ततः पुरुष सिम्हानाम् वृतानाम् तैः सुहृद् गणैः । शोचताम् एव रजनी दुह्खेन व्यत्यवर्तत ॥१॥
पञ्चोत्तरशततमः सर्गः 2.105
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
रजन्याम् सुप्रभातायाम् भ्रातरः ते सुहृद् वृताः । मन्दाकिन्याम् हुतम् जप्यम् कृत्वा रामम् उपागमन् ॥२॥
तूष्णीम् ते समुपासीना न कश्चित् किंचिद् अब्रवीत् । भरतः तु सुहृन् मध्ये राम वचनम् अब्रवीत् ॥३॥
सान्त्विता मामिका माता दत्तम् राज्यम् इदम् मम । तद् ददामि तव एव अहम् भुन्क्ष्व राज्यम् अकण्टकम् ॥४॥
महता इव अम्बु वेगेन भिन्नः सेतुर् जल आगमे । दुरावारम् त्वद् अन्येन राज्य खण्डम् इदम् महत् ॥५॥
गतिम् खर इव अश्वस्य तार्क्ष्यस्य इव पतत्रिणः । अनुगन्तुम् न शक्तिर् मे गतिम् तव मही पते ॥६॥
सुजीवम् नित्यशः तस्य यः परैर् उपजीव्यते । राम तेन तु दुर्जीवम् यः परान् उपजीवति ॥७॥
यथा तु रोपितो वृक्षः पुरुषेण विवर्धितः । ह्रस्वकेन दुरारोहो रूढ स्कन्धो महा द्रुमः ॥८॥
स यदा पुष्पितो भूत्वा फलानि न विदर्शयेत् । स ताम् न अनुभवेत् प्रीतिम् यस्य हेतोः प्रभावितः ॥९॥
एषा उपमा महा बाहो त्वम् अर्थम् वेत्तुम् अर्हसि । यदि त्वम् अस्मान् ऋषभो भर्ता भृत्यान् न शाधि हि ॥१०॥
श्रेणयः त्वाम् महा राज पश्यन्तु अग्र्याः च सर्वशः । प्रतपन्तम् इव आदित्यम् राज्ये स्थितम् अरिम् दमम् ॥११॥
तव अनुयाने काकुत्ष्थ मत्ता नर्दन्तु कुञ्जराः । अन्तः पुर गता नार्यो नन्दन्तु सुसमाहिताः ॥१२॥
तस्य साधु इत्य् अमन्यन्त नागरा विविधा जनाः । भरतस्य वचः श्रुत्वा रामम् प्रत्यनुयाचतः ॥१३॥
तम् एवम् दुह्खितम् प्रेक्ष्य विलपन्तम् यशस्विनम् । रामः कृत आत्मा भरतम् समाश्वासयद् आत्मवान् ॥१४॥
न आत्मनः काम कारो अस्ति पुरुषो अयम् अनीश्वरः । इतः च इतरतः च एनम् कृत अन्तः परिकर्षति ॥१५॥
सर्वे क्षय अन्ता निचयाः पतन अन्ताः समुग्च्छ्रयाः । सम्योगा विप्रयोग अन्ता मरण अन्तम् च जीवितम् ॥१६॥
यथा फलानम् पक्वानाम् न अन्यत्र पतनाद् भयम् । एवम् नरस्य जातस्य न अन्यत्र मरणाद् भयम् ॥१७॥
यथा अगारम् दृढ स्थूणम् जीर्णम् भूत्वा अवसीदति । तथा अवसीदन्ति नरा जरा मृत्यु वशम् गताः ॥१८॥
अत्येति रजनी या तु सा न प्रतिनिवर्तते । यात्येव यमुना पूर्णा समुद्रमुदकाकुलम् ॥१९॥
अहो रात्राणि गग्च्छन्ति सर्वेषाम् प्राणिनाम् इह । आयूम्षि क्षपयन्त्य् आशु ग्रीष्मे जलम् इव अंशवः ॥२०॥
