निवेश्य सेनाम् तु विभुः पद्भ्याम् पादवताम् वरः । अभिगन्तुम् स काकुत्स्थम् इयेष गुरु वर्तकम् ॥१॥
अष्टनवतितमः सर्गः 2.98
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
निविष्ट मात्रे सैन्ये तु यथा उद्देशम् विनीतवत् । भरतो भ्रातरम् वाक्यम् शत्रुघ्नम् इदम् अब्रवीत् ॥२॥
क्षिप्रम् वनम् इदम् सौम्य नर सम्घैः समन्ततः । लुब्धैः च सहितैर् एभिः त्वम् अन्वेषितुम् अर्हसि ॥३॥
गुहो ज्ञातिसहस्रेण शरचापासिधारिणा । समन्वेषतु काकुत्थ्समस्मिन् परिवृतः स्वयम् ॥४॥
अमात्यैः सह पौरैश्च गुरुभिश्च द्विजातिभिः । वनं सर्वं चरिष्यामि पद्भ्यां परिवृतः स्वयम् ॥५॥
यावन् न रामम् द्रक्ष्यामि लक्ष्मणम् वा महा बलम् । वैदेहीम् वा महा भागाम् न मे शान्तिर् भविष्यति ॥६॥
यावन् न चन्द्र सम्काशम् द्रक्ष्यामि शुभम् आननम् । भ्रातुः पद्म पलाश अक्षम् न मे शान्तिर् भविष्यति ॥७॥
यावन् न चरणौ भ्रातुः पार्थिव व्यन्जन अन्वितौ । शिरसा धारयिष्यामि न मे शान्तिर् भविष्यति ॥८॥
यावन् राज्ये राज्य अर्हः पितृ पैतामहे स्थितः । अभिषेक जल क्लिन्नो न मे शान्तिर् भविष्यति ॥९॥
सिद्धार्थः खलु सौमित्रिर्यश्चन्द्रविमलोवमम् । मुखं पश्यति रामस्य राजीवाक्षं महाद्युति ॥१०॥
कृत कृत्या महा भागा वैदेही जनक आत्मजा । भर्तारम् सागर अन्तायाः पृथिव्या या अनुगग्च्छति ॥११॥
सुभगः चित्र कूटो असौ गिरि राज उपमो गिरिः । यस्मिन् वसति काकुत्स्थः कुबेर इव नन्दने ॥१२॥
कृत कार्यम् इदम् दुर्गम् वनम् व्याल निषेवितम् । यद् अध्यास्ते महा तेजा रामः शस्त्रभृताम् वरः ॥१३॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्यकाण्डे अष्टनवतितमः सर्गः ॥