अपश्यंस् तु ततः तत्र पितरम् पितुर् आलये । जगाम भरतः द्रष्टुम् मातरम् मातुर् आलये ॥१॥
द्विसप्ततितमः सर्गः 2.72
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
अनुप्राप्तम् तु तम् दृष्ट्वा कैकेयी प्रोषितम् सुतम् । उत्पपात तदा हृष्टा त्यक्त्वा सौवर्ण मानसम् ॥२॥
स प्रविश्य एव धर्म आत्मा स्व गृहम् श्री विवर्जितम् । भरतः प्रेक्ष्य जग्राह जनन्याः चरणौ शुभौ ॥३॥
सा तम् मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम् । अङ्के भरतम् आरोप्य प्रष्टुम् समुपचक्रमे ॥४॥
अद्य ते कतिचित् रात्र्यः च्युतस्य आर्यक वेश्मनः । अपि न अध्व श्रमः शीघ्रम् रथेन आपततः तव ॥५॥
आर्यकः ते सुकुशलो युधा जिन् मातुलः तव । प्रवासाच् च सुखम् पुत्र सर्वम् मे वक्तुम् अर्हसि ॥६॥
एवम् पृष्ठः तु कैकेय्या प्रियम् पार्थिव नन्दनः । आचष्ट भरतः सर्वम् मात्रे राजीव लोचनः ॥७॥
अद्य मे सप्तमी रात्रिः च्युतस्य आर्यक वेश्मनः । अम्बायाः कुशली तातः युधाजिन् मातुलः च मे ॥८॥
यन् मे धनम् च रत्नम् च ददौ राजा परम् तपः । परिश्रान्तम् पथि अभवत् ततः अहम् पूर्वम् आगतः ॥९॥
राज वाल्य हरैः दूतैअः त्वर्यमाणो अहम् आगतः । यद् अहम् प्रष्टुम् इच्चामि तत् अम्बा वक्तुम् अर्हसि ॥१०॥
शून्यो अयम् शयनीयः ते पर्यन्को हेम भूषितः । न च अयम् इक्ष्वाकु जनः प्रहृष्टः प्रतिभाति मे ॥११॥
राजा भवति भूयिष्ठ्गम् इह अम्बाया निवेशने । तम् अहम् न अद्य पश्यामि द्रष्टुम् इच्चन्न् इह आगतः ॥१२॥
पितुर् ग्रहीष्ये चरणौ तम् मम आख्याहि पृच्चतः । आहोस्विद् अम्ब ज्येष्ठायाः कौसल्याया निवेशने ॥१३॥
तम् प्रत्युवाच कैकेयी प्रियवद् घोरम् अप्रियम् । अजानन्तम् प्रजानन्ती राज्य लोभेन मोहिता ॥१४॥
या गतिः सर्व भूतानाम् ताम् गतिम् ते पिता गतः । राजा महात्मा तेजस्वी यायजूकः सताम् गतिः ॥१५॥
तत् श्रुत्वा भरतः वाक्यम् धर्म अभिजनवान् शुचिः । पपात सहसा भूमौ पितृ शोक बल अर्दितः ॥१६॥
हा हातोऽस्मीति कृपणाम् दीनाम् वाचमुदीरयन् । निपपात महाबाहुर्बाहु विक्षिप्य वीर्यवान् ॥१७॥
ततः शोकेन सम्वीतः पितुर् मरण दुह्खितः । विललाप महा तेजा भ्रान्त आकुलित चेतनः ॥१८॥
एतत् सुरुचिरम् भाति पितुर् मे शयनम् पुरा । शशिनेवामलम् रात्रौ गगनम् तोयदात्यये ॥१९॥
तत् इदम् न विभाति अद्य विहीनम् तेन धीमता । व्योमेव श्शिना हीनमप्भुष्क इव सागरः ॥२०॥
बाष्पमुत्सृज्य कण्ठे स्वात्मना परिपीडितः । आच्चाद्य वदनम् श्रीमद्वस्त्रेण जयताम् वरः ॥२१॥
तम् आर्तम् देव सम्काशम् समीक्ष्य पतितम् भुवि । निकृत्तमिव सालस्य स्कन्धम् परशुना वने ॥२२॥
मत्तमातङ्गसम्काशम् चन्द्रार्कसदृशम् भुवः । उत्थापयित्वा शोक आर्तम् वचनम् च इदम् अब्रवीत् ॥२३॥
उत्तिष्ठ उत्तिष्ठ किम् शेषे राज पुत्र महा यशः । त्वद् विधा न हि शोचन्ति सन्तः सदसि सम्मताः ॥२४॥
दानयज्ञाधिकारा हि शीलश्रुतिवचोनुगा । बुद्धिस्ते बुद्धिसम्पन्न प्रभेवार्कस्य मन्दिरे ॥२५॥
स रुदत्या चिरम् कालम् भूमौ विपरिवृत्य च । जननीम् प्रत्युवाच इदम् शोकैः बहुभिर् आवृतः ॥२६॥
अभिषेक्ष्यति रामम् तु राजा यज्ञम् नु यक्ष्यति । इति अहम् कृत सम्कल्पो हृष्टः यात्राम् अयासिषम् ॥२७॥
तत् इदम् हि अन्यथा भूतम् व्यवदीर्णम् मनो मम । पितरम् यो न पश्यामि नित्यम् प्रिय हिते रतम् ॥२८॥
