प्रतिबुद्धो मुहुर् तेन शोक उपहत चेतनः । अथ राजा दशरथः स चिन्ताम् अभ्यपद्यत ॥१॥
त्रिषष्टितमः सर्गः 2.63
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
राम लक्ष्मणयोः चैव विवासात् वासव उपमम् । आविवेश उपसर्गः तम् तमः सूर्यम् इव आसुरम् ॥२॥
सभार्ये निर्गते रामे कौसल्याम् कोसलेश्वरः । विवक्षुरसितापाङ्गाम् स्मृवा दुष्कृतमात्मनः ॥३॥
स राजा रजनीम् षष्ठीम् रामे प्रव्रजिते वनम् । अर्ध रात्रे दशरथः संस्मरन् दुष्कृतम् कृतम् ॥४॥
स राजा पुत्रशोकार्तः स्मरन् दुष्कृतमात्मनः । कौसल्याम् पुत्र शोक आर्ताम् इदम् वचनम् अब्रवीत् ॥५॥
यद् आचरति कल्याणि शुभम् वा यदि वा अशुभम् । तत् एव लभते भद्रे कर्ता कर्मजम् आत्मनः ॥६॥
गुरु लाघवम् अर्थानाम् आरम्भे कर्मणाम् फलम् । दोषम् वा यो न जानाति स बालैति ह उच्यते ॥७॥
कश्चित् आम्र वणम् चित्त्वा पलाशामः च निषिन्चति । पुष्पम् दृष्ट्वा फले गृध्नुः स शोचति फल आगमे ॥८॥
अविज्ञाय फलम् यो हि कर्म त्वेवानुधावति । स शोचेत्फलवेळायाम् यथा किंशुकसेचकः ॥९॥
सो अहम् आम्र वणम् चित्त्वा पलाशामः च न्यषेचयम् । रामम् फल आगमे त्यक्त्वा पश्चात् शोचामि दुर्मतिः ॥१०॥
लब्ध शब्देन कौसल्ये कुमारेण धनुष्मता । कुमारः शब्द वेधी इति मया पापम् इदम् कृतम् ॥११॥
तत् इदम् मे अनुसम्प्राप्तम् देवि दुह्खम् स्वयम् कृतम् । सम्मोहात् इह बालेन यथा स्यात् भक्षितम् विषम् ॥१२॥
यथान्यः पुरुषः कश्चित्पलाशैर्मोओहितो भवेत् । एवम् मम अपि अविज्ञातम् शब्द वेध्यमयम् फलम् ॥१३॥
देव्य् अनूढा त्वम् अभवो युव राजो भवाम्य् अहम् । ततः प्रावृड् अनुप्राप्ता मद काम विवर्धिनी ॥१४॥
उपास्यहि रसान् भौमांस् तप्त्वा च जगद् अंशुभिः । परेत आचरिताम् भीमाम् रविर् आविशते दिशम् ॥१५॥
उष्णम् अन्तर् दधे सद्यः स्निग्धा ददृशिरे घनाः । ततः जहृषिरे सर्वे भेक सारन्ग बर्हिणः ॥१६॥
क्लिन्नपक्षोत्तराः स्नाताः कृच्च्रादिव वतत्रिणः । वृष्टिवातावधूताग्रान् पादपानभिपेदिरे ॥१७॥
पतितेन अम्भसा चन्नः पतमानेन च असकृत् । आबभौ मत्त सारन्गः तोय राशिर् इव अचलः ॥१८॥
पाण्डुरारुणवर्णानि स्रोओतांसि विमलान्यपि । सुस्रुवुर्गिरिधातुभ्यः सभस्मानि भुजङ्गवत् ॥१९॥
आकुलारुणतोयानि स्रोओतांसि विमलान्यपि । उन्मार्गजलवाहीनि बभूवुर्जलदागमे ॥२०॥
तस्मिन्न् अतिसुखे काले धनुष्मान् इषुमान् रथी । व्यायाम कृत सम्कल्पः सरयूम् अन्वगाम् नदीम् ॥२१॥
निपाने महिषम् रात्रौ गजम् वा अभ्यागतम् नदीम् । अन्यम् वा श्वा पदम् कंचिज् जिघांसुर् अजित इन्द्रियः ॥२२॥
तस्मिंस्तत्राहमेकान्ते रात्रौ विवृतकार्मुकः । तत्राहम् सम्वृतम् वन्यम् हतवांस्तीरमागतम् ॥२३॥
अन्यम् चापि मृगम् हिंस्रम् शब्दम् श्रुत्वाभु पागतम् । अथ अन्ध कारे तु अश्रौषम् जले कुम्भस्य पर्यतः ॥२४॥
अचक्षुर् विषये घोषम् वारणस्य इव नर्दतः । ततः अहम् शरम् उद्धृत्य दीप्तम् आशी विष उपमम् ॥२५॥
शब्दम् प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम् । अमुन्चम् निशितम् बाणम् अहम् आशी विष उपमम् ॥२६॥
तत्र वाग् उषसि व्यक्ता प्रादुर् आसीद् वन ओकसः । हा हा इति पततः तोये बाणाभिहतमर्मणः ॥२७॥
तस्मिन्निपतिते बाणे वागभूत्तत्र मानुषी । कथम् अस्मद् विधे शस्त्रम् निपतेत् तु तपस्विनि ॥२८॥
