रामायणम्

शततमः सर्गः 2.100

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि । ददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा ॥१॥

कथं चिदभिविज्ञाय विवर्णवदनं कृशम् । भ्रातरं भरतं रामः परिजग्राह बाहुना ॥२॥

आघ्राय रामः तम् मूर्ध्नि परिष्वज्य च राघवः । अन्के भरतम् आरोप्य पर्यपृग्च्छत् समाहितः ॥३॥

क्व नु ते अभूत् पिता तात यद् अरण्यम् त्वम् आगतः । न हि त्वम् जीवतः तस्य वनम् आगन्तुम् अर्हसि ॥४॥

चिरस्य बत पश्यामि दूराद् भरतम् आगतम् । दुष्प्रतीकम् अरण्ये अस्मिन् किम् तात वनम् आगतः ॥५॥

कच्चिद्धारयए तात राजा यत्त्वमिहागतः । कच्चिन्न दीनः सहसा राजा लोकान्तरं गतः ॥६॥

कच्चित्सौम्य नते राज्यं भ्रष्ठं बालस्य शाश्वतम् । कच्चिछुश्रूषसे तात पितरं सत्यविक्रमम् ॥७॥

कच्चिद् दशरथो राजा कुशली सत्य सम्गरः । राज सूय अश्व मेधानाम् आहर्ता धर्म निश्चयः ॥८॥

स कच्चिद् ब्राह्मणो विद्वान् धर्म नित्यो महा द्युतिः । इक्ष्वाकूणाम् उपाध्यायो यथावत् तात पूज्यते ॥९॥

सा तात कच्चिच् च कौसल्या सुमित्रा च प्रजावती । सुखिनी कच्चिद् आर्या च देवी नन्दति कैकयी ॥१०॥

कच्चिद् विनय सम्पन्नः कुल पुत्रो बहु श्रुतः । अनसूयुर् अनुद्रष्टा सत्कृतः ते पुरोहितः ॥११॥

कच्चिद् अग्निषु ते युक्तो विधिज्नो मतिमान् ऋजुः । हुतम् च होष्यमाणम् च काले वेदयते सदा ॥१२॥

कच्चिद्देवान् पितॄन् भृत्वान्गुरून् पितृसमानपि । वृद्धांश्च तात वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे ॥१३॥

इषु अस्त्र वर सम्पन्नम् अर्थ शास्त्र विशारदम् । सुधन्वानम् उपाध्यायम् कच्चित् त्वम् तात मन्यसे ॥१४॥

कच्चिद् आत्म समाः शूराः श्रुतवन्तो जित इन्द्रियाः । कुलीनाः च इन्गितज्नाः च कृताः ते तात मन्त्रिणः ॥१५॥

मन्त्रो विजय मूलम् हि राज्नाम् भवति राघव । सुसम्वृतो मन्त्र धरैर् अमात्यैः शास्त्र कोविदैः ॥१६॥

कच्चिन् निद्रा वशम् न एषि कच्चित् काले विबुध्यसे । कच्चिन् च अपर रात्रिषु चिन्तयस्य् अर्थ नैपुणम् ॥१७॥

कच्चिन् मन्त्रयसे न एकः कच्चिन् न बहुभिः सह । कच्चित् ते मन्त्रितो मन्त्रो राष्ट्रम् न परिधावति ॥१८॥

कच्चिद् अर्थम् विनिश्चित्य लघु मूलम् महा उदयम् । क्षिप्रम् आरभसे कर्तुम् न दीर्घयसि राघव ॥१९॥

कच्चित् तु सुकृतान्य् एव कृत रूपाणि वा पुनः । विदुः ते सर्व कार्याणि न कर्तव्यानि पार्थिवाः ॥२०॥

कच्चिन् न तर्कैर् युक्त्वा वा ये च अप्य् अपरिकीर्तिताः । त्वया वा तव वा अमात्यैर् बुध्यते तात मन्त्रितम् ॥२१॥

कच्चित् सहस्रान् मूर्खाणाम् एकम् इग्च्छसि पण्डितम् । पण्डितो ह्य् अर्थ कृग्च्छ्रेषु कुर्यान् निह्श्रेयसम् महत् ॥२२॥

सहस्राण्य् अपि मूर्खाणाम् यद्य् उपास्ते मही पतिः । अथ वा अप्य् अयुतान्य् एव न अस्ति तेषु सहायता ॥२३॥

एको अप्य् अमात्यो मेधावी शूरो दक्षो विचक्षणः । राजानम् राज मात्रम् वा प्रापयेन् महतीम् श्रियम् ॥२४॥

कच्चिन् मुख्या महत्सु एव मध्यमेषु च मध्यमाः । जघन्याः च जघन्येषु भृत्याः कर्मसु योजिताः ॥२५॥

