रामायणम्

त्र्युत्तरशततमः सर्गः 2.103

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

ताम् श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् । राघवो भरतेनोक्तां बभूव गतचेतनः ॥१॥

तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा । वाग्वज्रं भरतेनोक्तममनोज्ञं परम्तपः ॥२॥

प्रगृह्य रामो बाहूवै पुषिताग्रो यथा द्रुमः । वने परशुना कृत्तस्तथा भुवि पपात ह ॥३॥

तथा निपतितं रामं जगत्यां जगतीपतिम् । कूलघातपरिश्रान्तं पसुप्तमिव कुञ्जरम् ॥४॥

भ्रातरस्ते महेष्वासं सर्वतः शोककर्शितम् । रुदन्तः सह वैदेह्या सिषिभुः सलिलेन वै ॥५॥

स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामस्रमुत्सृजन् । उपाक्रामत काकुत्थ्सः कृपणं बहु भाषितुम् ॥६॥

स रामः स्वर्गतं श्रुत्वा पितरम् पृथिवीपतिम् । उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम् ॥७॥

किं करिष्याम्ययोध्यायां ताते दिष्टां गतिम् गते । कस्ताम् राजवराद्धीनामयोध्याम् पालयिष्यति ॥८॥

किम् नु तस्य मया कार्यं दुर्जातेन महात्मनः । यो मृतो मम शोकेन मया चापि न संस्कृतः ॥९॥

अहोः भरत! सिद्धार्थो येन राजा त्वयानुघ!| शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु सत्कृतः ॥१०॥

निष्प्रधाना मनेकाग्रां नरेन्द्रेण विना कृताम् । निवृत्तवनवासोऽपि नायोध्यां गन्तुमुत्सहे ॥११॥

समाप्तवनवासं मामयोध्यायाम् परम्तप । कोऽनु शासिष्यति पुनस्तते लोकान्तरं गते ॥१२॥

पुरा प्रेक्ष्य सुवृत्तं माम् पिता यान्याह सान्त्वयन् । वाक्यानि तानि श्रोष्यामि कुतः श्रोतसुखान्यहम् ॥१३॥

एवमुक्त्वा स भरतं भार्यामभ्येत्य राघवः । उवाच शोकसम्तप्तः पूर्णचन्द्रनिभाननाम् ॥१४॥

सीते मृतस्ते श्वशुरः पित्रा हीनोऽसि लक्ष्मण । भरतो कुःखमाचष्टे स्वर्गतं पृथिवीपतिम् ॥१५॥

ततो बहुगुणम् तेषां बाष्पो नेत्रेष्वजायत । तथा ब्रुवति काकुत्थ्स कुमाराणां यशस्विनाम् ॥१६॥

ततस्ते भ्रातरस्सर्वे भृशमाश्वास्य राघवम् । अब्रुवन् जगतीभर्तुः क्रियतामुदकं पितुः ॥१७॥

सा सीता श्वशुरं श्रुत्वा स्वर्गलोकगतम् नृपम् । नेत्राभ्यामश्रुपूर्णाभ्यामशकन्नेक्षितुं पतिम् ॥१८॥

सान्त्वयित्वा तु तां रामो रुदतीं जनकात्मजाम् । उवाच लक्ष्मणम् तत्र दुःखितो दुःखितम् वचः ॥१९॥

आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् । जलक्रियार्थं तातस्य गमिष्यामि महात्मनः ॥२०॥

सीता पुरस्ताद्र्वजतु त्वमेनामभितो व्रज । अहं पश्चाद्गमिष्यामि गति र्ह्येषा सुदारुणा ॥२१॥

ततो नित्यानुगस्तेषां विदितात्मा महामतिः । मृदुर्दान्तस्च शान्तश्च रामे च दृढभक्तिमान् ॥२२॥

सुमन्त्रस्तैर्नृपसुतैः सार्धमाश्वास्य रागवम् । आवातारयदालम्ब्य नदीम् मन्दाकिनीम् शिवाम् ॥२३॥

ते सुतीर्थाम् ततः कृच्छ्रादुपागम्य यशस्विनः । नदीम् मन्दाकिनीम् रम्याम् सदा पुष्पितकाननाम् ॥२४॥

शीघ्रश्रोतसमासाद्य तीर्थम् शिममकर्दमम् । सिषिचुस्तुदकं राज्ञे तातैतत्ते भवत्विति ॥२५॥

