज्ये अभिषिच्य च । अस्मत् सम्तापजम् दुह्खम् न त्वाम् अभिभविष्यति ॥३३॥

भरतः च अपि वक्तव्यो यथा राजनि वर्तसे । तथा मातृषु वर्तेथाः सर्वास्व् एव अविशेषतः ॥३४॥

यथा च तव कैकेयी सुमित्रा च अविशेषतः । तथैव देवी कौसल्या मम माता विशेषतः ॥३५॥

तातस्य प्रियकामेन यौवराज्यमपेक्षता । लोकयोरुभयोः शक्यम् त्वया यत्सुखमेधितुम् ॥३६॥

निवर्त्यमानो रामेण सुमन्त्रः शोक कर्शितः । तत् सर्वम् वचनम् श्रुत्वा स्नेहात् काकुत्स्थम् अब्रवीत् ॥३७॥

यद् अहम् न उपचारेण ब्रूयाम् स्नेहात् अविक्लवः । भक्तिमान् इति तत् तावद् वाक्यम् त्वम् क्षन्तुम् अर्हसि ॥३८॥

कथम् हि त्वद् विहीनो अहम् प्रतियास्यामि ताम् पुरीम् । तव तात वियोगेन पुत्र शोक आकुलाम् इव ॥३९॥

सरामम् अपि तावन् मे रथम् दृष्ट्वा तदा जनः । विना रामम् रथम् दृष्ट्वा विदीर्येत अपि सा पुरी ॥४०॥

दैन्यम् हि नगरी गच्चेद् दृष्ट्वा शून्यम् इमम् रथम् । सूत अवशेषम् स्वम् सैन्यम् हत वीरम् इव आहवे ॥४१॥

दूरे अपि निवसन्तम् त्वाम् मानसेन अग्रतः स्थितम् । चिन्तयन्त्यो अद्य नूनम् त्वाम् निराहाराः कृताः प्रजाः ॥४२॥

दृष्टं तद्धि त्वया राम! यादृशम् त्वत्प्रवासने । प्रजानाम् सम्कुलम् वृत्तम् त्वच्छोकक्लान्तचेतसाम् ॥४३॥

आर्त नादो हि यः पौरैः मुक्तः तत् विप्रवासने । रथस्थम् माम् निशाम्य एव कुर्युः शत गुणम् ततः ॥४४॥

अहम् किम् च अपि वक्ष्यामि देवीम् तव सुतः मया । नीतः असौ मातुल कुलम् सम्तापम् मा कृथाइति ॥४५॥

असत्यम् अपि न एव अहम् ब्रूयाम् वचनम् ईदृशम् । कथम् अप्रियम् एव अहम् ब्रूयाम् सत्यम् इदम् वचः ॥४६॥

मम तावन् नियोगस्थाः त्वद् बन्धु जन वाहिनः । कथम् रथम् त्वया हीनम् प्रवक्ष्यन्ति हय उत्तमाः ॥४७॥

तन्न शक्ष्याम्यहम् गन्तुमयोध्याम् त्वदृतेऽनघ । वनवासानुयानाय मामनुज्ञातुमर्हसि ॥४८॥

यदि मे याचमानस्य त्यागम् एव करिष्यसि । सरथो अग्निम् प्रवेक्ष्यामि त्यक्त मात्रैह त्वया ॥४९॥

भविष्यन्ति वने यानि तपो विघ्न कराणि ते । रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव ॥५०॥

तत् कृतेन मया प्राप्तम् रथ चर्या कृतम् सुखम् । आशंसे त्वत् कृतेन अहम् वन वास कृतम् सुखम् ॥५१॥

प्रसीद इच्चामि ते अरण्ये भवितुम् प्रत्यनन्तरः । प्रीत्या अभिहितम् इच्चामि भव मे पत्यनन्तरः ॥५२॥

इमे चापि हया वीर यदि ते वनवासिनः । परिचर्याम् करिष्यन्ति प्राप्स्यन्ति परमाम् गतिम् ॥५३॥

तव शुश्रूषणम् मूर्ध्ना करिष्यामि वने वसन् । अयोध्याम् देव लोकम् वा सर्वथा प्रजहाम्य् अहम् ॥५४॥

न हि शक्या प्रवेष्टुम् सा मया अयोध्या त्वया विना । राज धानी महा इन्द्रस्य यथा दुष्कृत कर्मणा ॥५५॥

वन वासे क्षयम् प्राप्ते मम एष हि मनो रथः । यद् अनेन रथेन एव त्वाम् वहेयम् पुरीम् पुनः ॥५६॥