अमात्यान् उपधा अतीतान् पितृ पैतामहान् शुचीन् । श्रेष्ठान् श्रेष्ठेषु कच्चित् त्वम् नियोजयसि कर्मसु ॥२६॥

कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजम् । राज्यं तवानुजानन्ति मन्त्रिणः कैकयीसुत ॥२७॥

कच्चित् त्वाम् न अवजानन्ति याजकाः पतितम् यथा । उग्र प्रतिग्रहीतारम् कामयानम् इव स्त्रियः ॥२८॥

उपाय कुशलम् वैद्यम् भृत्य संदूषणे रतम् । शूरम् ऐश्वर्य कामम् च यो न हन्ति स वध्यते ॥२९॥

कच्चिद्द् हृष्टः च शूरः च धृतिमान् मतिमान् शुचिः । कुलीनः च अनुरक्तः च दक्षः सेना पतिः कृतः ॥३०॥

बलवन्तः च कच्चित् ते मुख्या युद्ध विशारदाः । दृष्ट अपदाना विक्रान्ताः त्वया सत्कृत्य मानिताः ॥३१॥

कचिद् बलस्य भक्तम् च वेतनम् च यथा उचितम् । सम्प्राप्त कालम् दातव्यम् ददासि न विलम्बसे ॥३२॥

काल अतिक्रमणे ह्य् एव भक्त वेतनयोर् भृताः । भर्तुः कुप्यन्ति दुष्यन्ति सो अनर्थः सुमहान् स्मृतः ॥३३॥

कच्चित् सर्वे अनुरक्ताः त्वाम् कुल पुत्राः प्रधानतः । कच्चित् प्राणामः तव अर्थेषु सम्त्यजन्ति समाहिताः ॥३४॥

कच्चिज् जानपदो विद्वान् दक्षिणः प्रतिभानवान् । यथा उक्त वादी दूतः ते कृतो भरत पण्डितः ॥३५॥

कच्चिद् अष्टादशान्य् एषु स्व पक्षे दश पन्च च । त्रिभिः त्रिभिर् अविज्नातैर् वेत्सि तीर्थानि चारकैः ॥३६॥

कच्चिद् व्यपास्तान् अहितान् प्रतियातामः च सर्वदा । दुर्बलान् अनवज्नाय वर्तसे रिपु सूदन ॥३७॥

कच्चिन् न लोकायतिकान् ब्राह्मणामः तात सेवसे । अनर्थ कुशला ह्य् एते बालाः पण्डित मानिनः ॥३८॥

धर्म शास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः । बुद्धिमान् वीक्षिकीम् प्राप्य निरर्थम् प्रवदन्ति ते ॥३९॥

वीरैर् अध्युषिताम् पूर्वम् अस्माकम् तात पूर्वकैः । सत्य नामाम् दृढ द्वाराम् हस्त्य् अश्व रथ सम्कुलाम् ॥४०॥

ब्राह्मणैः क्षत्रियैर् वैश्यैः स्व कर्म निरतैः सदा । जित इन्द्रियैर् महा उत्साहैर् वृत अमात्यैः सहस्रशः ॥४१॥

प्रासादैर् विविध आकारैर् वृताम् वैद्य जन आकुलाम् । कच्चित् समुदिताम् स्फीताम् अयोध्याम् परिरक्षसि ॥४२॥

कच्चिच् चैत्य शतैर् जुष्टः सुनिविष्ट जन आकुलः । देव स्थानैः प्रपाभिः च तडागैः च उपशोभितः ॥४३॥

प्रहृष्ट नर नारीकः समाज उत्सव शोभितः । सुकृष्ट सीमा पशुमान् हिंसाभिर् अभिवर्जितः ॥४४॥

अदेव मातृको रम्यः श्वा पदैः परिवर्जितः । परित्यक्तो भयैः सर्वैः खनिभिश्चोपशोभितः ॥४५॥

विवर्जितो नरैः पापैर्मम पूर्वैः सुरक्षितः । कच्चिज् जन पदः स्फीतः सुखम् वसति राघव ॥४६॥

कच्चित् ते दयिताः सर्वे कृषि गो रक्ष जीविनः । वार्तायाम् संश्रितः तात लोको हि सुखम् एधते ॥४७॥

तेषाम् गुप्ति परीहारैः कच्चित् ते भरणम् कृतम् । रक्ष्या हि राज्ना धर्मेण सर्वे विषय वासिनः ॥४८॥

कच्चित् स्त्रियः सान्त्वयसि कच्चित् ताः च सुरक्षिताः । कच्चिन् न श्रद्दधास्य आसाम् कच्चिद् गुह्यम् न भाषसे ॥४९॥

कच्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुकाः । कचिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि ॥५०॥

कच्चिद् दर्शयसे नित्यम् मनुष्याणाम् विभूषितम् । उत्थाय उत्थाय पूर्व अह्णे राज पुत्रो महा पथे ॥५१॥

