कृत बुद्धिम् निवासाय तथैव स मुनिः तदा । भरतम् कैकयी पुत्रम् आतिथ्येन न्यमन्त्रयत् ॥१॥
एकनवतितमः सर्गः 2.91
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
अब्रवीद् भरतः तु एनम् ननु इदम् भवता कृतम् । पाद्यम् अर्घ्यम् तथा आतिथ्यम् वने यद् ऊपपद्यते ॥२॥
अथ उवाच भरद्वाजो भरतम् प्रहसन्न् इव । जाने त्वाम् प्रीति सम्युक्तम् तुष्येः त्वम् येन केनचित् ॥३॥
सेनायाः तु तव एतस्याः कर्तुम् इग्च्छामि भोजनम् । मम प्रितिर् यथा रूपा त्वम् अर्हो मनुज ऋषभ ॥४॥
किम् अर्थम् च अपि निक्षिप्य दूरे बलम् इह आगतः । कस्मान् न इह उपयातो असि सबलः पुरुष ऋषभ ॥५॥
भरतः प्रत्युवाच इदम् प्रान्जलिः तम् तपो धनम् । ससैन्यो न उपयातो अस्मि भगवन् भगवद् भयात् ॥६॥
राज्ञा च भगवन्नित्यं राजपुत्रेण वा सदा । यत्नतः परिहर्तव्या विषयेषु तपस्विनः ॥७॥
वाजि मुख्या मनुष्याः च मत्ताः च वर वारणाः । प्रग्च्छाद्य महतीम् भूमिम् भगवन्न् अनुयान्ति माम् ॥८॥
ते वृक्षान् उदकम् भूमिम् आश्रमेषु उटजामः तथा । न हिंस्युर् इति तेन अहम् एक एव आगतः ततः ॥९॥
आनीयताम् इतः सेना इत्य् आज्नप्तः परम ऋषिणा । तथा तु चक्रे भरतः सेनायाः समुपागमम् ॥१०॥
अग्नि शालाम् प्रविश्य अथ पीत्वा अपः परिमृज्य च । आतिथ्यस्य क्रिया हेतोर् विश्व कर्माणम् आह्वयत् ॥११॥
आह्वये विश्व कर्माणम् अहम् त्वष्टारम् एव च । आतिथ्यम् कर्तुम् इग्च्छामि तत्र मे सम्विधीयताम् ॥१२॥
अह्वये लोकपालां स्त्रीन् देवान् शक्रमुखांस्तथा । आतिथ्यं कर्तुमिच्चामि तत्र मे संविधीयताम् ॥१३॥
प्राक् स्रोतसः च या नद्यः प्रत्यक् स्रोतस एव च । पृथिव्याम् अन्तरिक्षे च समायान्तु अद्य सर्वशः ॥१४॥
अन्याः स्रवन्तु मैरेयम् सुराम् अन्याः सुनिष्ठिताम् । अपराः च उदकम् शीतम् इक्षु काण्ड रस उपमम् ॥१५॥
आह्वये देव गन्धर्वान् विश्वा वसु हहा हुहून् । तथैव अप्सरसो देवीर् गन्धर्वीः च अपि सर्वशः ॥१६॥
घृताचीम् अथ विश्वाचीम् मिश्र केशीम् अलम्बुसाम् । नागदन्तां च हेमां च हिमामद्रिकृतस्थलाम् ॥१७॥
शक्रम् याः च उपतिष्ठन्ति ब्रह्माणम् याः च भामिनीः । सर्वाः तुम्बुरुणा सार्धम् आह्वये सपरिग्च्छदाः ॥१८॥
वनम् कुरुषु यद् दिव्यम् वासो भूषण पत्रवत् । दिव्य नारी फलम् शश्वत् तत् कौबेरम् इह एव तु ॥१९॥
इह मे भगवान् सोमो विधत्ताम् अन्नम् उत्तमम् । भक्ष्यम् भोज्यम् च चोष्यम् च लेह्यम् च विविधम् बहु ॥२०॥
विचित्राणि च माल्यानि पादप प्रच्युतानि च । सुरा आदीनि च पेयानि मांसानि विविधानि च ॥२१॥
