रामायणम्

चतुरुत्तरशततमः सर्गः 2.104

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

वसिष्ठः पुरतः कृत्वा दारान् दशरथस्य च । अभिचक्राम तं देशं रामदर्शनतर्षितः ॥१॥

राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीम् प्रति । ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम् ॥२॥

कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता । सुमित्रामब्रवीद्दीना याश्चान्या राजयोषितः ॥३॥

इदम् तेषामनाथानाम् क्लिष्टमक्लिष्टकर्मणाम् । वने प्राक्कलनम्तीर्थम् ये ते निर्विषयीकृताः ॥४॥

इतस्सुमित्रे पुत्रस्ते सदा जलमतन्द्रितः । स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् ॥५॥

जघन्यमपि ते पुत्रः कृतवान्न तु गर्हितः । भ्रातुर्यदर्थसहितं सर्वं तद्विहितम् गुणैः ॥६॥

अद्यायमपि ते पुत्रः क्लेशानामतथोचितः । नीचानर्थसमाचारं सज्जं कर्म प्रमुञ्चतु ॥७॥

दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले । पितुरिङ्गुदिपिण्याकम् व्यस्तमायतलोचना ॥८॥

तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्यसा । उवाच देवीइ कौसल्या सर्वा दशरथस्त्रियः ॥९॥

इदमिक्ष्वाकुनाथस्य राघवस्य महाअत्मनः । राघवेण पितुर्दत्तम् पश्यतै तद्यथाविधि ॥१०॥

तस्य देवसमानस्य पार्थिवस्य महात्मनः । नैतदौपयिकम् मन्ये भुक्तभोगस्य भोजनम् ॥११॥

चतुर्न्ताम् महीम् भुक्त्वा महेन्द्रसदृशो विभुः । कथमिङ्गुदिपिण्याकम् स भुङ्त्के वसुधादिपः ॥१२॥

अतो दुःखतरम् लोके न किंञ्चित्प्रतिभाति मा । यत्र रामः पितुर्दद्यादिङ्गुदिक्षोदमृद्धिमान् ॥१३॥

रामेणेङ्गुदिपिण्याकं पित्तुर्दत्तं समीक्ष्य मे । कथं दुःखेन हृदयम् न स्पोटति सहस्रधा ॥१४॥

श्रुतिस्तु खल्वियं सत्य लौकिकी प्रतिभाति मा । यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ॥१५॥

एवमार्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा । ददृशुश्चश्रमे रामं स्वर्गच्युतमिवामरम् ॥१६॥

सर्वभोगैः परित्यक्तं रामं सम्प्रेक्ष्य मातरः । आर्त मुमुचुरश्रुणि सस्वरं शोककर्शताः ॥१७॥

तासां रामः समुत्थाय जग्रह चरणान् शुभान् । मातृइणां मनुजव्याघ्रः सर्वासां सत्यसंगरः ॥१८॥

ताह् पाणिभिः सुखस्सर्शैद्वङ्गुलितलैश्शुभैः । प्रममार्जू रजः पृष्ठाद्रामस्यायतलोचनाः ॥१९॥

सौमित्रिरपि ताः सर्वा मातृईः सम्प्रेक्ष्य दुःखितः । आभ्यावादयदासक्तं शनैरामादनन्तरम् ॥२०॥

यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रियः । वृत्तिम् दशरथाज्जाते लक्ष्मणे शुभलक्षणे ॥२१॥

सीतापि चरणांस्तसामुपसम्गृह्य दुः खिता । श्वश्रूणामश्रुपूर्णाक्षि सा बभूवाग्रतः स्थिता ॥२२॥

तां परिष्वज्य दुःखार्तां माता दुहितरम् यथा । वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् ॥२३॥

विदेहराजस्य सुता स्नुषा दशरथस्य च । रामपत्नी कथं दुःखं सम्प्राप्ता निर्जने वने ॥२४॥

पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् । काञ्चनं रजसा ध्वस्तम् क्स्लिष्टं चन्द्रमिवाम्बुदैः ॥२५॥

मुखम् ते प्रेक्ष्य माम् शोको दहत्यग्निरिवाश्रयम् । भृशम् मनसि वैदेहि व्यसनारणिसम्भवः ॥२६॥

ब्रुवन्त्यमेवमार्तायां जनन्यां भरताग्रजः । पादावासाद्य जग्राह वसिष्टस्य च राघवः ॥२७॥

पुरोहितस्यग्नि समस्य वै तदा । बृहस्पतेरिन्द्रमिवामराधिपः । प्रगृह्य पादौ सुसमृद्धतेजसः । सहैव तेनोपनिवेश राघवः ॥२८॥

ततो जघन्यं सहितैः समन्त्रिभिः । पुरप्रधानैश्च सहैव सैनिकैः । जनेन धर्मज्ञतमेन धर्मवा । नुपोपविष्टो भरतस्तदाग्रजम् ॥२९॥

उपोपविष्टस्तु तदा स वीर्यवां । स्तपस्विवेषेण समीक्ष्य राघवम् । श्रिया ज्वलन्तं भरतः कृताञ्जलि । र्यथा महेन्द्रः प्रयतः प्रजापतिम् ॥३०॥

किमेष वाक्यम् भरतो.द्य राघवं । प्रणम्य स्त्कृत्य च साधु वक्ष्यति । इतीव तस्यार्यजनस्य तत्त्वतो । बभूव कौतूहलमुत्तमम् तदा ॥३१॥

स राघवः सत्यधृतिश्च लक्ष्मणो । महानुभावो भरतश्च धार्मिकः । वृताः सुहृद्भिश्च विरेजुरध्वरे । यथा सद्स्यः सहितास्त्रयोऽग्नयः ॥३२॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे चतुरुत्तरशततमः सर्गः ॥

Listen to the sarga
0:00