रामायणम्

पञ्चाशः सर्गः 2.55

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

उषित्वा रजनीम् तत्र राजपुत्रावरिंदमौ । महर्षिमभिवाद्याथ जग्मतुस्तम् गिरिम् प्रति ॥१॥

तेषाम् चैव स्वस्त्ययनम् महर्षिः स चकार ह । प्रस्थितांश्चैव तान् प्रेक्ष्यपिता पुत्रानिवान्वगात् ॥२॥

ततः प्रचक्रमे वक्तुम् वचनम् स महामुनिः । भर्द्वाजो महातेजा रामम् सत्यपराक्रमम् ॥३॥

गङ्गायमुनयोः सन्धिमासाद्य मनुजर्षभौ । काळिन्दीमनुगच्छेताम् नदीम् पश्चान्मुखाश्रिताम् ॥४॥

अथासाद्य तु काळिन्न्धीम् शीघ्रस्रोतसमापगाम् । तस्यास्तीर्थम् प्रचरितम् पुराणम् प्रेक्ष्य राघवौ ॥५॥

तत्र यूयम् प्लवम् कृत्वा तरतांशुमतीम् नदीम् । ततो न्यग्रोधमासाद्य महान्तम् हरितच्छदम् ॥६॥

विवृद्धम् बहुभिर्वऋक्षैह् श्यामम् सिद्धोपसेवितम् । तस्मै सीताञ्जलिम् कृत्वा प्रयुञ्जीताशिषः शिवाः ॥७॥

समासाद्य तु तम् वृक्षम् वसेद्वातिक्रमेत वा । क्रोशमात्रम् ततो गत्वा नीलम् द्रक्ष्यथ काननम् ॥८॥

पलाशबदरीमिश्रम् रम्यम् वंशैश्च यामुनैः । स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया ॥९॥

रम्ये मार्दवयुक्तश्च वनदावैर्विपर्जितः । इति पन्थानमावेद्य महर्षः स न्यवर्तत ॥१०॥

अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः । उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत् ॥११॥

कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते । इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ ॥१२॥

सीतामेवाग्रतः कृत्वा काळिन्दीम् जग्मतुर्नदीम् । अथा साद्य तु काळिन्दीम् शीघ्रस्रोतोवहाम् नदीम् ॥१३॥

चिन्तामापेदिरे सर्वे नदीजलतितीर्षवः तौ काष्ठसम्घातमथो चक्रतुस्तु महाप्लवम् ॥१४॥

शुष्कैर्वंशैः समास्तीर्णमुळीरैश्च समावृतम् । ततो वेतसशाखाश्च जम्बूशाखाश्च वीर्यवान् ॥१५॥

चकार लक्ष्मणश्छित्वा सीतायाः सुखमासनम् । तत्र श्रियमिवाचिन्त्याम् रामो दाशरथिः प्रियाम् ॥१६॥

ईष्त्सन्कह्हनाबान् तानग्तारिओअतत् प्लवम् । पार्श्वे च तत्र वैदेह्या वसने चूष्णानि च ॥१७॥

प्लवे कठिनकाजम् च रामश्चक्रे सहायुधैः । आरोप्य प्रथमम् सीताम् सम्घाटम् प्रतिगृह्य तौ ॥१८॥

ततः प्रतेरतुर्य त्तौ वीरौ दशरथात्मजौ । काळिन्दीमध्यमायाता सीता त्वेनामवन्दत ॥१९॥

स्वस्ति देवि तरामि त्वाम् पार्येन्मे पतिर्वतम् । यक्ष्ये त्वाम् गोनहस्रेण सुराघटशतेन च ॥२०॥

स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम् । काळिन्दीमथ सीता तु याचमाना कृताञ्जलिः ॥२१॥

तीरमेवाभिसम्प्राप्ता दक्षिणम् वरवर्णिनी । ततः प्लवेनांशुमतीम् शीघ्रगामूर्मिमालिनीम् ॥२२॥

तीरजैर्बहुभिर्वृक्षैः सम्तेरुर्यमुनाम् नदीम् । ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात् ॥२३॥

श्यामम् न्यग्रोधमासेदुः शीतलम् हरितच्छदम् । न्य्ग्रोधम् तमुपागम्य वैदेहि वाक्यमब्रवीत् ॥२४॥

नमस्तेऽन्तु महावृक्ष पारयेन्मे पतिर्वतम् । कौसल्याम् चैव पश्येयम् सुमित्राम् च यशस्विनीम् ॥२५॥

इति सीताञ्जलिम् कृत्वा पर्यगच्छद्वनस्पतिम् । अवलोक्य ततः सीतामायाचन्तीमनिन्दिताम् ॥२६॥

दयिताम् च विधेयम् च रामो लक्ष्मणमब्रवीत् । सीतामादाय गच्छ त्वमग्रतो भरतानुज ॥२७॥

पृष्ठतोऽहम् गमिष्यामि सायुधो द्विपदाम् वर । यद्यत्फलम् प्रार्थयते पुष्पम् वा जनकात्मजा ॥२८॥

तत्तत्प्रदद्या वैदेह्या यत्रास्य रमते मनः । गच्चतोस्तु तयोर्मध्ये बभूव जनकात्मजा ॥२९॥

2.55.29 #155b288a0084 timing uncertain

मातङ्गयोर्मद्यगता शुभा नागवधूरिव । एकैकम् पादपम् गुल्मम् लताम् वा पुष्पशालिनीम् ॥३०॥

अदृष्टपूर्वाम् पश्यन्ती रामम् पप्रच्छ साऽबला । रमणीयान् बहुविधान् पादपान् कुसुमोत्कटान् ॥३१॥

सीतावचनसम्रब्द अनयामास लक्स्मणः । विचित्रवालुकजलाम् हससारसनादिताम् ॥३२॥

रेमे जनकराजस्य तदा प्रेक्ष्य सुता नदीम् । क्रोशमात्रम् ततो गत्वा भ्रातरौ रामलक्ष्मनौ ॥३३॥

बहून्मेध्यान् मृगान् हत्वा चेरतुर्यमुनावने । विहृत्य ते बर्हिणपूगनादिते । शुभे वने वानरवारणायुते । समम् नदीवप्रमुपेत्य सम्मतम् । निवासमाजग्मु रदीनदर्शनाः ॥३४॥

इत्यार्षे श्रिमद्रामायणे आदिकाव्ये अयोध्यकान्दे पञ्चाशः सर्गः ॥

Listen to the sarga
0:00