अम्ब केन अत्यगात् राजा व्याधिना मय्य् अनागते । धन्या राम आदयः सर्वे यैः पिता संस्कृतः स्वयम् ॥२९॥
न नूनम् माम् महा राजः प्राप्तम् जानाति कीर्तिमान् । उपजिघ्रेद्द् हि माम् मूर्ध्नि तातः सम्नम्य सत्वरम् ॥३०॥
क्व स पाणिः सुख स्पर्शः तातस्य अक्लिष्ट कर्मणः । येन माम् रजसा ध्वस्तम् अभीक्ष्णम् परिमार्जति ॥३१॥
यो मे भ्राता पिता बन्धुर् यस्य दासो अस्मि धीमतः । तस्य माम् शीघ्रम् आख्याहि रामस्य अक्लिष्ट कर्मणः ॥३२॥
पिता हि भवति ज्येष्ठो धर्मम् आर्यस्य जानतः । तस्य पादौ ग्रहीष्यामि स हि इदानीम् गतिर् मम ॥३३॥
धर्मविद्धर्मनित्यश्च सत्यसन्धो दृढव्रतः । आर्ये किम् अब्रवीद् राजा पिता मे सत्य विक्रमः ॥३४॥
पश्चिमम् साधु संदेशम् इच्चामि श्रोतुम् आत्मनः । इति पृष्टा यथा तत्त्वम् कैकेयी वाक्यम् अब्रवीत् ॥३५॥
राम इति राजा विलपन् हा सीते लक्ष्मण इति च । स महात्मा परम् लोकम् गतः गतिमताम् वरः ॥३६॥
इमाम् तु पश्चिमाम् वाचम् व्याजहार पिता तव । काल धर्म परिक्षिप्तः पाशैः इव महा गजः ॥३७॥
सिद्ध अर्थाः तु नरा रामम् आगतम् सीतया सह । लक्ष्मणम् च महा बाहुम् द्रक्ष्यन्ति पुनर् आगतम् ॥३८॥
तत् श्रुत्वा विषसाद एव द्वितीया प्रिय शंसनात् । विषण्ण वदनो भूत्वा भूयः पप्रच्च मातरम् ॥३९॥
क्व च इदानीम् स धर्म आत्मा कौसल्य आनन्द वर्धनः । लक्ष्मणेन सह भ्रात्रा सीतया च समम् गतः ॥४०॥
तथा पृष्टा यथा तत्त्वम् आख्यातुम् उपचक्रमे । माता अस्य युगपद् वाक्यम् विप्रियम् प्रिय शन्कया ॥४१॥
स हि राज सुतः पुत्र चीर वासा महा वनम् । दण्डकान् सह वैदेह्या लक्ष्मण अनुचरः गतः ॥४२॥
तत् श्रुत्वा भरतः त्रस्तः भ्रातुः चारित्र शन्कया । स्वस्य वंशस्य माहात्म्यात् प्रष्टुम् समुपचक्रमे ॥४३॥
कच्चिन् न ब्राह्मण वधम् हृतम् रामेण कस्यचित् । कच्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिंसितः ॥४४॥
कच्चिन् न पर दारान् वा राज पुत्रः अभिमन्यते । कस्मात् स दण्डक अरण्ये भ्रूणहा इव विवासितः ॥४५॥
अथ अस्य चपला माता तत् स्व कर्म यथा तथम् । तेन एव स्त्री स्वभावेन व्याहर्तुम् उपचक्रमे ॥४६॥
एवमुक्ता तु कैकेयी भरतेन महात्मना । उवाच वचनम् हृष्टा मूढा पण्डितमानिनी ॥४७॥
न ब्राह्मण धनम् किंचिद्द् हृतम् रामेण कस्यचित् । कश्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिंसितः ॥४८॥
न रामः पर दारामः च चक्षुर्भ्याम् अपि पश्यति । मया तु पुत्र श्रुत्वा एव रामस्य एव अभिषेचनम् ॥४९॥
याचितः ते पिता राज्यम् रामस्य च विवासनम् । स स्व वृत्तिम् समास्थाय पिता ते तत् तथा अकरोत् ॥५०॥
रामः च सह सौमित्रिः प्रेषितः सह सीतया । तम् अपश्यन् प्रियम् पुत्रम् मही पालो महा यशाः ॥५१॥
पुत्र शोक परिद्यूनः पन्चत्वम् उपपेदिवान् । त्वया तु इदानीम् धर्मज्ञ राजत्वम् अवलम्ब्यताम् ॥५२॥
त्वत् कृते हि मया सर्वम् इदम् एवम् विधम् कृतम् । मा शोकम् मा च सम्तापम् धैर्यमाश्रय पुत्रक ॥५३॥
त्वदधीना हि नगरी राज्यम् चैतदनामयम् । तत् पुत्र शीघ्रम् विधिना विधिज्ञैः । वसिष्ठ मुख्यैः सहितः द्विज इन्द्रैः । सम्काल्य राजानम् अदीन सत्त्वम् । आत्मानम् उर्व्याम् अभिषेचयस्व ॥५४॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे द्विसप्ततितमः सर्गः ॥