भरते ब्रुवति स्वप्नम् दूताः ते क्लान्त वाहनाः । प्रविश्य असह्य परिखम् रम्यम् राज गृहम् पुरम् ॥१॥
सप्ततितमः सर्गः 2.70
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
समागम्य तु राज्ञा च राज पुत्रेण च अर्चिताः । राज्ञः पादौ गृहीत्वा तु तम् ऊचुर् भरतम् वचः ॥२॥
पुरोहितः त्वा कुशलम् प्राह सर्वे च मन्त्रिणः । त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥३॥
इमानि च महार्हाणि वस्त्राण्य़ाभरणानि च । प्रतिगृह्य विशालाक्ष मातुलस्य च दापय ॥४॥
अत्र विंशति कोट्यः तु नृपतेर् मातुलस्य ते । दश कोट्यः तु सम्पूर्णाः तथैव च नृप आत्मज ॥५॥
प्रतिगृह्य च तत् सर्वम् स्वनुरक्तः सुहृज् जने । दूतान् उवाच भरतः कामैः सम्प्रतिपूज्य तान् ॥६॥
कच्चित् सुकुशली राजा पिता दशरथो मम । कच्चिच् च अरागता रामे लक्ष्मणे वा महात्मनि ॥७॥
आर्या च धर्म निरता धर्मज्ञा धर्म दर्शिनी । अरोगा च अपि कौसल्या माता रामस्य धीमतः ॥८॥
कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या । शत्रुघ्नस्य च वीरस्य सारोगा च अपि मध्यमा ॥९॥
आत्म कामा सदा चण्डी क्रोधना प्राज्ञ मानिनी । अरोगा च अपि कैकेयी माता मे किम् उवाच ह ॥१०॥
एवम् उक्ताः तु ते दूता भरतेन महात्मना । ऊचुः सम्प्रश्रितम् वाक्यम् इदम् तम् भरतम् तदा ॥११॥
कुशलाः ते नर व्याघ्र येषाम् कुशलम् इच्चसि । श्रीश्च त्वाम् वृणुते पद्मा युज्यताम् चापि ते रकः ॥१२॥
भरतः च अपि तान् दूतान् एवम् उक्तः अभ्यभाषत । आपृच्चे अहम् महा राजम् दूताः सम्त्वरयन्ति माम् ॥१३॥
एवम् उक्त्वा तु तान् दूतान् भरतः पार्थिव आत्मजः । दूतैः संचोदितः वाक्यम् मातामहम् उवाच ह ॥१४॥
राजन् पितुर् गमिष्यामि सकाशम् दूत चोदितः । पुनर् अपि अहम् एष्यामि यदा मे त्वम् स्मरिष्यसि ॥१५॥
भरतेन एवम् उक्तः तु नृपो मातामहः तदा । तम् उवाच शुभम् वाक्यम् शिरस्य् आघ्राय राघवम् ॥१६॥
गच्च तात अनुजाने त्वाम् कैकेयी सुप्रजाः त्वया । मातरम् कुशलम् ब्रूयाः पितरम् च परम् तप ॥१७॥
पुरोहितम् च कुशलम् ये च अन्ये द्विज सत्तमाः । तौ च तात महा इष्वासौ भ्रातरु राम लक्ष्मणौ ॥१८॥
तस्मै हस्ति उत्तमामः चित्रान् कम्बलान् अजिनानि च । अभिसत्कृत्य कैकेयो भरताय धनम् ददौ ॥१९॥
रुक्म निष्क सहस्रे द्वे षोडश अश्व शतानि च । सत्कृत्य कैकेयी पुत्रम् केकयो धनम् आदिशत् ॥२०॥
तथा अमात्यान् अभिप्रेतान् विश्वास्यामः च गुण अन्वितान् । ददाव् अश्व पतिः शीघ्रम् भरताय अनुयायिनः ॥२१॥
ऐरावतान् ऐन्द्र शिरान् नागान् वै प्रिय दर्शनान् । खरान् शीघ्रान् सुसम्युक्तान् मातुलो अस्मै धनम् ददौ ॥२२॥
अन्तः पुरे अतिसम्वृद्धान् व्याघ्र वीर्य बल अन्वितान् । दम्ष्ट्र आयुधान् महा कायान् शुनः च उपायनम् ददौ ॥२३॥
स मातामहम् आपृच्च्य मातुलम् च युधा जितम् । रथम् आरुह्य भरतः शत्रुघ्न सहितः ययौ ॥२४॥
बभूव ह्यस्य हृदते चिन्ता सुमहती तदा । त्वरया चापि दूतानाम् स्वप्नस्यापि च दर्शनात् ॥२५॥
स स्ववेश्माभ्यतिक्रम्य नरनागश्वसम्वृतम् । प्रपेदे सुमहच्छ्रीमान् राजमार्गमनुत्तमम् ॥२६॥
अभ्यतीत्य ततोऽपश्यदन्तः पुरमुदारधीः । ततस्तद्भरतः श्रीमानाविवेशानिवारितः ॥२७॥
स माता महमापृच्च्य मातुलम् च युधाजितम् । रथमारुह्य भरतः शत्रुघ्नसहितो ययौ ॥२८॥
रथान् मण्डल चक्रामः च योजयित्वा परः शतम् । उष्ट्र गो अश्व खरैः भृत्या भरतम् यान्तम् अन्वयुः ॥२९॥
बलेन गुप्तः भरतः महात्मा । सह आर्यकस्य आत्म समैः अमात्यैः । आदाय शत्रुघ्नम् अपेत शत्रुर् । गृहात् ययौ सिद्धैव इन्द्र लोकात् ॥३०॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे सप्ततितमः सर्गः ॥