दीर्घ काल उषितः तस्मिन् गिरौ गिरि वन प्रियः । विदेह्याः प्रियमाकान्क्षन् स्वम् च चित्तम् विलोभयन् ॥१॥
चतुर्नवतितमः सर्गः 2.94
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
अथ दाशरथिः चित्रम् चित्र कूटम् अदर्शयत् । भार्याम् अमर सम्काशः शचीम् इव पुरम् दरः ॥२॥
न राज्याद् भ्रंशनम् भद्रे न सुहृद्भिर् विना भवः । मनो मे बाधते दृष्ट्वा रमणीयम् इमम् गिरिम् ॥३॥
पश्य इमम् अचलम् भद्रे नाना द्विज गण आयुतम् । शिखरैः खम् इव उद्विद्धैर् धातुमद्भिर् विभूषितम् ॥४॥
केचिद् रजत सम्काशाः केचित् क्षतज सम्निभाः । पीत माज्जिस्थ वर्नाः च केचिन् मनि वर प्रभाः ॥५॥
पुष्य अर्क केतुक आभाः च केचिज् ज्योती रस प्रभाः । विराजन्ते अचल इन्द्रस्य देशा धातु विभूषिताः ॥६॥
नना मृग गण द्वीपि तरक्षु ऋक्ष गणैर् वृतः । अदुष्टैर् भात्य् अयम् शैलो बहु पक्षि समाकुलः ॥७॥
आम्र जम्बु असनैर् लोध्रैः प्रियालैः पनसैर् धवैः । अन्कोलैर् भव्य तिनिशैर् ब्लिव तिन्दुक वेणुभिः ॥८॥
काश्मर्य् अरिष्ट वरणैर् मधूकैः तिलकैः तथा । बदर्य् आमलकैर् नीपैर् वेत्र धन्वन बीजकैः ॥९॥
पुष्पवद्भिः फल उपेतैः चायावद्भिर् मनो रमैः । एवम् आदिभिर् आकीर्णः श्रियम् पुष्यत्य् अयम् गिरिः ॥१०॥
शैल प्रस्थेषु रम्येषु पश्य इमान् काम हर्षणान् । किन्नरान् द्वंद्वशो भद्रे रममाणान् मनस्विनः ॥११॥
शाखा अवसक्तान् खड्गामः च प्रवराण्य् अम्बराणि च । पश्य विद्याधर स्त्रीणाम् क्रीडेद् देशान् मनो रमान् ॥१२॥
जल प्रपातैर् उद्भेदैर् निष्यन्दैः च क्वचित् क्वचित् । स्रवद्भिर् भात्य् अयम् शैलः स्रवन् मद इव द्विपः ॥१३॥
गुहा समीरणो गन्धान् नाना पुष्प भवान् वहन् । घ्राण तर्पणम् अभ्येत्य कम् नरम् न प्रहर्षयेत् ॥१४॥
यदि इह शरदो अनेकाः त्वया सार्धम् अनिन्दिते । लक्ष्मणेन च वत्स्यामि न माम् शोकः प्रधक्ष्यति ॥१५॥
बहु पुष्प फले रम्ये नाना द्विज गण आयुते । विचित्र शिखरे ह्य् अस्मिन् रतवान् अस्मि भामिनि ॥१६॥
अनेन वन वासेन मया प्राप्तम् फल द्वयम् । पितुः च अनृणता धर्मे भरतस्य प्रियम् तथा ॥१७॥
वैदेहि रमसे कच्चिच् चित्र कूटे मया सह । पश्यन्ती विविधान् भावान् मनो वाक् काय सम्यतान् ॥१८॥
इदम् एव अमृतम् प्राहू राज्नाम् राज ऋषयः परे । वन वासम् भव अर्थाय प्रेत्य मे प्रपितामहाः ॥१९॥
शिलाः शैलस्य शोभन्ते विशालाः शतशो अभितः । बहुला बहुलैर् वर्णैर् नील पीत सित अरुणैः ॥२०॥
निशि भान्त्य् अचल इन्द्रस्य हुत अशन शिखा इव । ओषध्यः स्वप्रभा लक्ष्म्या भ्राजमानाः सहस्रशः ॥२१॥
केचित् क्षय निभा देशाः केचिद् उद्यान सम्निभाः । केचिद् एक शिला भान्ति पर्वतस्य अस्य भामिनि ॥२२॥
भित्त्वा इव वसुधाम् भाति चित्र कूटः समुत्थितः । चित्र कूटस्य कूटो असौ दृश्यते सर्वतः शुभः ॥२३॥
कुष्ठ पुम्नाग तगर भूर्ज पत्र उत्तरच् चदान् । कामिनाम् स्वास्तरान् पश्य कुशेशय दल आयुतान् ॥२४॥
मृदिताः च अपविद्धाः च दृश्यन्ते कमल स्रजः । कामिभिर् वनिते पश्य फलानि विविधानि च ॥२५॥
वस्वौक साराम् नलिनीम् अत्येति इव उत्तरान् कुरून् । पर्वतः चित्र कूटो असौ बहु मूल फल उदकः ॥२६॥
इमम् तु कालम् वनिते विजह्निवामः । त्वया च सीते सह लक्ष्मणेन च । रतिम् प्रपत्स्ये कुल धर्म वर्धिनीम् । सताम् पथि स्वैर् नियमैः परैः स्थितः ॥२७॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे चतुर्नवतितमः सर्गः ॥