कच्चिन्न सर्वे कर्मान्ताः प्रत्यक्षास्तेऽविशङ्कया । सर्वे वा पुनरुत्सृष्टा मध्यमे वात्र कारणम् ॥५२॥

कच्चित् सर्वाणि दुर्गाणि धन धान्य आयुध उदकैः । यन्त्रैः च परिपूर्णानि तथा शिल्पि धनुर् धरैः ॥५३॥

आयः ते विपुलः कच्चित् कच्चिद् अल्पतरो व्ययः । अपात्रेषु न ते कच्चित् कोशो गग्च्छति राघव ॥५४॥

देवता अर्थे च पित्र् अर्थे ब्राह्मण अभ्यागतेषु च । योधेषु मित्र वर्गेषु कच्चिद् गग्च्छति ते व्ययः ॥५५॥

कच्चिद् आर्यो विशुद्ध आत्मा क्षारितः चोर कर्मणा । अपृष्टः शास्त्र कुशलैर् न लोभाद् बध्यते शुचिः ॥५६॥

गृहीतः चैव पृष्टः च काले दृष्टः सकारणः । कच्चिन् न मुच्यते चोरो धन लोभान् नर ऋषभ ॥५७॥

व्यसने कच्चिद् आढ्यस्य दुगतस्य च राघव । अर्थम् विरागाः पश्यन्ति तव अमात्या बहु श्रुताः ॥५८॥

यानि मिथ्या अभिशस्तानाम् पतन्त्य् अस्राणि राघव । तानि पुत्र पशून् घ्नन्ति प्रीत्य् अर्थम् अनुशासतः ॥५९॥

कच्चिद् वृधामः च बालामः च वैद्य मुख्यामः च राघव । दानेन मनसा वाचा त्रिभिर् एतैर् बुभूषसे ॥६०॥

कच्चिद् गुरूमः च वृद्धामः च तापसान् देवता अतिथीन् । चैत्यामः च सर्वान् सिद्ध अर्थान् ब्राह्मणामः च नमस्यसि ॥६१॥

कच्चिद् अर्थेन वा धर्मम् धर्मम् धर्मेण वा पुनः । उभौ वा प्रीति लोभेन कामेन न विबाधसे ॥६२॥

कच्चिद् अर्थम् च धर्मम् च कामम् च जयताम् वर । विभज्य काले कालज्न सर्वान् भरत सेवसे ॥६३॥

कच्चित् ते ब्राह्मणाः शर्म सर्व शास्त्र अर्थ कोविदः । आशंसन्ते महा प्राज्न पौर जानपदैः सह ॥६४॥

नास्तिक्यम् अनृतम् क्रोधम् प्रमादम् दीर्घ सूत्रताम् । अदर्शनम् ज्नानवताम् आलस्यम् पन्च वृत्तिताम् ॥६५॥

एक चिन्तनम् अर्थानाम् अनर्थज्नैः च मन्त्रणम् । निश्चितानाम् अनारम्भम् मन्त्रस्य अपरिलक्षणम् ॥६६॥

मन्गलस्य अप्रयोगम् च प्रत्युत्थानम् च सर्वशः । कच्चित् त्वम् वर्जयस्य् एतान् राज दोषामः चतुर् दश ॥६७॥

दशपंचचतुर्वर्गान् सप्तवर्गं च तत्त्वतः । अष्टवर्गम् त्रिवर्गं च विद्यास्तिस्रश्च राघव ॥६८॥

इन्द्न्द्रियाणां जयं बुद्ध्यं षाड्गुण्यं दैवमानुषम् । कृत्यं विंशतिवर्गं च तथा प्रकृतिमण्डलं ॥६९॥

यात्रादण्डविधानं च द्वियोनी संधिविग्रहौ । कच्छिदेतान् महाप्राज्ञ यथावदनुमन्यसे ॥७०॥

मन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा । कच्चित्समस्तैर्व्यस्तैश्च मन्त्रं मन्त्रयसे मिथः ॥७१॥

कच्चित्ते सफला वेदाः कच्चित्ते सफलाः क्रियाः । कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ॥७२॥

कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघा । आयुष्या च यशस्या च धर्मकामार्थसंहिता ॥७३॥

यां वृत्तिं वर्तते रातो यां चनः प्रपितामहाः । तां वृत्तिं वर्तसे कच्चिद्याच सत्पथगा शुभा ॥७४॥

कच्चित् स्वादु कृतं भोज्यमेको नाश्नासि राघव । कच्चिदाशंसमानेभ्यो मित्रेभ्यः सम्प्रयच्छसि ॥७५॥

अवाप्य कृत्स्नां वसुधां यथाव । दितश्छ्युतः स्वर्गमुपैति विद्वान् ॥७६॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे शततमः सर्गः ॥

Listen to the sarga
0:00