ततः ताम् रजनीम् उष्य भरतः सपरिग्च्छदः । कृत आतिथ्यो भरद्वाजम् कामाद् अभिजगाम ह ॥१॥
द्विननवतितमः सर्गः 2.92
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
तम् ऋषिः पुरुष व्याघ्रम् प्रेक्ष्य प्रान्जलिम् आगतम् । हुत अग्नि होत्रो भरतम् भरद्वाजो अभ्यभाषत ॥२॥
कच्चिद् अत्र सुखा रात्रिः तव अस्मद् विषये गता । समग्रः ते जनः कच्चिद् आतिथ्ये शंस मे अनघ ॥३॥
तम् उवाच अन्जलिम् कृत्वा भरतो अभिप्रणम्य च । आश्रमाद् अभिनिष्क्रन्तम् ऋषिम् उत्तम तेजसम् ॥४॥
सुख उषितो अस्मि भगवन् समग्र बल वाहनः । तर्पितः सर्व कामैः च सामात्यो बलवत् त्वया ॥५॥
अपेत क्लम सम्तापाः सुभक्ष्याः सुप्रतिश्रयाः । अपि प्रेष्यान् उपादाय सर्वे स्म सुसुख उषिताः ॥६॥
आमन्त्रये अहम् भगवन् कामम् त्वाम् ऋषि सत्तम । समीपम् प्रस्थितम् भ्रातुर् मैरेण ईक्षस्व चक्षुषा ॥७॥
आश्रमम् तस्य धर्मज्न धार्मिकस्य महात्मनः । आचक्ष्व कतमो मार्गः कियान् इति च शंस मे ॥८॥
इति पृष्टः तु भरतम् भ्रातृ दर्शन लालसम् । प्रत्युवाच महा तेजा भरद्वाजो महा तपाः ॥९॥
भरत अर्ध तृतीयेषु योजनेषु अजने वने । चित्र कूटो गिरिः तत्र रम्य निर्दर काननः ॥१०॥
उत्तरम् पार्श्वम् आसाद्य तस्य मन्दाकिनी नदी । पुष्पित द्रुम संचन्ना रम्य पुष्पित कानना ॥११॥
अनन्तरम् तत् सरितः चित्र कूटः च पर्वतः । ततो पर्ण कुटी तात तत्र तौ वसतो ध्रुवम् ॥१२॥
दक्षिणेन एव मार्गेण सव्य दक्षिणम् एव च । गज वाजि रथ आकीर्णाम् वाहिनीम् वाहिनी पते ॥१३॥
वाहयस्व महा भाग ततो द्रक्ष्यसि राघवम् । प्रयाणम् इति च श्रुत्वा राज राजस्य योषितः । हित्वा यानानि यान अर्हा ब्राह्मणम् पर्यवारयन् ॥१४॥
वेपमाना कृशा दीना सह देव्या सुमन्त्रिया । कौसल्या तत्र जग्राह कराभ्याम् चरणौ मुनेः ॥१५॥
असमृद्धेन कामेन सर्व लोकस्य गर्हिता । कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा ॥१६॥
तम् प्रदक्षिणम् आगम्य भगवन्तम् महा मुनिम् । अदूराद् भरतस्य एव तस्थौ दीन मनाः तदा ॥१७॥
ततः पप्रग्च्छ भरतम् भरद्वाजो दृढ व्रतः । विशेषम् ज्नातुम् इग्च्छामि मातृऋणाम् तव राघव ॥१८॥
एवम् उक्तः तु भरतो भरद्वाजेन धार्मिकः । उवाच प्रान्जलिर् भूत्वा वाक्यम् वचन कोविदः ॥१९॥
याम् इमाम् भगवन् दीनाम् शोकान् अशन कर्शिताम् । पितुर् हि महिषीम् देवीम् देवताम् इव पश्यसि ॥२०॥
एषा तम् पुरुष व्याघ्रम् सिम्ह विक्रान्त गामिनम् । कौसल्या सुषुवे रामम् धातारम् अदितिर् यथा ॥२१॥
अस्या वाम भुजम् श्लिष्टा या एषा तिष्ठति दुर्मनाः । कर्णिकारस्य शाखा इव शीर्ण पुष्पा वन अन्तरे ॥२२॥
एतस्याः तौ सुतौ देव्याः कुमारौ देव वर्णिनौ । उभौ लक्ष्मण शत्रुघ्नौ वीरौ सत्य पराक्रमौ ॥२३॥
यस्याः कृते नर याघ्रौ जीव नाशम् इतो गतौ । राजा पुत्र विहीनः च स्वर्गम् दशरथो गतः ॥२४॥
क्रोधनामकृतप्रज्ञां दृप्तां सुभगमानिनीम् । ऐश्वर्य कामाम् कैकेयीम् अनार्याम् आर्य रूपिणीम् ॥२५॥
मम एताम् मातरम् विद्धि नृशंसाम् पाप निश्चयाम् । यतो मूलम् हि पश्यामि व्यसनम् महद् आत्मनः ॥२६॥
इत्य् उक्त्वा नर शार्दूलो बाष्प गद्गदया गिरा । स निशश्वास ताम्र अक्षो क्रुद्धो नाग इव असकृत् ॥२७॥
भरद्वाजो महर्षिः तम् ब्रुवन्तम् भरतम् तदा । प्रत्युवाच महा बुद्धिर् इदम् वचनम् अर्थवत् ॥२८॥
न दोषेण अवगन्तव्या कैकेयी भरत त्वया । राम प्रव्राजनम् ह्य् एतत् सुख उदर्कम् भविष्यति ॥२९॥
देवानाम् दानवानाम् च ऋषीणाम् भावितात्मनाम् । हितमेव भविष्यद्धि रामप्रव्राजनादिह ॥३०॥
अभिवाद्य तु संसिद्धः कृत्वा च एनम् प्रदक्षिणम् । आमन्त्र्य भरतः सैन्यम् युज्यताम् इत्य् अचोदयत् ॥३१॥
ततो वाजि रथान् युक्त्वा दिव्यान् हेम परिष्क्रितान् । अध्यारोहत् प्रयाण अर्थी बहून् बहु विधो जनः ॥३२॥
गज कन्या गजाः चैव हेम कक्ष्याः पताकिनः । जीमूता इव घर्म अन्ते सघोषाः सम्प्रतस्थिरे ॥३३॥
विविधान्य् अपि यानानि महानि च लघूनि च । प्रययुः सुमहा अर्हाणि पादैर् एव पदातयः ॥३४॥
अथ यान प्रवेकैः तु कौसल्या प्रमुखाः स्त्रियः । राम दर्शन कान्क्षिण्यः प्रययुर् मुदिताः तदा ॥३५॥
चंद्र्क तरुण आभासाम् नियुक्ताम् शिबिकाम् शुभाम् । आस्थाय प्रययौ श्रीमान् भरतः सपरिग्च्छदः ॥३६॥
सा प्रयाता महा सेना गज वाजि रथ आकुला । दक्षिणाम् दिशम् आवृत्य महा मेघ इव उत्थितः ॥३७॥
वनानि तु व्यतिक्रम्य जुष्टानि मृग पक्षिभिः । गङ्गायाः परवेलायां गिरिष्वपि नदीषु च ॥३८॥
सा सम्प्रहृष्ट द्विप वाजि योधा । वित्रासयन्ती मृग पक्षि सम्घान् । महद् वनम् तत् प्रविगाहमाना । रराज सेना भरतस्य तत्र ॥३९॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे द्विननवतितमः सर्गः ॥