एवम् समाधिना युक्तः तेजसा अप्रतिमेन च । शिक्षा स्वर समायुक्तम् तपसा च अब्रवीन् मुनिः ॥२२॥
मनसा ध्यायतः तस्य प्रान् मुखस्य कृत अन्जलेः । आजग्मुः तानि सर्वाणि दैवतानि पृथक् पृथक् ॥२३॥
मलयम् दुर्दुरम् चैव ततः स्वेद नुदो अनिलः । उपस्पृश्य ववौ युक्त्या सुप्रिय आत्मा सुखः शिवः ॥२४॥
ततो अभ्यवर्तन्त घना दिव्याः कुसुम वृष्टयः । देव दुन्दुभि घोषः च दिक्षु सर्वासु शुश्रुवे ॥२५॥
प्रववुः च उत्तमा वाता ननृतुः च अप्सरो गणाः । प्रजगुर् देव गन्धर्वा वीणा प्रमुमुचुः स्वरान् ॥२६॥
स शब्दो द्याम् च भूमिम् च प्राणिनाम् श्रवणानि च । विवेश उच्चारितः श्लक्ष्णः समो लय गुण अन्वितः ॥२७॥
तस्मिन्न् उपरते शब्दे दिव्ये श्रोत्र सुखे नृणाम् । ददर्श भारतम् सैन्यम् विधानम् विश्व कर्मणः ॥२८॥
बभूव हि समा भूमिः समन्तात् पन्च योजनम् । शाद्वलैर् बहुभिः चन्ना नील वैदूर्य सम्निभैः ॥२९॥
तस्मिन् बिल्वाः कपित्थाः च पनसा बीज पूरकाः । आमलक्यो बभूवुः च चूताः च फल भूषणाः ॥३०॥
उत्तरेभ्यः कुरुभ्यः च वनम् दिव्य उपभोगवत् । आजगाम नदी दिव्या तीरजैर् बहुभिर् वृता ॥३१॥
चतुः शालानि शुभ्राणि शालाः च गज वाजिनाम् । हर्म्य प्रासाद सम्घाताः तोरणानि शुभानि च ॥३२॥
सित मेघ निभम् च अपि राज वेश्म सुतोरणम् । शुक्ल माल्य कृत आकारम् दिव्य गन्ध समुक्षितम् ॥३३॥
चतुर् अस्रम् असम्बाधम् शयन आसन यानवत् । दिव्यैः सर्व रसैर् युक्तम् दिव्य भोजन वस्त्रवत् ॥३४॥
उपकल्पित सर्व अन्नम् धौत निर्मल भाजनम् । क्लृप्त सर्व आसनम् श्रीमत् स्वास्तीर्ण शयन उत्तमम् ॥३५॥
प्रविवेश महा बाहुर् अनुज्नातो महर्षिणा । वेश्म तद् रत्न सम्पूर्णम् भरतः कैकयी सुतः ॥३६॥
अनुजग्मुः च तम् सर्वे मन्त्रिणः सपुरोहिताः । बभूवुः च मुदा युक्ता तम् दृष्ट्वा वेश्म सम्विधिम् ॥३७॥
तत्र राज आसनम् दिव्यम् व्यजनम् चत्रम् एव च । भरतो मन्त्रिभिः सार्धम् अभ्यवर्तत राजवत् ॥३८॥
आसनम् पूजयाम् आस रामाय अभिप्रणम्य च । वाल व्यजनम् आदाय न्यषीदत् सचिव आसने ॥३९॥
आनुपूर्व्यान् निषेदुः च सर्वे मन्त्र पुरोहिताः । ततः सेना पतिः पश्चात् प्रशास्ता च निषेदतुः ॥४०॥
ततः तत्र मुहूर्तेन नद्यः पायस कर्दमाः । उपातिष्ठन्त भरतम् भरद्वाजस्य शासनत् ॥४१॥
तासाम् उभयतः कूलम् पाण्डु मृत्तिक लेपनाः । रम्याः च आवसथा दिव्या ब्रह्मणः तु प्रसादजाः ॥४२॥
