रामायणम्

एकसप्ततितमः सर्गः 2.71

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

स प्रान् मुखो राज गृहात् अभिनिर्याय वीर्यवान् । ततः सुदामाम् द्युतिमान् सम्तीर्वावेक्ष्य ताम् नदीम् ॥१॥

ह्लादिनीम् दूर पाराम् च प्रत्यक् स्रोतः तरन्गिणीम् । शतद्रूम् अतरत् श्रीमान् नदीम् इक्ष्वाकु नन्दनः ॥२॥

एल धाने नदीम् तीर्त्वा प्राप्य च अपर पर्पटान् । शिलाम् आकुर्वतीम् तीर्त्वाआग्नेयम् शल्य कर्तनम् ॥३॥

सत्य संधः शुचिः श्रीमान् प्रेक्षमाणः शिला वहाम् । अत्ययात् स महा शैलान् वनम् चैत्र रथम् प्रति ॥४॥

सरस्वतीम् च गङ्गाम् च उग्मेन प्रतिपद्य च । उत्तरम् वीरमत्स्यानाम् भारुण्डम् प्राविशद्वनम् ॥५॥

वेगिनीम् च कुलिन्ग आख्याम् ह्रादिनीम् पर्वत आवृताम् । यमुनाम् प्राप्य सम्तीर्णो बलम् आश्वासयत् तदा ॥६॥

शीतीकृत्य तु गात्राणि क्लान्तान् आश्वास्य वाजिनः । तत्र स्नात्वा च पीत्वा च प्रायात् आदाय च उदकम् ॥७॥

राज पुत्रः महा अरण्यम् अनभीक्ष्ण उपसेवितम् । भद्रः भद्रेण यानेन मारुतः खम् इव अत्ययात् ॥८॥

भागीरथीम् दुष्प्रतरामंशुधाने महानदीम् । उपायाद्राघवस्तूर्णम् प्राग्वटे विश्रुते पुरे ॥९॥

स गङ्गाम् प्राग्वटे तीर्त्वे समायात्कुटिकोष्ठिकाम् । सबलस्ताम् स तीर्त्वाथ समायाद्धर्मवर्धनम् ॥१०॥

तोरणम् दक्षिण अर्धेन जम्बू प्रस्थम् उपागमत् । वरूथम् च ययौ रम्यम् ग्रामम् दशरथ आत्मजः ॥११॥

तत्र रम्ये वने वासम् कृत्वा असौ प्रान् मुखो ययौ । उद्यानम् उज्जिहानायाः प्रियका यत्र पादपाः ॥१२॥

सालांस् तु प्रियकान् प्राप्य शीघ्रान् आस्थाय वाजिनः । अनुज्ञाप्य अथ भरतः वाहिनीम् त्वरितः ययौ ॥१३॥

वासम् कृत्वा सर्व तीर्थे तीर्त्वा च उत्तानकाम् नदीम् । अन्या नदीः च विविधाः पार्वतीयैअः तुरम् गमैः ॥१४॥

हस्ति पृष्ठकम् आसाद्य कुटिकाम् अत्यवर्तत । ततार च नर व्याघ्रः लौहित्ये स कपीवतीम् ॥१५॥

एक साले स्थाणुमतीम् विनते गोमतीम् नदीम् । कलिन्ग नगरे च अपि प्राप्य साल वनम् तदा ॥१६॥

भरतः क्षिप्रम् आगच्चत् सुपरिश्रान्त वाहनः । वनम् च समतीत्य आशु शर्वर्याम् अरुण उदये ॥१७॥

अयोध्याम् मनुना राज्ञा निर्मिताम् स ददर्श ह । ताम् पुरीम् पुरुष व्याघ्रः सप्त रात्र उषिटः पथि ॥१८॥

अयोध्याम् अग्रतः दृष्ट्वा रथे सारथिम् अब्रवीत् । एषा न अतिप्रतीता मे पुण्य उद्याना यशस्विनी ॥१९॥

अयोध्या दृश्यते दूरात् सारथे पाण्डु मृत्तिका । यज्वभिर् गुण सम्पन्नैः ब्राह्मणैः वेद पारगैः ॥२०॥

भूयिष्ठम् ऋषैः आकीर्णा राज ऋषि वर पालिता । अयोध्यायाम् पुरा शब्दः श्रूयते तुमुलो महान् ॥२१॥

समन्तान् नर नारीणाम् तम् अद्य न शृणोम्य् अहम् । उद्यानानि हि साय अह्ने क्रीडित्वा उपरतैः नरैः ॥२२॥

