रामायणम्

एकोननवतितमः सर्गः 2.89

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

व्युष्य रात्रिम् तु तत्र एव गन्गा कूले स राघवः । भरतः काल्यम् उत्थाय शत्रुघ्नम् इदम् अब्रवीत् ॥१॥

शत्रुघ उत्तिष्ठ किम् शेषे निषाद अधिपतिम् गुहम् । शीघ्रम् आनय भद्रम् ते तारयिष्यति वाहिनीम् ॥२॥

जागर्मि न अहम् स्वपिमि तथैव आर्यम् विचिन्तयन् । इत्य् एवम् अब्रवीद् भ्रात्रा शत्रुघ्नो अपि प्रचोदितः ॥३॥

इति सम्वदतोर् एवम् अन्योन्यम् नर सिम्हयोः । आगम्य प्रान्जलिः काले गुहो भरतम् अब्रवीत् ॥४॥

कच्चित् सुखम् नदी तीरे अवात्सीः काकुत्स्थ शर्वरीम् । कच्चिच् च सह सैन्यस्य तव सर्वम् अनामयम् ॥५॥

गुहस्य तत् तु वचनम् श्रुत्वा स्नेहाद् उदीरितम् । रामस्य अनुवशो वाक्यम् भरतो अपि इदम् अब्रवीत् ॥६॥

सुखा नः शर्वरी राजन् पूजिताः च अपि ते वयम् । गन्गाम् तु नौभिर् बह्वीभिर् दाशाः सम्तारयन्तु नः ॥७॥

ततो गुहः सम्त्वरितः श्रुत्वा भरत शासनम् । प्रतिप्रविश्य नगरम् तम् ज्नाति जनम् अब्रवीत् ॥८॥

उत्तिष्ठत प्रबुध्यध्वम् भद्रम् अस्तु हि वः सदा । नावः समनुकर्षध्वम् तारयिष्याम वाहिनीम् ॥९॥

ते तथा उक्ताः समुत्थाय त्वरिताः राज शासनात् । पन्च नावाम् शतान्य् एव समानिन्युः समन्ततः ॥१०॥

अन्याः स्वस्तिक विज्नेया महा घण्डा धरा वराः । शोभमानाः पताकिन्यो युक्त वाताः सुसम्हताः ॥११॥

ततः स्वस्तिक विज्नेयाम् पाण्डु कम्बल सम्वृताम् । सनन्दि घोषाम् कल्याणीम् गुहो नावम् उपाहरत् ॥१२॥

ताम् आरुरोह भरतः शत्रुघ्नः च महा बलः । कौसल्या च सुमित्रा च याः च अन्या राज योषितः ॥१३॥

पुरोहितः च तत् पूर्वम् गुरवे ब्राह्मणाः च ये । अनन्तरम् राज दाराः तथैव शकट आपणाः ॥१४॥

आवासम् आदीपयताम् तीर्थम् च अप्य् अवगाहताम् । भाण्डानि च आददानानाम् घोषः त्रिदिवम् अस्पृशत् ॥१५॥

पताकिन्यः तु ता नावः स्वयम् दाशैर् अधिष्ठिताः । वहन्त्यो जनम् आरूढम् तदा सम्पेतुर् आशुगाः ॥१६॥

नारीणाम् अभिपूर्णाः तु काश्चित् काश्चित् तु वाजिनाम् । कश्चित् तत्र वहन्ति स्म यान युग्यम् महा धनम् ॥१७॥

ताः स्म गत्वा परम् तीरम् अवरोप्य च तम् जनम् । निवृत्ताः काण्ड चित्राणि क्रियन्ते दाश बन्धुभिः ॥१८॥

सवैजयन्ताः तु गजा गज आरोहैः प्रचोदिताः । तरन्तः स्म प्रकाशन्ते सध्वजा इव पर्वताः ॥१९॥

नावः च आरुरुहुः तु अन्ये प्लवैः तेरुः तथा अपरे । अन्ये कुम्भ घटैः तेरुर् अन्ये तेरुः च बाहुभिः ॥२०॥

सा पुण्या ध्वजिनी गन्गाम् दाशैः सम्तारिता स्वयम् । मैत्रे मुहूर्ते प्रययौ प्रयाग वनम् उत्तमम् ॥२१॥

आश्वासयित्वा च चमूम् महात्मा । निवेशयित्वा च यथा उपजोषम् । द्रष्टुम् भरद्वाजम् ऋषि प्रवर्यम् । ऋत्विग् वृतः सन् भरतः प्रतस्थे ॥२२॥

स ब्राह्मणस्याश्रममभ्युपेत्य । महात्मनो देवपुरोहितस्य । ददर्श रम्योटजवृक्षषण्डं । महद्वनं विप्रवरस्य रम्यम् ॥२३॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे एकोननवतितमः सर्गः ॥

Listen to the sarga
0:00