प्रविविक्ताम् नदीम् रात्राव् उदाहारः अहम् आगतः । इषुणा अभिहतः केन कस्य वा किम् कृतम् मया ॥२९॥
ऋषेर् हि न्यस्त दण्डस्य वने वन्येन जीवतः । कथम् नु शस्त्रेण वधो मद् विधस्य विधीयते ॥३०॥
जटा भार धरस्य एव वल्कल अजिन वाससः । को वधेन मम अर्थी स्यात् किम् वा अस्य अपकृतम् मया ॥३१॥
एवम् निष्फलम् आरब्धम् केवल अनर्थ सम्हितम् । न कश्चित् साधु मन्येत यथैव गुरु तल्पगम् ॥३२॥
नहम् तथा अनुशोचामि जीवित क्षयम् आत्मनः । मातरम् पितरम् च उभाव् अनुशोचामि मद् विधे ॥३३॥
तत् एतान् मिथुनम् वृद्धम् चिर कालभृतम् मया । मयि पन्चत्वम् आपन्ने काम् वृत्तिम् वर्तयिष्यति ॥३४॥
वृद्धौ च माता पितराव् अहम् च एक इषुणा हतः । केन स्म निहताः सर्वे सुबालेन अकृत आत्मना ॥३५॥
तम् गिरम् करुणाम् श्रुत्वा मम धर्म अनुकान्क्षिणः । कराभ्याम् सशरम् चापम् व्यथितस्य अपतत् भुवि ॥३६॥
तस्याहम् करुणम् श्रुत्वा निशि लालपतो बहु । सम्भ्रानतः शोकवेगेन भृशमास विचेतनः ॥३७॥
तम् देशम् अहम् आगम्य दीन सत्त्वः सुदुर्मनाः । अपश्यम् इषुणा तीरे सरय्वाः तापसम् हतम् ॥३८॥
अवकीर्णजटाभारम् प्रविद्धकलशोदकम् । पासुशोणितदिग्धाङ्गम् शयानम् शल्यपीडितम् ॥३९॥
स माम् उद्वीक्ष्य नेत्राभ्याम् त्रस्तम् अस्वस्थ चेतसम् । इति उवाच वचः क्रूरम् दिधक्षन्न् इव तेजसा ॥४०॥
किम् तव अपकृतम् राजन् वने निवसता मया । जिहीर्षिउर् अम्भो गुर्व् अर्थम् यद् अहम् ताडितः त्वया ॥४१॥
एकेन खलु बाणेन मर्मणि अभिहते मयि । द्वाव् अन्धौ निहतौ वृद्धौ माता जनयिता च मे ॥४२॥
तौ नूनम् दुर्बलाव् अन्धौ मत् प्रतीक्षौ पिपासितौ । चिरम् आशा कृताम् तृष्णाम् कष्टाम् संधारयिष्यतः ॥४३॥
न नूनम् तपसो वा अस्ति फल योगः श्रुतस्य वा । पिता यन् माम् न जानाति शयानम् पतितम् भुवि ॥४४॥
जानन्न् अपि च किम् कुर्यात् अशक्तिर् अपरिक्रमः । चिद्यमानम् इव अशक्तः त्रातुम् अन्यो नगो नगम् ॥४५॥
पितुस् त्वम् एव मे गत्वा शीघ्रम् आचक्ष्व राघव । न त्वाम् अनुदहेत् क्रुद्धो वनम् वह्निर् इव एधितः ॥४६॥
इयम् एक पदी राजन् यतः मे पितुर् आश्रमः । तम् प्रसादय गत्वा त्वम् न त्वाम् स कुपितः शपेत् ॥४७॥
विशल्यम् कुरु माम् राजन् मर्म मे निशितः शरः । रुणद्धि मृदु स उत्सेधम् तीरम् अम्बु रयो यथा ॥४८॥
सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति । इति मामविशच्चिन्ता तस्य शल्यापकर्षणे ॥४९॥
दुःखितस्य च दीनस्य मम शोकातुरस्य च । लक्ष्यामास हृदये चिन्ताम् मुनिसुत स्तदा ॥५०॥
ताम्यमानः स माम् दुःखादुवाच परमार्तवत् । सीदमानो विवृत्ताङ्गो वेष्टमानो गतः क्षयम् ॥५१॥
संस्तभ्य धैर्येण स्थिरचित्तो भवाम्यहम् । ब्रह्महत्याकृतम् पापम् हृदयादपनीयताम् ॥५२॥
न द्विजातिर् अहम् राजन् मा भूत् ते मनसो व्यथा । शूद्रायाम् अस्मि वैश्येन जातः जन पद अधिप ॥५३॥
इति इव वदतः कृच्च्रात् बाण अभिहत मर्मणः । विघूर्णतो विचेष्टस्य वेपमाचस्य भूतले ॥५४॥
तस्य तु आनम्यमानस्य तम् बाणम् अहम् उद्धरम् । तस्य त्वानम्यमानस्य तम् बाणामहमुद्धरम् ॥५५॥
जल आर्द्र गात्रम् तु विलप्य कृच्चान् । मर्म व्रणम् सम्ततम् उच्चसन्तम् । ततः सरय्वाम् तम् अहम् शयानम् । समीक्ष्य भद्रे सुभृशम् विषण्णः ॥५६॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे त्रिषष्टितमः सर्गः ॥