तेन एव च मुहूर्तेन दिव्य आभरण भूषिताः । आगुर् विंशति साहस्राः ब्राह्मणा प्रहिताः स्त्रियः ॥४३॥
सुवर्ण मणि मुक्तेन प्रवालेन च शोभिताः । आगुर् विंशति साहस्राः कुबेर प्रहिताः स्त्रियः ॥४४॥
याभिर् गृहीतः पुरुषः स उन्माद इव लक्ष्यते । आगुर् विंशति साहस्रा नन्दनाद् अप्सरो गणाः ॥४५॥
नारदः तुम्बुरुर् गोपः पर्वतः सूर्य वर्चसः । एते गन्धर्व राजानो भरतस्य अग्रतो जगुः ॥४६॥
अलम्बुसा मिश्र केशी पुण्डरीका अथ वामना । उपानृत्यमः तु भरतम् भरद्वाजस्य शासनात् ॥४७॥
यानि माल्यानि देवेषु यानि चैत्ररथे वने । प्रयागे तान्य् अदृश्यन्त भरद्वाजस्य शासनात् ॥४८॥
बिल्वा मार्दन्गिका आसन् शम्या ग्राहा बिभीतकाः । अश्वत्था नर्तकाः च आसन् भरद्वाजस्य तेजसा ॥४९॥
ततः सरल तालाः च तिलका नक्त मालकाः । प्रहृष्टाः तत्र सम्पेतुः कुब्जा भूता अथ वामनाः ॥५०॥
शिंशपा आमलकी जम्बूर् याः च अन्याः कानने लताः । मालती मल्लिका जातिर्याश्चान्याः कानने लताः ॥५१॥
प्रमदा विग्रहम् कृत्वा भरद्वाज आश्रमे अवसन् । सुराम् सुरापाः पिबत पायसम् च बुभुक्षिताः ॥५२॥
मांसनि च सुमेध्यानि भक्ष्यन्ताम् यावद् इग्च्छथ ॥५३॥
उत्साद्य स्नापयन्ति स्म नदी तीरेषु वल्गुषु । अप्य् एकम् एकम् पुरुषम् प्रमदाः सत्प च अष्ट च ॥५४॥
सम्वहन्त्यः समापेतुर् नार्यो रुचिर लोचनाः । परिमृज्य तथा न्यायम् पाययन्ति वर अन्गनाः ॥५५॥
हयान् गजान् खरान् उष्ट्रामः तथैव सुरभेः सुतान् । अभोजयन् वाहनपास्तेषां भोज्यं यथाविधि ॥५६॥
इक्षूमः च मधु जालामः च भोजयन्ति स्म वाहनान् । इक्ष्वाकु वर योधानाम् चोदयन्तो महा बलाः ॥५७॥
न अश्व बन्धो अश्वम् आजानान् न गजम् कुन्जर ग्रहः । मत्त प्रमत्त मुदिता चमूः सा तत्र सम्बभौ ॥५८॥
तर्पिता सर्व कामैः ते रक्त चन्दन रूषिताः । अप्सरो गण सम्युक्ताः सैन्या वाचम् उदैरयन् ॥५९॥
न एव अयोध्याम् गमिष्यामो न गमिष्याम दण्डकान् । कुशलम् भरतस्य अस्तु रामस्य अस्तु तथा सुखम् ॥६०॥
इति पादात योधाः च हस्त्य् अश्व आरोह बन्धकाः । अनाथाः तम् विधिम् लब्ध्वा वाचम् एताम् उदैरयन् ॥६१॥
सम्प्रहृष्टा विनेदुः ते नराः तत्र सहस्रशः । भरतस्य अनुयातारः स्वर्गे अयम् इति च अब्रुवन् ॥६२॥
नृत्यन्ति स्म हसन्तिस्म गायन्ति स्म च सैनिकाः । समन्तात् परिधावन्ति माल्यो पेताः सहस्रशः ॥६३॥
ततो भुक्तवताम् तेषाम् तद् अन्नम् अमृत उपमम् । दिव्यान् उद्वीक्ष्य भक्ष्यामः तान् अभवद् भक्षणे मतिः ॥६४॥
प्रेष्याः चेट्यः च वध्वः च बलस्थाः च अपि सर्वशः । बभूवुः ते भृशम् तृप्ताः सर्वे च आहत वाससः ॥६५॥
