रामायणम्

षट्पञ्चाशः सर्गः 2.56

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

अथ रात्र्याम् व्यतीतायाम् अवसुप्तम् अनन्तरम् । प्रबोधयाम् आस शनैः लक्ष्मणम् रघु नन्दनः ॥१॥

सौमित्रे शृणु वन्यानाम् वल्गु व्याहरताम् स्वनम् । सम्प्रतिष्ठामहे कालः प्रस्थानस्य परम् तप ॥२॥

स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः । जहौ निद्राम् च तन्द्रीम् च प्रसक्तम् च पथि श्रमम् ॥३॥

ततौत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवम् जलम् । पन्थानम् ऋषिणा उद्दिष्टम् चित्र कूटस्य तम् ययुः ॥४॥

ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह । सीताम् कमल पत्र अक्षीम् इदम् वचनम् अब्रवीत् ॥५॥

आदीप्तान् इव वैदेहि सर्वतः पुष्पितान् नगान् । स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिर अत्यये ॥६॥

पश्य भल्लातकान् फुल्लान् नरैः अनुपसेवितान् । फल पत्रैः अवनतान् नूनम् शक्ष्यामि जीवितुम् ॥७॥

पश्य द्रोण प्रमाणानि लम्बमानानि लक्ष्मण । मधूनि मधु कारीभिः सम्भृतानि नगे नगे ॥८॥

एष क्रोशति नत्यूहः तम् शिखी प्रतिकूजति । रमणीये वन उद्देशे पुष्प संस्तर सम्कटे ॥९॥

मातम्ग यूथ अनुसृतम् पक्षि सम्घ अनुनादितम् । चित्र कूटम् इमम् पश्य प्रवृद्ध शिखरम् गिरिम् ॥१०॥

समभूमितले रम्ये द्रुमैर्बहुभिरावृते । पुण्ये रंस्यामहे तात चित्रकूटस्य कानने ॥११॥

ततः तौ पाद चारेण गच्चन्तौ सह सीतया । रम्यम् आसेदतुः शैलम् चित्र कूटम् मनो रमम् ॥१२॥

तम् तु पर्वतम् आसाद्य नाना पक्षि गण आयुतम् । बहुमूलफलम् रम्यम् सम्पन्नम् सरसोदकम् ॥१३॥

मनोज्ज़्नोऽयम् तिरिः सौम्य नानाद्रुमलतायतह् । बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे ॥१४॥

मनयश्च महात्मानो वसन्त्य शिलोच्चये । अयम् वासो भवेत् तावद् अत्र सौम्य रमेमहि ॥१५॥

इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलिः । अभिगम्याश्रमम् सर्वे वाल्मीकि मभिवादयन् ॥१६॥

तान्महर्षिः प्रमुदितः पूजयामास धर्मवित् । आस्यतामिति चोवाच स्वागतम् तु निवेद्य च ॥१७॥

ततोऽब्रवीन्महाबाहुर्लकमणम् लक्ष्मणाग्रजः । सम्निवेद्य यथान्याय मात्मानमृष्ये प्रभुः ॥१८॥

लक्ष्मण आनय दारूणि दृढानि च वराणि च । कुरुष्व आवसथम् सौम्य वासे मे अभिरतम् मनः ॥१९॥

तस्य तत् वचनम् श्रुत्वा सौमित्रिर् विविधान् द्रुमान् । आजहार ततः चक्रे पर्ण शालाम् अरिम् दम ॥२०॥

ताम् निष्ठताम् बद्धकटाम् दृष्ट्वा रमः सुदर्शनाम् । शुश्रूषमाणम् एक अग्रम् इदम् वचनम् अब्रवीत् ॥२१॥

ऐणेयम् मांसम् आहृत्य शालाम् यक्ष्यामहे वयम् । कर्त्व्यम् वास्तुशमनम् सौमित्रे चिरजीवभिः ॥२२॥

मृगम् हत्वाऽऽनय क्षिप्रम् लक्ष्मणेह शुभेक्षण कर्तव्यः शास्त्रदृष्टो हि विधिर्दर्ममनुस्मर ॥२३॥

भ्रातुर्वचन माज्ञाय लक्ष्मणः परवीरहा । चकार स यथोक्तम् च तम् रामः पुनरब्रवीत् ॥२४॥

इणेयम् श्रपयस्वैतच्च्चालाम् यक्ष्यमहे वयम् । त्वरसौम्य मुहूर्तोऽयम् ध्रुवश्च दिवसोऽप्ययम् ॥२५॥

स लक्ष्मणः कृष्ण मृगम् हत्वा मेध्यम् पतापवान् । अथ चिक्षेप सौमित्रिः समिद्धे जात वेदसि ॥२६॥

तम् तु पक्वम् समाज्ञाय निष्टप्तम् चिन्न शोणितम् । लक्ष्मणः पुरुष व्याघ्रम् अथ राघवम् अब्रवीत् ॥२७॥

अयम् कृष्णः समाप्त अन्गः शृतः कृष्ण मृगो यथा । देवता देव सम्काश यजस्व कुशलो हि असि ॥२८॥

रामः स्नात्वा तु नियतः गुणवान् जप्य कोविदः । सम्ग्रहेणाकरोत्सर्वान् मन्त्रन् सत्रावसानिकान् ॥२९॥

इष्ट्वा देवगणान् सर्वान् विवेशावसथम् शुचिः । बभूव च मनोह्लादो रामस्यामिततेजसः ॥३०॥

वैश्वदेवबलिम् कृत्वा रौद्रम् वैष्णवमेव च । वास्तुसंशमनीयानि मङ्गळानि प्रवर्तयन् ॥३१॥

जपम् च न्यायतः कृत्वा स्नात्वा नद्याम् यथाविधि । पाप संशमनम् रामः चकार बलिम् उत्तमम् ॥३२॥

वेदिस्थलविधानानि चैत्यान्यायतनानि च । आश्रमस्यानुरूपाणि स्थापयामास राघवः ॥३३॥

वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्मांसैर्यथाविधि । अद्भर्जपैश्च वेदोक्तै र्धर्भैश्च ससमित्कुशैः ॥३४॥

2.56.34 #180b5d6465d3 timing uncertain

तौ तर्पयित्वा भूतानि राघवौ सह सीतया । तदा विविशतुः शालाम् सुशुभाम् शुभलक्षणौ ॥३५॥

2.56.35 #773555c04bba timing uncertain

ताम् वृक्ष पर्णच् चदनाम् मनोज्ञाम् । यथा प्रदेशम् सुकृताम् निवाताम् । वासाय सर्वे विविशुः समेताः । सभाम् यथा देव गणाः सुधर्माम् ॥३६॥

2.56.36 #fc174cb5316c timing uncertain

अनेक नाना मृग पक्षि सम्कुले । विचित्र पुष्प स्तबलैः द्रुमैः युते । वन उत्तमे व्याल मृग अनुनादिते । तथा विजह्रुः सुसुखम् जित इन्द्रियाः ॥३७॥

2.56.37 #3ea662b8b8c2 timing uncertain

सुरम्यम् आसाद्य तु चित्र कूटम् । नदीम् च ताम् माल्यवतीम् सुतीर्थाम् । ननन्द हृष्टः मृग पक्षि जुष्टाम् । जहौ च दुह्खम् पुर विप्रवासात् ॥३८॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे षट्पञ्चाशः सर्गः ॥

Listen to the sarga
0:00