तां तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम् । निषसाद गिरिप्रस्थे सीतां मांसेन चन्दयन् ॥१॥
षण्णवतितमः सर्गः 2.96
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना । एवमास्ते स धर्मात्मा सीतया सह राघवः ॥२॥
तथा तत्र आसतः तस्य भरतस्य उपयायिनः । सैन्य रेणुः च शब्दः च प्रादुर् आस्ताम् नभः स्पृशौ ॥३॥
एतस्मिन्न् अन्तरे त्रस्ताः शब्देन महता ततः । अर्दिता यूथपा मत्ताः सयूथा दुद्रुवुर् दिशः ॥४॥
स तम् सैन्य समुद्भूतम् शब्दम् शुश्रव राघवः । तामः च विप्रद्रुतान् सर्वान् यूथपान् अन्ववैक्षत ॥५॥
तामः च विद्रवतो दृष्ट्वा तम् च श्रुत्वा स निह्स्वनम् । उवाच रामः सौमित्रिम् लक्ष्मणम् दीप्त तेजसम् ॥६॥
हन्त लक्ष्मण पश्य इह सुमित्रा सुप्रजाः त्वया । भीम स्तनित गम्भ्हिरः तुमुलः श्रूयते स्वनः ॥७॥
गजयूथानि वारण्ये महिषा वा महावने । वित्रासिता मृगाह् सिंहैः सहसा प्रद्रुता दिशः ॥८॥
राजा वा राज मात्रो वा मृगयाम् अटते वने । अन्यद् वा श्वा पदम् किंचित् सौमित्रे ज्नातुम् अर्हसि ॥९॥
सुदुश्चरो गिरिश्चायं पक्षिणामपि लक्ष्मण । सर्वम् एतद् यथा तत्त्वम् अचिराज् ज्नातुम् अर्हसि ॥१०॥
स लक्ष्मणः सम्त्वरितः सालम् आरुह्य पुष्पितम् । प्रेक्षमाणो दिशः सर्वाः पूर्वाम् दिशम् अवैक्षत ॥११॥
उदन् मुखः प्रेक्षमाणो ददर्श महतीम् चमूम् । रथ अश्व गज सम्बाधाम् यत्तैर् युक्ताम् पदातिभिः ॥१२॥
ताम् अश्व गज सम्पूर्णाम् रथ ध्वज विभूषिताम् । शशंस सेनाम् रामाय वचनम् च इदम् अब्रवीत् ॥१३॥
अग्निम् संशमयतु आर्यः सीता च भजताम् गुहाम् । सज्यम् कुरुष्व चापम् च शरामः च कवचम् तथा ॥१४॥
तम् रामः पुरुष व्याघ्रो लक्ष्मणम् प्रत्युवाच ह । अन्ग अवेक्षस्व सौमित्रे कस्य एताम् मन्यसे चमूम् ॥१५॥
एवम् उक्क्तः तु रामेण लक्ष्माणो वाक्यम् अब्रवीत् । दिधक्षन्न् इव ताम् सेनाम् रुषितः पावको यथा ॥१६॥
सम्पन्नम् राज्यम् इग्च्छमः तु व्यक्तम् प्राप्य अभिषेचनम् । आवाम् हन्तुम् समभ्येति कैकेय्या भरतः सुतः ॥१७॥
एष वै सुमहान् श्रीमान् विटपी सम्प्रकाशते । विराजत्य् उद्गत स्कन्धः कोविदार ध्वजो रथे ॥१८॥
भजन्त्य् एते यथा कामम् अश्वान् आरुह्य शीघ्रगान् । एते भ्राजन्ति सम्हृष्टा जगान् आरुह्य सादिनः ॥१९॥
गृहीत धनुषौ च आवाम् गिरिम् वीर श्रयावहे । अथवेहैव तिष्ठावः सन्नद्धावुद्यतायुधौ ॥२०॥
अपि नौ वशम् आगग्च्छेत् कोविदार ध्वजो रणे । अपि द्रक्ष्यामि भरतम् यत् कृते व्यसनम् महत् ॥२१॥
त्वया राघव सम्प्राप्तम् सीतया च मया तथा । यन् निमित्तम् भवान् राज्याच् च्युतो राघव शाश्वतीम् । सम्प्राप्तो अयम् अरिर् वीर भरतो वध्य एव मे ॥२२॥
भरतस्य वधे दोषम् न अहम् पश्यामि राघव । पूर्व अपकारिणम् हत्वा न ह्यधर्मेण युज्यते ॥२३॥
पूर्वापकारी भरतस्य्तक्तधर्मश्च राघव । एतस्मिन्न् निहते कृत्स्नाम् अनुशाधि वसुंधराम् ॥२४॥
अद्य पुत्रम् हतम् सम्ख्ये कैकेयी राज्य कामुका । मया पश्येत् सुदुह्ख आर्ता हस्ति भग्नम् इव द्रुमम् ॥२५॥
कैकेयीम् च वधिष्यामि सानुबन्धाम् सबान्धवाम् । कलुषेण अद्य महता मेदिनी परिमुच्यताम् ॥२६॥
अद्य इमम् सम्यतम् क्रोधम् असत्कारम् च मानद । मोक्ष्यामि शत्रु सैन्येषु कक्षेषु इव हुत अशनम् ॥२७॥
अद्य एतच् चित्र कूटस्य काननम् निशितैः शरैः । चिन्दन् शत्रु शरीराणि करिष्ये शोणित उक्षितम् ॥२८॥
शरैर् निर्भिन्न हृदयान् कुन्जरामः तुरगामः तथा । श्वापदाः परिकर्षन्तु नराः च निहतान् मया ॥२९॥
शराणाम् धनुषः च अहम् अनृणो अस्मि महा वने । ससैन्यम् भरतम् हत्वा भविष्यामि न संशयः ॥३०॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे षण्णवतितमः सर्गः ॥