चतुर् दश हि वर्षाणि सहितस्य त्वया वने । क्षण भूतानि यास्यन्ति शतशः तु ततः अन्यथा ॥५७॥

भृत्य वत्सल तिष्ठन्तम् भर्तृ पुत्र गते पथि । भक्तम् भृत्यम् स्थितम् स्थित्याम् त्वम् न माम् हातुम् अर्हसि ॥५८॥

एवम् बहु विधम् दीनम् याचमानम् पुनः पुनः । रामः भृत्य अनुकम्पी तु सुमन्त्रम् इदम् अब्रवीत् ॥५९॥

जानामि परमाम् भक्तिम् मयि ते भर्तृ वत्सल । शृणु च अपि यद् अर्थम् त्वाम् प्रेषयामि पुरीम् इतः ॥६०॥

नगरीम् त्वाम् गतम् दृष्ट्वा जननी मे यवीयसी । कैकेयी प्रत्ययम् गच्चेद् इति रामः वनम् गतः ॥६१॥

परितुष्टा हि सा देवि वन वासम् गते मयि । राजानम् न अतिशन्केत मिथ्या वादी इति धार्मिकम् ॥६२॥

एष मे प्रथमः कल्पो यद् अम्बा मे यवीयसी । भरत आरक्षितम् स्फीतम् पुत्र राज्यम् अवाप्नुयात् ॥६३॥

मम प्रिय अर्थम् राज्ञः च सरथः त्वम् पुरीम् व्रज । संदिष्टः च असि या अनर्थांस् तांस् तान् ब्रूयाः तथा तथा ॥६४॥

इति उक्त्वा वचनम् सूतम् सान्त्वयित्वा पुनः पुनः । गुहम् वचनम् अक्लीबम् रामः हेतुमद् अब्रवीत् ॥६५॥

नेदानीम् गुह योग्योऽयम् वसो मे सजने वने । अवश्यम् ह्याश्रमे वासह् कर्तव्यस्तद्गतो विधिः ॥६६॥

सोऽहम् गृहीत्वा नियमम् तपस्विजनभूषणम् । हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च ॥६७॥

जटाः कृत्वा गमिष्यामि न्यग्रोध क्षीरम् आनय । तत् क्षीरम् राज पुत्राय गुहः क्षिप्रम् उपाहरत् ॥६८॥

लक्ष्मणस्य आत्मनः चैव रामः तेन अकरोज् जटाः । दीर्घबाहुर्नरव्याघ्रो जटिलत्व मधारयत् ॥६९॥

तौ तदा चीर वसनौ जटा मण्डल धारिणौ । अशोभेताम् ऋषि समौ भ्रातरौ राम रक्ष्मणौ ॥७०॥

ततः वैखानसम् मार्गम् आस्थितः सह लक्ष्मणः । व्रतम् आदिष्टवान् रामः सहायम् गुहम् अब्रवीत् ॥७१॥

अप्रमत्तः बले कोशे दुर्गे जन पदे तथा । भवेथा गुह राज्यम् हि दुरारक्षतमम् मतम् ॥७२॥

ततः तम् समनुज्ञाय गुहम् इक्ष्वाकु नन्दनः । जगाम तूर्णम् अव्यग्रः सभार्यः सह लक्ष्मणः ॥७३॥

स तु दृष्ट्वा नदी तीरे नावम् इक्ष्वाकु नन्दनः । तितीर्षुः शीघ्रगाम् गन्गाम् इदम् लक्ष्मणम् अब्रवीत् ॥७४॥

आरोह त्वम् नर व्याघ्र स्थिताम् नावम् इमाम् शनैः । सीताम् च आरोपय अन्वक्षम् परिगृह्य मनस्विनीम् ॥७५॥

स भ्रातुः शासनम् श्रुत्वा सर्वम् अप्रतिकूलयन् । आरोप्य मैथिलीम् पूर्वम् आरुरोह आत्मवांस् ततः ॥७६॥

अथ आरुरोह तेजस्वी स्वयम् लक्ष्मण पूर्वजः । ततः निषाद अधिपतिर् गुहो ज्ञातीन् अचोदयत् ॥७७॥

2.52.77 #230de37ba211 timing uncertain

राघवोऽपि महातेजा नावमारुह्य ताम् ततः । ब्रह्मवत् क्षत्रवच्चैव जजाप हितमात्मनः ॥७८॥

आचम्य च यथाशास्त्रम् नदीम् ताम् सह सीतया । प्राणमत्प्रीतिसम्हृष्टो लक्ष्मणश्चामितप्रभः ॥७९॥