समन्तात् विप्रधावद्भिः प्रकाशन्ते मम अन्यदा । तानि अद्य अनुरुदन्ति इव परित्यक्तानि कामिभिः ॥२३॥

अरण्य भूता इव पुरी सारथे प्रतिभाति मे । न हि अत्र यानैः दृश्यन्ते न गजैः न च वाजिभिः ॥२४॥

निर्यान्तः वा अभियान्तः वा नर मुख्या यथा पुरम् । उद्यानानि पुरा भान्ति मत्तप्रमुदितानि च ॥२५॥

जनानाम् रतिसम्योगेष्वत्यन्तगुणवन्ति च । तान्येतान्यद्य वश्यामि निरानन्दानि सर्वशः ॥२६॥

स्रस्तपर्णैरनुपथम् विक्रोशद्भिरिव द्रुमैः । नाद्यापि श्रूयते शब्दो मत्तानाम् मृगपक्षिणाम् ॥२७॥

सम्रक्ताम् मधुराम् वाणीम् कलम् व्याहरताम् बहु । चन्दनागुरुसम्पृक्तो धूपसम्मूर्चितोऽतुलः ॥२८॥

प्रवाति पवनः श्रीमान् किम् नु नाद्य यथापुरम् । भेरीमृदङ्गवीणानाम् कोणसम्घट्टितः पुनः ॥२९॥

किमद्य शब्दो विरतः सदाऽदीनगतिः पुरा । अनिष्टानि च पापानि पश्यामि विविधानि च ॥३०॥

निमित्तानि अमनोज्ञानि तेन सीदति ते मनः । सर्वथा कुशलम् सूत दुर्लभम् मम बन्धुषु ॥३१॥

तथा ह्यसति सम्मोहे हृदयम् सीदतीव मे । विषण्णः शान्तहृदयस्त्रस्तः सुलुलितेन्द्रियः ॥३२॥

भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् । द्वारेण वैजयन्तेन प्राविशत् श्रान्त वाहनः ॥३३॥

द्वाह्स्थैः उत्थाय विजयम् पृष्टः तैः सहितः ययौ । स तु अनेक अग्र हृदयो द्वाह्स्थम् प्रत्यर्च्य तम् जनम् ॥३४॥

सूतम् अश्व पतेः क्लान्तम् अब्रवीत् तत्र राघवः । किमहम् त्वरयानीतः कारणेन विनानघ ॥३५॥

अशुभाशङ्कि हृदयम् शीलम् च पततीव मे । श्रुता नो यादृशाः पूर्वम् नृपतीनाम् विनाशने ॥३६॥

आकाराः तान् अहम् सर्वान् इह पश्यामि सारथे । सम्मार्जनविहीनानि परुषाण्युपलक्षये ॥३७॥

असम्यतकवाटानि श्रीविहीनानि सर्वशः । बलिकर्मविहीनानि धूपसम्मेदनेन च ॥३८॥

अनाशितकुटुम्बानि प्रभाहीनजनानि च । अलक्स्मीकानि पश्यामि कुटुम्बिभवनान्यहम् ॥३९॥

अपेतमाल्यशोभानि असम्मृष्टाजिराणि च । देवागाराणि शून्यानि न चाभान्ति यथापुरम् ॥४०॥

देवतार्चाः प्रविद्धाश्च यज्ञ्गोष्ठ्यस्तथाविधाः । माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा ॥४१॥

दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्रवै । ध्यानसम्विग्नहृदयाः नष्टव्यापारयन्त्रिताः ॥४२॥

देवायतनचैत्येषुदीनाः पक्षिगणास्तथा ॥४३॥

मलिनम् च अश्रु पूर्ण अक्षम् दीनम् ध्यान परम् कृशम् । सस्त्री पुंसम् च पश्यामि जनम् उत्कण्ठितम् पुरे ॥४४॥

इति एवम् उक्त्वा भरतः सूतम् तम् दीन मानसः । तानि अनिष्टानि अयोध्यायाम् प्रेक्ष्य राज गृहम् ययौ ॥४५॥

ताम् शून्य शृन्ग अटक वेश्म रथ्याम् । रजो अरुण द्वार कपाट यन्त्राम् । दृष्ट्वा पुरीम् इन्द्र पुरी प्रकाशाम् । दुह्खेन सम्पूर्णतरः बभूव ॥४६॥

बहूनि पश्यन् मनसो अप्रियाणि । यानि अन्न्यदा न अस्य पुरे बभूवुः । अवाक् शिरा दीन मना नहृष्टः । पितुर् महात्मा प्रविवेश वेश्म ॥४७॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे एकसप्ततितमः सर्गः ॥

Listen to the sarga
0:00