निविष्टायाम् तु सेनायाम् उत्सुको भरतः तदा । जगाम भ्रातरम् द्रष्टुम् शत्रुघ्नम् अनुदर्शयन् ॥१॥
एकोनशततमः सर्गः 2.99
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
ऋषिम् वसिष्ठम् संदिश्य मातृऋर् मे शीघ्रम् आनय । इति तरितम् अग्रे स जागम गुरु वत्सलः ॥२॥
सुमन्त्रः तु अपि शतुघ्नम् अदूराद् अन्वपद्यत । राम दार्शनजः तर्षो भरतस्य इव तस्य च ॥३॥
गग्च्छन्न् एव अथ भरतः तापस आलय संस्थिताम् । भ्रातुः पर्ण कुटीम् श्रीमान् उटजम् च ददर्श ह ॥४॥
शालायाः तु अग्रतः तस्या ददर्श भरतः तदा । काष्टानि च अवभग्नानि पुष्पाण्य् अवचितानि च ॥५॥
स लक्ष्मणस्य रामस्य ददर्शाश्रममीयुषः । कृतं वृक्षेष्वभिज्ञानं कुशचीरैः क्वचित् क्वचित् ॥६॥
स ददर्श वने तस्मिन् महतः संचयान् कृतान् । मृगाणाम् महिषाणाम् च करीषैः शीत कारणात् ॥७॥
गग्च्छन् एव महा बाहुर् द्युतिमान् भरतः तदा । शत्रुघ्नम् च अब्रवीद्द् हृष्टः तान् अमात्यामः च सर्वशः ॥८॥
मन्ये प्राप्ताः स्म तम् देशम् भरद्वाजो यम् अब्रवीत् । न अतिदूरे हि मन्ये अहम् नदीम् मन्दाकिनीम् इतः ॥९॥
उच्चैर् बद्धानि चीराणि लक्ष्मणेन भवेद् अयम् । अभिज्नान कृतः पन्था विकाले गन्तुम् इग्च्छता ॥१०॥
इदम् च उदात्त दन्तानाम् कुन्जराणाम् तरस्विनाम् । शैल पार्श्वे परिक्रान्तम् अन्योन्यम् अभिगर्जताम् ॥११॥
यम् एव आधातुम् इग्च्छन्ति तापसाः सततम् वने । तस्य असौ दृश्यते धूमः सम्कुलः कृष्ट वर्त्मनः ॥१२॥
अत्र अहम् पुरुष व्याघ्रम् गुरु सत्कार कारिणम् । आर्यम् द्रक्ष्यामि सम्हृष्टो महर्षिम् इव राघवम् ॥१३॥
अथ गत्वा मुहूर्तम् तु चित्र कूटम् स राघवः । मन्दाकिनीम् अनुप्राप्तः तम् जनम् च इदम् अब्रवीत् ॥१४॥
जगत्याम् पुरुष व्याघ्र आस्ते वीर आसने रतः । जन इन्द्रो निर्जनम् प्राप्य धिन् मे जन्म सजीवितम् ॥१५॥
मत् कृते व्यसनम् प्राप्तो लोक नाथो महा द्युतिः । सर्वान् कामान् परित्यज्य वने वसति राघवः ॥१६॥
इति लोक समाक्रुष्टः पादेषु अद्य प्रसादयन् । रामस्य निपतिष्यामि सीतायाः च पुनः पुनः ॥१७॥
एवम् स विलपमः तस्मिन् वने दशरथ आत्मजः । ददर्श महतीम् पुण्याम् पर्ण शालाम् मनो रमाम् ॥१८॥
साल ताल अश्व कर्णानाम् पर्णैर् बहुभिर् आवृताम् । विशालाम् मृदुभिः तीर्णाम् कुशैर् वेदिम् इव अध्वरे ॥१९॥
शक्र आयुध निकाशैः च कार्मुकैर् भार साधनैः । रुक्म पृष्ठैर् महा सारैः शोभिताम् शत्रु बाधकैः ॥२०॥
अर्क रश्मि प्रतीकाशैर् घोरैः तूणी गतैः शरैः । शोभिताम् दीप्त वदनैः सर्पैर् भोगवतीम् इव ॥२१॥
