रामायणम्

एकोत्तरशततमः सर्गः 2.101

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

तम् तु रामः समाश्वास्य भ्रातरम् गुरु वत्सलम् । लक्ष्मणेन सह भ्रात्रा प्रष्टुम् समुपचक्रमे ॥१॥

किम् एतद् इग्च्छेयम् अहम् श्रोतुम् प्रव्याहृतम् त्वया । यस्मात् त्वम् आगतो देशम् इमम् चीर जटा अजिनी ॥२॥

किम् निमित्तम् इमम् देशम् कृष्ण अजिन जटा धरः । हित्वा राज्यम् प्रविष्टः त्वम् तत् सर्वम् वक्तुम् अर्हसि ॥३॥

इत्य् उक्तः केकयी पुत्रः काकुत्स्थेन महात्मना । प्रगृह्य बलवद् भूयः प्रान्जलिर् वाक्यम् अब्रवीत् ॥४॥

आर्यम् तातः परित्यज्य कृत्वा कर्म सुदुष्करम् । गतः स्वर्गम् महा बाहुः पुत्र शोक अभिपीडितः ॥५॥

स्त्रिया नियुक्तः कैकेय्या मम मात्रा परम् तप । चकार सुमहत् पापम् इदम् आत्म यशो हरम् ॥६॥

सा राज्य फलम् अप्राप्य विधवा शोक कर्शिता । पतिष्यति महा घोरे निरये जननी मम ॥७॥

तस्य मे दास भूतस्य प्रसादम् कर्तुम् अर्हसि । अभिषिन्चस्व च अद्य एव राज्येन मघवान् इव ॥८॥

इमाः प्रकृतयः सर्वा विधवा मातुरः च याः । त्वत् सकाशम् अनुप्राप्ताः प्रसादम् कर्तुम् अर्हसि ॥९॥

तदा आनुपूर्व्या युक्तम् च युक्तम् च आत्मनि मानद । राज्यम् प्राप्नुहि धर्मेण सकामान् सुहृदः कुरु ॥१०॥

भवतु अविधवा भूमिः समग्रा पतिना त्वया । शशिना विमलेन इव शारदी रजनी यथा ॥११॥

एभिः च सचिवैः सार्धम् शिरसा याचितो मया । भ्रातुः शिष्यस्य दासस्य प्रसादम् कर्तुम् अर्हसि ॥१२॥

तद् इदम् शाश्वतम् पित्र्यम् सर्वम् सचिव मण्डलम् । पूजितम् पुरुष व्याघ्र न अतिक्रमितुम् उत्सहे ॥१३॥

एवम् उक्त्वा महा बाहुः सबाष्पः केकयी सुतः । रामस्य शिरसा पादौ जग्राह भरतः पुनः ॥१४॥

तम् मत्तम् इव मातन्गम् निह्श्वसन्तम् पुनः पुनः । भ्रातरम् भरतम् रामः परिष्वज्य इदम् अब्रवीत् ॥१५॥

कुलीनः सत्त्व सम्पन्नः तेजस्वी चरित व्रतः । राज्य हेतोः कथम् पापम् आचरेत् त्वद् विधो जनः ॥१६॥

न दोषम् त्वयि पश्यामि सूक्ष्मम् अप्य् अरि सूदन । न च अपि जननीम् बाल्यात् त्वम् विगर्हितुम् अर्हसि ॥१७॥

कामकरो महाप्राअज्ञ गुरूणां सर्वदानघ । उपपन्नेषु दारेषु पुत्रेषु च विधीयते ॥१८॥

वयमस्य यथा लोके संख्याताः सुअम्य साधुभिः । भार्याः पुत्राश्च शिष्याश्छ त्वमनुज्ञातुमर्हसि ॥१९॥

वने वा चीरवसनं सौम्यकृष्णाजिनाम्बरम् । राज्ये वापि महाराजो मां वासयितुमीश्वरः ॥२०॥

यावत् पितरि धर्मज्न गौरवम् लोक सत्कृते । तावद् धर्मभृताम् श्रेष्ठ जनन्याम् अपि गौरवम् ॥२१॥

एताभ्याम् धर्म शीलाभ्याम् वनम् गग्च्छ इति राघव । माता पितृभ्याम् उक्तो अहम् कथम् अन्यत् समाचरे ॥२२॥

त्वया राज्यम् अयोध्यायाम् प्राप्तव्यम् लोक सत्कृतम् । वस्तव्यम् दण्डक अरण्ये मया वल्कल वाससा ॥२३॥

एवम् कृत्वा महा राजो विभागम् लोक सम्निधौ । व्यादिश्य च महा तेजा दिवम् दशरथो गतः ॥२४॥

स च प्रमाणम् धर्म आत्मा राजा लोक गुरुः तव । पित्रा दत्तम् यथा भागम् उपभोक्तुम् त्वम् अर्हसि ॥२५॥

चतुर्दश समाः सौम्य दण्डक अरण्यम् आश्रितः । उपभोक्ष्ये तु अहम् दत्तम् भागम् पित्रा महात्मना ॥२६॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे एकोत्तरशततमः सर्गः ॥

Listen to the sarga
0:00