द्भरद्वाज आश्रमम् दृष्ट्वा क्रोशाद् एव नर ऋषभः । बलम् सर्वम् अवस्थाप्य जगाम सह मन्त्रिभिः ॥१॥
नवतितमः सर्गः 2.90
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
पद्भ्याम् एव हि धर्मज्नो न्यस्त शस्त्र परिग्च्छदः । वसानो वाससी क्षौमे पुरोधाय पुरोहितम् ॥२॥
ततः संदर्शने तस्य भरद्वाजस्य राघवः । मन्त्रिणः तान् अवस्थाप्य जगाम अनु पुरोहितम् ॥३॥
वसिष्ठम् अथ दृष्ट्वा एव भरद्वाजो महा तपाः । संचचाल आसनात् तूर्णम् शिष्यान् अर्घ्यम् इति ब्रुवन् ॥४॥
समागम्य वसिष्ठेन भरतेन अभिवादितः । अबुध्यत महा तेजाः सुतम् दशरथस्य तम् ॥५॥
ताभ्याम् अर्घ्यम् च पाद्यम् च दत्त्वा पश्चात् फलानि च । आनुपूर्व्याच् च धर्मज्नः पप्रग्च्छ कुशलम् कुले ॥६॥
अयोध्यायाम् बले कोशे मित्रेषु अपि च मन्त्रिषु । जानन् दशरथम् वृत्तम् न राजानम् उदाहरत् ॥७॥
वसिष्ठो भरतः च एनम् पप्रग्च्छतुर् अनामयम् । शरीरे अग्निषु वृक्षेषु शिष्येषु मृग पक्षिषु ॥८॥
तथा इति च प्रतिज्नाय भरद्वाजो महा तपाः । भरतम् प्रत्युवाच इदम् राघव स्नेह बन्धनात् ॥९॥
किम् इह आगमने कार्यम् तव राज्यम् प्रशासतः । एतद् आचक्ष्व मे सर्वम् न हि मे शुध्यते मनः ॥१०॥
सुषुवे यम मित्रघ्नम् कौसल्य आनन्द वर्धनम् । भ्रात्रा सह सभार्यो यः चिरम् प्रव्राजितो वनम् ॥११॥
नियुक्तः स्त्री नियुक्तेन पित्रा यो असौ महा यशाः । वन वासी भव इति इह समाः किल चतुर्दश ॥१२॥
कच्चिन् न तस्य अपापस्य पापम् कर्तुम् इह इग्च्छसि । अकण्टकम् भोक्तु मना राज्यम् तस्य अनुजस्य च ॥१३॥
एवम् उक्तो भरद्वाजम् भरतः प्रत्युवाच ह । पर्यश्रु नयनो दुह्खाद् वाचा संसज्जमानया ॥१४॥
हतो अस्मि यदि माम् एवम् भगवान् अपि मन्यते । मत्तो न दोषम् आशन्केर् न एवम् माम् अनुशाधि हि ॥१५॥
न च एतद् इष्टम् माता मे यद् अवोचन् मद् अन्तरे । नाहम् एतेन तुष्टः च न तद् वचनम् आददे ॥१६॥
अहम् तु तम् नर व्याघ्रम् उपयातः प्रसादकः । प्रतिनेतुम् अयोध्याम् च पादौ तस्य अभिवन्दितुम् ॥१७॥
त्वम् माम् एवम् गतम् मत्वा प्रसादम् कर्तुम् अर्हसि । शंस मे भगवन् रामः क्व सम्प्रति मही पतिः ॥१८॥
वशिष्ठादिभि ऋत्विग्भि र्याचितो भगवांस्ततः । उवाच तम् भरद्वाजः प्रसादाद् भरतम् वचः ॥१९॥
त्वय्य् एतत् पुरुष व्याघ्रम् युक्तम् राघव वंशजे । गुरु वृत्तिर् दमः चैव साधूनाम् च अनुयायिता ॥२०॥
जाने च एतन् मनह्स्थम् ते दृढी करणम् अस्तु इति । अपृग्च्छम् त्वाम् तव अत्यर्थम् कीर्तिम् समभिवर्धयन् ॥२१॥
जाने च रामं धर्मज्ञं ससीतं सहलक्ष्मणम् । असौ वसति ते भ्राता चित्र कूटे महा गिरौ ॥२२॥
श्वः तु गन्ता असि तम् देशम् वस अद्य सह मन्त्रिभिः । एतम् मे कुरु सुप्राज्न कामम् काम अर्थ कोविद ॥२३॥
ततः तथा इत्य् एवम् उदार दर्शनः । प्रतीत रूपो भरतो अब्रवीद् वचः । चकार बुद्धिम् च तदा महा आश्रमे । निशा निवासाय नर अधिप आत्मजः ॥२४॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे नवतितमः सर्गः ॥