अनुज्ञाय सुमन्त्रम् च सबलम् चैव तम् गुहम् । आस्थाय नावम् रामः तु चोदयाम् आस नाविकान् ॥८०॥

ततः तैः चोदिता सा नौः कर्ण धार समाहिता । शुभ स्फ्य वेग अभिहता शीघ्रम् सलिलम् अत्यगात् ॥८१॥

मध्यम् तु समनुप्राप्य भागीरथ्याः तु अनिन्दिता । वैदेही प्रान्जलिर् भूत्वा ताम् नदीम् इदम् अब्रवीत् ॥८२॥

पुत्रः दशरथस्य अयम् महा राजस्य धीमतः । निदेशम् पालयतु एनम् गन्गे त्वद् अभिरक्षितः ॥८३॥

चतुर् दश हि वर्षाणि समग्राणि उष्य कानने । भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥८४॥

ततः त्वाम् देवि सुभगे क्षेमेण पुनर् आगता । यक्ष्ये प्रमुदिता गन्गे सर्व काम समृद्धये ॥८५॥

त्वम् हि त्रिपथगा देवि ब्रह्म लोकम् समीक्षसे । भार्या च उदधि राजस्य लोके अस्मिन् सम्प्रदृश्यसे ॥८६॥

सा त्वाम् देवि नमस्यामि प्रशंसामि च शोभने । प्राप्त राज्ये नर व्याघ्र शिवेन पुनर् आगते ॥८७॥

गवाम् शत सहस्राणि वस्त्राणि अन्नम् च पेशलम् । ब्राह्मणेभ्यः प्रदास्यामि तव प्रिय चिकीर्षया ॥८८॥

सुराघटसहस्रेण मांसभूतोदनेन च । यक्ष्ये त्वाम् प्रयता देवि पुरीम् पुनरुपागता ॥८९॥

यानि त्वत्तीरवासीनि दैवतानि च सन्ति हि । तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च ॥९०॥

पुनरेव महाबाउर्मया भ्रात्रा च सम्गतः । अयोध्याम् वनवासात्तु प्रविशत्वनघोऽनघे ॥९१॥

तथा सम्भाषमाणा सा सीता गन्गाम् अनिन्दिता । दक्षिणा दक्षिणम् तीरम् क्षिप्रम् एव अभ्युपागमत् ॥९२॥

तीरम् तु समनुप्राप्य नावम् हित्वा नर ऋषभः । प्रातिष्ठत सह भ्रात्रा वैदेह्या च परम् तपः ॥९३॥

अथ अब्रवीन् महा बाहुः सुमित्र आनन्द वर्धनम् । भव सम्रक्षणार्थाय सजने विजनेऽपि वा ॥९४॥

अवश्यम् रक्षणम् कार्यमदृष्टे विजने वने । अग्रतः गच्च सौमित्रे सीता त्वाम् अनुगच्चतु ॥९५॥

पृष्ठतः अहम् गमिष्यामि त्वाम् च सीताम् च पालयन् । अन्योन्यस्य हि नो रक्षा कर्तव्या पुरुषर्षभ ॥९६॥

न हि तावदतिक्रान्ता सुकरा काचन क्रिया । अद्य दुःखम् तु वैदेही वनवासस्य वेत्स्यति ॥९७॥

प्रणष्टजनसम्बाधम् क्षेत्रारामविवर्बितम् । विषमम् च प्रपातम् च वनमद्य प्रवेक्ष्यति ॥९८॥

श्रुत्वा रामस्य वचनम् प्रतिस्थे लक्ष्मणोऽग्रतः । अनन्तरम् च सीताया राघवो रघुनन्दनः ॥९९॥

गतम् तु गन्गा पर पारम् आशु । रामम् सुमन्त्रः प्रततम् निरीक्ष्य । अध्व प्रकर्षात् विनिवृत्त दृष्टिर् । र्मुमोच बाष्पम् व्यथितः तपस्वी ॥१००॥

स लोकपालप्रतिमप्रभाववाम् । स्तीर्त्वा महात्मा वरदो महानदीम् । ततः समृद्धान् शुभसस्यमालिनः । क्रमेण वत्सान् मुदितानुपागमत् ॥१०१॥

तौ तत्र हत्वा चतुरः महा मृगान् । वराहम् ऋश्यम् पृषतम् महा रुरुम् । आदाय मेध्यम् त्वरितम् बुभुक्षितौ| वासाय काले ययतुर् वनः पतिम् ॥१०२॥

इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे द्विपंचाशः सर्गः ॥

Listen to the sarga
0:00