रामायणम्

दुव्य्त्तरशततमः सर्गः 2.102

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

रामस्य वचनम् श्रुत्वा भरतः प्रत्युवाच ह । किम् मे धर्माद्विहीनस्य राजधर्मः करिष्यति ॥१॥

शाश्वतोऽयं सदा ध्रमः स्थितोऽस्मासु नरर्षभ । जेष्ठपुत्रे स्थ्ते राजन् न कनीयान् नृपो भवेत् ॥२॥

स समृद्धां मया सार्धमयोध्यां गच्छ राघव । अभिषेचय चात्मानं कुलस्यास्य भवाय नः ॥३॥

राजानं मानुषं प्राहुर्देवत्वे सम्मतो मम । यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ॥४॥

केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते । दिवमार्यो गतो राजा यायजूकः सतां मतः ॥५॥

निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे । दुःखशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात् ॥६॥

उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः । अहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ ॥७॥

प्रियेण खलु दत्तं हि पितृलोकेषु राघव । अक्षय्यं भवतीत्याहुर्भवांश्चैव पितुः प्रियः ॥८॥

त्वामेव शोचंस्तव दर्शनेप्सुः । त्वयेव सक्तामनिवर्त्य बुद्धिम् । त्वया विहीनस्तव शोकमग्न । स्त्वाम् संस्मरन्नस्तमितः पिता ते ॥९॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे दुव्य्त्तरशततमः सर्गः ॥

Listen to the sarga
0:00