प्रगृह्य च महीपालो जलपूरितमञ्जलिम् । दिशम् याम्यामभिमुखो रुदन्वचनम्ब्रवीत् ॥२६॥

एतत्ते राजशार्दूल विमलं तोयमक्षयम् । पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु ॥२७॥

ततो मन्दाकिनीतीरात्र्पत्युत्तीर्य स राघवः । पितुश्चकार तेजस्वी निवापं ब्रातृभिः सह ॥२८॥

ऐङ्गुदम् बदरीमिश्रम् पिण्याकम् दर्भसंस्तरे । न्यस्य रामस्स दुःखार्तो रुदन्वचनमब्रवीत् ॥२९॥

इदम्भुङ्क्ष्व महाराज प्रीतो यदशना वयम् । यदन्नः पुरुषो भवति तदन्ना स्तस्य देवताः ॥३०॥

ततस्तेनैव मार्गेण प्रत्युत्तीर्य नदीतटात् । आरुरोह नरव्याघ्रो रम्यसानुं महिधरम् ॥३१॥

ततः पर्णकुटीद्वारमासाद्य जगतीपतिः । परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ ॥३२॥

तेषां तु रुदतां शब्दात्प्रतिश्रुत्कोऽभवद्गिरौ । भ्रातॄणां सह वैदेह्या सिंहानामिव नर्धताम् ॥३३॥

महाबलानाम् रुदताअं कुर्वतामुदकं पितुः । विज्ञाय तुमुलं शब्दम् त्रस्ता भरतसैनिकाः ॥३४॥

आब्रुवंश्चापि रामेण भरतस्संगतो ध्रुवम् । तेषामेव महाशब्दः शोचतां पितरं मृतम् ॥३५॥

अथ वासान्परित्यज्य तं सर्वेऽभिमुखाः स्वनम् । अ प्येकमनसो जग्मुर्यथास्थानम् प्रधाविताः ॥३६॥

हयैरन्ये गजैरन्ये रथैरन्ये स्वलम्कृतैः । सुकुमारास्तथैवान्ये पद्भिरेव नरा ययः ॥३७॥

अचिरप्रोषितम् रामम् चिरविप्रोषितं यथा । द्रष्टुकामो जनस्सर्वो जगाम सहसाश्रमम् ॥३८॥

भ्रातॄणां त्वरितास्तत्र द्रष्टुकामास्समागमम् । युयुर्बहुविधैर्यानैः खरनेविस्वनाकुलैः ॥३९॥

सा भूमिर्बहुभिर्यानै खरनेमिसम्रहता । मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे ॥४०॥

तेन वित्रासिता नागाः करेणुपरिवारिताः । आवासयन्तो गन्धेन जग्मुरन्यद्वनम् ततः ॥४१॥

वराहवृकसम्घाश्च सिंहाश्च महिषाः सर्पवानराः । व्याघ्रगोकर्णगवयाः वित्रेसुः पृषतैस्सह ॥४२॥

रथाङ्गसाह्वा नत्यूह हंसाः कारण्डवाः प्लवाः । तथा पुंस्कोकोलाः क्रौञ्च विसम्ज्ञा भेजिरे दिशः ॥४३॥

तेन शब्देन वित्रस्तैराकासं पक्षिभिर्वऋतम् । मनुष्यैरावृता भूमिरुभयम् प्रबभौ त दा ॥४४॥

तत्तस्तं पुरुषव्याघ्रम् यशस्विन मकीलम्षम् । आसीनं स्थण्डिले रामम् ददर्श सहसा जनः ॥४५॥

विगर्हमाणः कैकेयीं मन्थरासहितामपि । अभिगम्य जनो रामम् बाष्पपूर्णमुखोऽभवत् ॥४६॥

तान्नरान् बाष्पपूर्णाक्षान् समीक्ष्यथ सुदुःखितान् । पर्यष्वजत धर्मज्ञः पितृवन्मातृवच्च नः ॥४७॥

स तत्र कांश्चित् परिषन्वजे नरान् । नराश्च केचित्तु तमभ्यवादयन् । चकार सर्वान् सवयस्यबान्धवान् । यथार्ह मासाद्य तदा नृपात्मजः ॥४८॥

स तत्र तेषाम् रुदतां महात्मनां । भुवम् ब खम् चाशुनिनादयन् स्वनः । गुह गिरीणाम् च दिश्श्च सन्ततं । मृदङ्गघोषप्रतिमः प्रशुश्रुवे ॥४९॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे त्र्युत्तरशततमः सर्गः ॥

Listen to the sarga
0:00