कुन्जराः च खर उष्ट्रः च गो अश्वाः च मृग पक्षिणः । बभूवुः सुभृताः तत्र न अन्यो ह्य् अन्यम् अकल्पयत् ॥६६॥
न अशुक्ल वासाः तत्र आसीत् क्षुधितो मलिनो अपि वा । रजसा ध्वस्त केशो वा नरः कश्चिद् अदृश्यत ॥६७॥
आजैः च अपि च वाराहैर् निष्टान वर संचयैः । फल निर्यूह संसिद्धैः सूपैर् गन्ध रस अन्वितैः ॥६८॥
पुष्प ध्वजवतीः पूर्णाः शुक्लस्य अन्नस्य च अभितः । ददृशुर् विस्मिताः तत्र नरा लौहीः सहस्रशः ॥६९॥
बभूवुर् वन पार्श्वेषु कूपाः पायस कर्दमाः । ताः च कामदुघा गावो द्रुमाः च आसन् मधुश्च्युतः ॥७०॥
वाप्यो मैरेय पूर्णाः च मृष्ट मांस चयैर् वृताः । प्रतप्त पिठरैः च अपि मार्ग मायूर कौक्कुटैः ॥७१॥
पात्रीणाम् च सहस्राणि शात कुम्भमयानि च । स्थाल्यः कुम्भ्यः करम्भ्यः च दधि पूर्णाः सुसंस्कृताः ॥७२॥
यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः । ह्रदाः पूर्णा रसालस्य दध्नः श्वेतस्य च अपरे । बभूवुः पायसस्य अन्ते शर्करायाः च संचयाः ॥७३॥
कल्कामः चूर्ण कषायामः च स्नानानि विविधानि च । ददृशुर् भाजनस्थानि तीर्थेषु सरिताम् नराः ॥७४॥
कल्कान् चूर्णकषायांश्च स्नानानि विविधानि च । ददृशुर्भाजनस्थानि तीर्थेषु सरितां नराः ॥७५॥
शुक्लान् अंशुमतः च अपि दन्त धावन संचयान् । शुक्लामः चन्दन कल्कामः च समुद्गेषु अवतिष्ठतः ॥७६॥
दर्पणान् परिमृष्टामः च वाससाम् च अपि संचयान् । पादुक उपानहाम् चैव युग्मान् यत्र सहस्रशः ॥७७॥
आन्जनीः कन्कतान् कूर्चामः चत्राणि च धनूम्षि च । मर्म त्राणानि चित्राणि शयनान्य् आसनानि च ॥७८॥
प्रतिपान ह्रदान् पूर्णान् खर उष्ट्र गज वाजिनाम् । अवगाह्य सुतीर्थामः च ह्रदान् स उत्पल पुष्करान् ॥७९॥
नील वैदूर्य वर्णामः च मृदून् यवस संचयान् । निर्वाप अर्थम् पशूनाम् ते ददृशुः तत्र सर्वशः ॥८०॥
व्यस्मयन्त मनुष्यस्ते स्वप्नकल्फं तदद्भुतं । दृष्ट्वाऽतिथ्यं कृतं तादृग्भरतस्य महार्षिणा ॥८१॥
इत्य् एवम् रममाणानाम् देवानाम् इव नन्दने । भरद्वाज आश्रमे रम्ये सा रात्रिर् व्यत्यवर्तत ॥८२॥
प्रतिजग्मुः च ता नद्यो गन्धर्वाः च यथा आगतम् । भरद्वाजम् अनुज्नाप्य ताः च सर्वा वर अन्गनाः ॥८३॥
तथैव मत्ता मदिर उत्कटा नराः । तथैव दिव्य अगुरु चन्दन उक्षिताः । तथैव दिव्या विविधाः स्रग् उत्तमाः । पृथक् प्रकीर्णा मनुजैः प्रमर्दिताः ॥८४॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे एकनवतितमः सर्गः ॥