रामायणम्

त्रिनवतितमः सर्गः 2.93

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

तया महत्या यायिन्या ध्वजिन्या वन वासिनः । अर्दिता यूथपा मत्ताः सयूथाः सम्प्रदुद्रुवुः ॥१॥

ऋक्षाः पृषत सम्घाः च रुरवः च समन्ततः । दृश्यन्ते वन राजीषु गिरिषु अपि नदीषु च ॥२॥

स सम्प्रतस्थे धर्म आत्मा प्रीतो दशरथ आत्मजः । वृतो महत्या नादिन्या सेनया चतुर् अन्गया ॥३॥

सागर ओघ निभा सेना भरतस्य महात्मनः । महीम् संचादयाम् आस प्रावृषि द्याम् इव अम्बुदः ॥४॥

तुरम्ग ओघैर् अवतता वारणैः च महा जवैः । अनालक्ष्या चिरम् कालम् तस्मिन् काले बभूव भूः ॥५॥

स यात्वा दूरम् अध्वानम् सुपरिश्रान्त वाहनः । उवाच भरतः श्रीमान् वसिष्ठम् मन्त्रिणाम् वरम् ॥६॥

यादृशम् लक्ष्यते रूपम् यथा चैव श्रुतम् मया । व्यक्तम् प्राप्ताः स्म तम् देशम् भरद्वाजो यम् अब्रवीत् ॥७॥

अयम् गिरिः चित्र कूटः तथा मन्दाकिनी नदी । एतत् प्रकाशते दूरान् नील मेघ निभम् वनम् ॥८॥

गिरेः सानूनि रम्याणि चित्र कूटस्य सम्प्रति । वारणैर् अवमृद्यन्ते मामकैः पर्वत उपमैः ॥९॥

मुन्चन्ति कुसुमान्य् एते नगाः पर्वत सानुषु । नीला इव आतप अपाये तोयम् तोय धरा घनाः ॥१०॥

किन्नर आचरित उद्देशम् पश्य शत्रुघ्न पर्वतम् । हयैः समन्ताद् आकीर्णम् मकरैर् इव सागरम् ॥११॥

एते मृग गणा भान्ति शीघ्र वेगाः प्रचोदिताः । वायु प्रविद्धाः शरदि मेघ राज्य इव अम्बरे ॥१२॥

कुर्वन्ति कुसुम आपीडान् शिरह्सु सुरभीन् अमी । मेघ प्रकाशैः फलकैर् दाक्षिणात्या यथा नराः ॥१३॥

निष्कूजम् इव भूत्वा इदम् वनम् घोर प्रदर्शनम् । अयोध्या इव जन आकीर्णा सम्प्रति प्रतिभाति मा ॥१४॥

खुरैर् उदीरितो रेणुर् दिवम् प्रग्च्छाद्य तिष्ठति । तम् वहत्य् अनिलः शीघ्रम् कुर्वन्न् इव मम प्रियम् ॥१५॥

स्यन्दनामः तुरग उपेतान् सूत मुख्यैर् अधिष्ठितान् । एतान् सम्पततः शीघ्रम् पश्य शत्रुघ्न कानने ॥१६॥

एतान् वित्रासितान् पश्य बर्हिणः प्रिय दर्शनान् । एतम् आविशतः शैलम् अधिवासम् पतत्रिणाम् ॥१७॥

अतिमात्रम् अयम् देशो मनोज्नः प्रतिभाति मा । तापसानाम् निवासो अयम् व्यक्तम् स्वर्ग पथो यथा ॥१८॥

मृगा मृगीभिः सहिता बहवः पृषता वने । मनोज्न रूपा लक्ष्यन्ते कुसुमैर् इव चित्रितः ॥१९॥

साधु सैन्याः प्रतिष्ठन्ताम् विचिन्वन्तु च काननम् । यथा तौ पुरुष व्याघ्रौ दृश्येते राम लक्ष्मणौ ॥२०॥

भरतस्य वचः श्रुत्वा पुरुषाः शस्त्र पाणयः । विविशुः तद् वनम् शूरा धूमम् च ददृशुः ततः ॥२१॥

ते समालोक्य धूम अग्रम् ऊचुर् भरतम् आगताः । न अमनुष्ये भवत्य् अग्निर् व्यक्तम् अत्र एव राघवौ ॥२२॥

अथ न अत्र नर व्याघ्रौ राज पुत्रौ परम् तपौ । अन्ये राम उपमाः सन्ति व्यक्तम् अत्र तपस्विनः ॥२३॥

तत् श्रुत्वा भरतः तेषाम् वचनम् साधु सम्मतम् । सैन्यान् उवाच सर्वामः तान् अमित्र बल मर्दनः ॥२४॥

यत् ता भवन्तः तिष्ठन्तु न इतो गन्तव्यम् अग्रतः । अहम् एव गमिष्यामि सुमन्त्रो गुरुर् एव च ॥२५॥

एवम् उक्ताः ततः सर्वे तत्र तस्थुः समन्ततः । भरतो यत्र धूम अग्रम् तत्र दृष्टिम् समादधत् ॥२६॥

व्यवस्थिता या भरतेन सा चमूर् । निरीक्षमाणा अपि च धूमम् अग्रतः । बभूव हृष्टा नचिरेण जानती । प्रियस्य रामस्य समागमम् तदा ॥२७॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे त्रिनवतितमः सर्गः ॥

Listen to the sarga
0:00