सुसम्रब्धम् तु सौमित्रिम् लक्ष्मणम् क्रोध मूर्चितम् । रामः तु परिसान्त्व्य अथ वचनम् च इदम् अब्रवीत् ॥१॥
सप्तनवतितमः सर्गः 2.97
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
किम् अत्र धनुषा कार्यम् असिना वा सचर्मणा । महा इष्वासे महा प्राज्ने भरते स्वयम् आगते ॥२॥
पितुस्सत्यं प्रतिश्रुत्य हत्वा भरतमागतम् । किम् करिष्यामि राज्येन सापवादेन लक्ष्मण ॥३॥
यद्द्रव्यं बान्दवानां वा मित्राणां वाक्षये भवत् । नाहं तप्त्प्रतिगृह्णीयां भक्षान्विषकृतानिव ॥४॥
धर्ममर्थं च कामं च पृथिवीं चापि लक्षण । इच्छामि भवतामर्थे एतत् प्रतिशृणोमि ते ॥५॥
भ्रातृइणां संग्रहार्थं च सुखार्थं चापि लक्ष्मण । राज्यमप्यहमिच्छामि सत्येनायुधमालभे ॥६॥
नेयं मम मही सौम्य दुर्लभा सागराम्बरा । न हीच्छेयमधर्मेण शक्रत्वमपि लक्ष्मण ॥७॥
यद्विना भरतं त्वां च शत्रुघ्नं चापि मानद । भवेन्मम सुखं किंचिद्भस्म तत्कुरुतां शिखी ॥८॥
मन्येऽहमागतोऽयेध्यां भरतो भ्रातृवत्सलः । मम प्राणात्र्पियतरः कुलधर्ममनुस्मरन् ॥९॥
श्रुत्वा प्रव्राजितं मां हि जटावल्कलधारिणम् । जानक्यासहितं वीर त्वया च पुरुषर्षभ ॥१०॥
स्नेहेनाक्रान्तहृदयः शिकेनाकुलितेन्द्रियः । द्रष्टुमभ्यागतो ह्येष भरतो नान्यथऽऽगतः ॥११॥
अम्बाअं च कैकयीं रुष्य परुषं चाप्रियं वदन् । प्रसाद्य पितरं स्रीमान् राज्यं मे दातुमागतः ॥१२॥
प्राप्त कालम् यद् एषो अस्मान् भरतो द्रष्टुम् इग्च्छति । अस्मासु मनसा अप्य् एष न अहितम् किंचिद् आचरेत् ॥१३॥
विप्रियम् कृत पूर्वम् ते भरतेन कदा न किम् । ईदृशम् वा भयम् ते अद्य भरतम् यो अत्र शन्कसे ॥१४॥
न हि ते निष्ठुरम् वाच्यो भरतो न अप्रियम् वचः । अहम् ह्य् अप्रियम् उक्तः स्याम् भरतस्य अप्रिये कृते ॥१५॥
कथम् नु पुत्राः पितरम् हन्युः कस्यांचिद् आपदि । भ्राता वा भ्रातरम् हन्यात् सौमित्रे प्राणम् आत्मनः ॥१६॥
यदि राज्यस्य हेतोः त्वम् इमाम् वाचम् प्रभाषसे । वक्ष्यामि भरतम् दृष्ट्वा राज्यम् अस्मै प्रदीयताम् ॥१७॥
उच्यमानो हि भरतो मया लक्ष्मण तत्त्वतः । राज्यम् अस्मै प्रयग्च्छ इति बाढम् इत्य् एव वक्ष्यति ॥१८॥
तथा उक्तो धर्म शीलेन भ्रात्रा तस्य हिते रतः । लक्ष्मणः प्रविवेश इव स्वानि गात्राणि लज्जया ॥१९॥
तद्वाक्यं लक्ष्मणः श्रुत्वा व्रीशितः प्रत्युवाच ह । त्व मन्ये द्रष्टुमायातः पिता दशरथः स्वयम् ॥२०॥
व्रीडितम् लक्ष्मणम् दृष्ट्वा राघवः प्रत्युवाच ह । एष मन्ये महा बाहुर् इह अस्मान् द्रष्टुम् आगतः ॥२१॥
अथवा नौ ध्रुवं मन्ये मन्यमानः सुखोचितौ । वन वासम् अनुध्याय गृहाय प्रतिनेष्यति ॥२२॥
इमाम् वा अप्य् एश वैदेहीम् अत्यन्त सुख सेविनीम् । एतौ तौ सम्प्रकाशेते गोत्रवन्तौ मनो रमौ ॥२३॥
एतौ तौ संप्रकाशेते गोत्रवन्तौ मनोरमौ । वायु वेग समौ वीर जवनौ तुरग उत्तमौ ॥२४॥
स एष सुमहा कायः कम्पते वाहिनी मुखे । नागः शत्रुम्जयो नाम वृद्धः तातस्य धीमतः ॥२५॥
न तु पश्यामि तच्छत्रं पाण्डरं लोकसत्कृअम् । पितुर्दिव्यं महाबाहो संशयो भवतीह मे ॥२६॥
वृक्षाग्रादवरोह त्वं कुरु लक्ष्म्मण मद्वचः । इतीव रामो धर्मात्मा सौमित्रिं तमुवाच ह ॥२७॥
अवतीर्य तु साल अग्रात् तस्मात् स समितिम् जयः । लक्ष्मणः प्रान्जलिर् भूत्वा तस्थौ रामस्य पार्श्वतः ॥२८॥
भरतेन अथ संदिष्टा सम्मर्दो न भवेद् इति । समन्तात् तस्य शैलस्य सेना वासम् अकल्पयत् ॥२९॥
अध्यर्धम् इष्क्वाकु चमूर् योजनम् पर्वतस्य सा । पार्श्वे न्यविशद् आवृत्य गज वाजि रथ आकुला ॥३०॥
सा चित्र कूटे भरतेन सेना । धर्मम् पुरः कृत्य विधूय दर्पम् । प्रसादन अर्थम् रघु नन्दनस्य । विरोचते नीतिमता प्रणीता ॥३१॥
इत्यार्षे श्रीमद्रामायने आदिकावे अयोध्याकाण्डे सप्तनवतितमः सर्गः ॥