महा रजत वासोभ्याम् असिभ्याम् च विराजिताम् । रुक्म बिन्दु विचित्राभ्याम् चर्मभ्याम् च अपि शोभिताम् ॥२२॥
गोधा अन्गुलित्रैर् आसाक्तैः चित्रैः कान्चन भूषितैः । अरि सम्घैर् अनाधृष्याम् मृगैः सिम्ह गुहाम् इव ॥२३॥
प्राग् उदक् स्रवणाम् वेदिम् विशालाम् दीप्त पावकाम् । ददर्श भरतः तत्र पुण्याम् राम निवेशने ॥२४॥
निरीक्ष्य स मुहूर्तम् तु ददर्श भरतो गुरुम् । उटजे रामम् आसीनाम् जटा मण्डल धारिणम् ॥२५॥
तम् तु कृष्ण अजिन धरम् चीर वल्कल वाससम् । ददर्श रामम् आसीनम् अभितः पावक उपमम् ॥२६॥
सिम्ह स्कन्धम् महा बाहुम् पुण्डरीक निभ ईक्षणम् । पृथिव्याः सगर अन्ताया भर्तारम् धर्म चारिणम् ॥२७॥
उपविष्टम् महा बाहुम् ब्रह्माणम् इव शाश्वतम् । स्थण्डिले दर्भ सस्म्तीर्णे सीतया लक्ष्मणेन च ॥२८॥
तम् दृष्ट्वा भरतः श्रीमान् दुह्ख मोह परिप्लुतः । अभ्यधावत धर्म आत्मा भरतः कैकयी सुतः ॥२९॥
दृष्ट्वा च विललाप आर्तो बाष्प संदिग्धया गिरा । अशक्नुवन् धारयितुम् धैर्याद् वचनम् अब्रवीत् ॥३०॥
यः संसदि प्रकृतिभिर् भवेद् युक्त उपासितुम् । वन्यैर् मृगैर् उपासीनः सो अयम् आस्ते मम अग्रजः ॥३१॥
वासोभिर् बहु साहस्रैर् यो महात्मा पुर उचितः । मृग अजिने सो अयम् इह प्रवस्ते धर्मम् आचरन् ॥३२॥
अधारयद् यो विविधाः चित्राः सुमनसः तदा । सो अयम् जटा भारम् इमम् सहते राघवः कथम् ॥३३॥
यस्य यज्नैर् यथा आदिष्टैर् युक्तो धर्मस्य संचयः । शरीर क्लेश सम्भूतम् स धर्मम् परिमार्गते ॥३४॥
चन्दनेन महा अर्हेण यस्य अन्गम् उपसेवितम् । मलेन तस्य अन्गम् इदम् कथम् आर्यस्य सेव्यते ॥३५॥
मन् निमित्तम् इदम् दुह्खम् प्राप्तो रामः सुख उचितः । धिग् जीवितम् नृशंसस्य मम लोक विगर्हितम् ॥३६॥
इत्य् एवम् विलपन् दीनः प्रस्विन्न मुख पन्कजः । पादाउ अप्राप्य रामस्य पपात भरतो रुदन् ॥३७॥
दुह्ख अभितप्तो भरतो राज पुत्रो महा बलः । उक्त्वा आर्य इति सकृद् दीनम् पुनर् न उवाच किंचन ॥३८॥
बाष्प अपिहित कण्ठः च प्रेक्ष्य रामम् यशस्विनम् । आर्य इत्य् एव अभिसम्क्रुश्य व्याहर्तुम् न अशकत् ततः ॥३९॥
शत्रुघ्नः च अपि रामस्य ववन्दे चरणौ रुदन् । ताउ उभौ स समालिन्ग्य रामो अप्य् अश्रूण्य् अवर्तयत् ॥४०॥
ततः सुमन्त्रेण गुहेन चैव । समीयतू राज सुताउ अरण्ये । दिवा करः चैव निशा करः च । यथा अम्बरे शुक्र बृहस्पतिभ्याम् ॥४१॥
तान् पार्थिवान् वारण यूथप आभान् । समागतामः तत्र महत्य् अरण्ये । वन ओकसः ते अपि समीक्ष्य सर्वे अप्य् । अश्रूण्य् अमुन्चन् प्रविहाय हर्षम् ॥४२॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे एकोनशततमः सर्गः ॥