रामायणम्

पंचनवतितमः सर्गः 2.95

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

अथ शैलाद् विनिष्क्रम्य मैथिलीम् कोसल ईश्वरः । अदर्शयत् शुभ जलाम् रम्याम् मन्दाकिनीम् नदीम् ॥१॥

अब्रवीच् च वर आरोहाम् चारु चन्द्र निभ आननाम् । विदेह राजस्य सुताम् रामो राजीव लोचनः ॥२॥

विचित्र पुलिनाम् रम्याम् हंस सारस सेविताम् । कुसुमैर् उपसम्पन्नाम् पश्य मन्दाकिनीम् नदीम् ॥३॥

नाना विधैः तीर रुहैर् वृताम् पुष्प फल द्रुमैः । राजन्तीम् राज राजस्य नलिनीम् इव सर्वतः ॥४॥

मृग यूथ निपीतानि कलुष अम्भांसि साम्प्रतम् । तीर्थानि रमणीयानि रतिम् सम्जनयन्ति मे ॥५॥

जटा अजिन धराः काले वल्कल उत्तर वाससः । ऋषयः तु अवगाहन्ते नदीम् मन्दाकिनीम् प्रिये ॥६॥

आदित्यम् उपतिष्ठन्ते नियमाद् ऊर्ध्व बाहवः । एते अपरे विशाल अक्षि मुनयः संशित व्रताः ॥७॥

मारुत उद्धूत शिखरैः प्रनृत्त इव पर्वतः । पादपैः पत्र पुष्पाणि सृजद्भिर् अभितो नदीम् ॥८॥

कच्चिन् मणि निकाश उदाम् कच्चित् पुलिन शालिनीम् । कच्चित् सिद्ध जन आकीर्णाम् पश्य मन्दाकिनीम् नदीम् ॥९॥

निर्धूतान् वायुना पश्य विततान् पुष्प संचयान् । पोप्लूयमानान् अपरान् पश्य त्वम् जल मध्यगान् ॥१०॥

तामः च अतिवल्गु वचसो रथ अन्ग आह्वयना द्विजाः । अधिरोहन्ति कल्याणि निष्कूजन्तः शुभाः गिरः ॥११॥

दर्शनम् चित्र कूटस्य मन्दाकिन्याः च शोभने । अधिकम् पुर वासाच् च मन्ये च तव दर्शनात् ॥१२॥

विधूत कलुषैः सिद्धैः तपो दम शम अन्वितैः । नित्य विक्षोभित जलाम् विहाहस्व मया सह ॥१३॥

सखीवच् च विगाहस्व सीते मन्दकिनीम् इमाम् । कमलान्य् अवमज्जन्ती पुष्कराणि च भामिनि ॥१४॥

त्वम् पौर जनवद् व्यालान् अयोध्याम् इव पर्वतम् । मन्यस्व वनिते नित्यम् सरयूवद् इमाम् नदीम् ॥१५॥

लक्ष्मणः चैव धर्म आत्मा मन् निदेशे व्यवस्थितः । त्वम् च अनुकूला वैदेहि प्रीतिम् जनयथो मम ॥१६॥

उपस्पृशमः त्रि षवणम् मधु मूल फल अशनः । न अयोध्यायै न राज्याय स्पृहये अद्य त्वया सह ॥१७॥

इमाम् हि रम्याम् गज यूथ लोलिताम् । निपीत तोयाम् गज सिम्ह वानरैः । सुपुष्पितैः पुष्प धरैर् अलम्कृताम् । न सो अस्ति यः स्यान् न गत क्रमः सुखी ॥१८॥

इति इव रामो बहु सम्गतम् वचः । प्रिया सहायः सरितम् प्रति ब्रुवन् । चचार रम्यम् नयन अन्जन प्रभम् । स चित्र कूटम् रघु वंश वर्धनः ॥१९॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकांडे पंचनवतितमः सर्गः ॥

Listen to the sarga
0:00