आत्मानम् अनुशोच त्वम् किम् अन्यम् अनुशोचसि । आयुः ते हीयते यस्य स्थितस्य च गतस्य च ॥२१॥
सह एव मृत्युर् व्रजति सह मृत्युर् निषीदति । गत्वा सुदीर्घम् अध्वानम् सह मृत्युर् निवर्तते ॥२२॥
गात्रेषु वलयः प्राप्ताः श्वेताः चैव शिरो रुहाः । जरया पुरुषो जीर्णः किम् हि कृत्वा प्रभावयेत् ॥२३॥
नन्दन्त्य् उदित आदित्ये नन्दन्त्य् अस्तम् इते रवौ । आत्मनो न अवबुध्यन्ते मनुष्या जीवित क्षयम् ॥२४॥
हृष्यन्त्य् ऋतु मुखम् दृष्ट्वा नवम् नवम् इह आगतम् । ऋतूनाम् परिवर्तेन प्राणिनाम् प्राण सम्क्षयः ॥२५॥
यथा काष्ठम् च काष्ठम् च समेयाताम् महा अर्णवे । समेत्य च व्यपेयाताम् कालम् आसाद्य कंचन ॥२६॥
एवम् भार्याः च पुत्राः च ज्नातयः च वसूनि च । समेत्य व्यवधावन्ति ध्रुवो ह्य् एषाम् विना भवः ॥२७॥
न अत्र कश्चिद् यथा भावम् प्राणी समभिवर्तते । तेन तस्मिन् न सामर्थ्यम् प्रेतस्य अस्त्य् अनुशोचतः ॥२८॥
यथा हि सार्थम् गग्च्छन्तम् ब्रूयात् कश्चित् पथि स्थितः । अहम् अप्य् आगमिष्यामि पृष्ठतो भवताम् इति ॥२९॥
एवम् पूर्वैर् गतो मार्गः पितृ पैतामहो ध्रुवः । तम् आपन्नः कथम् शोचेद् यस्य न अस्ति व्यतिक्रमः ॥३०॥
वयसः पतमानस्य स्रोतसो वा अनिवर्तिनः । आत्मा सुखे नियोक्तव्यः सुख भाजः प्रजाः स्मृताः ॥३१॥
धर्म आत्मा स शुभैः कृत्स्नैः क्रतुभिः च आप्त दक्षिणैः । धूत पापो गतः स्वर्गम् पिता नः पृथिवी पतिः ॥३२॥
भृत्यानाम् भरणात् सम्यक् प्रजानाम् परिपालनात् । अर्थ आदानाच् च धार्मेण पिता नः त्रिदिवम् गतः ॥३३॥
कर्मभिस्तु शुभैरिष्टैः क्रतुभिश्चाव्तदक्षिणः । स्वर्गं दशरथः प्राप्तः पिता नः पृथिवीपतिः ॥३४॥
इष्ट्वा बहुविधैर् यज्नैर् भोगामः च अवाप्य पुष्कलान् । उत्तमम् च आयुर् आसाद्य स्वर् गतः पृथिवी पतिः ॥३५॥
आयुरुत्तममासाद्य भोगानपि च राघवः । स न शोच्यः पिता तात स्वर्गतः सत्कृतः सताम् ॥३६॥
स जीर्णम् मानुषम् देहम् परित्यज्य पिता हि नः । दैवीम् ऋद्धिम् अनुप्राप्तो ब्रह्म लोक विहारिणीम् ॥३७॥
तम् तु न एवम् विधः कश्चित् प्राज्नः शोचितुम् अर्हति । त्वद् विधो यद् विधः च अपि श्रुतवान् बुद्धिमत्तरः ॥३८॥
एते बहु विधाः शोका विलाप रुदिते तथा । वर्जनीया हि धीरेण सर्व अवस्थासु धीमता ॥३९॥
स स्वस्थो भव मा शोचो यात्वा च आवस ताम् पुरीम् । तथा पित्रा नियुक्तो असि वशिना वदतामु वर ॥४०॥
यत्र अहम् अपि तेन एव नियुक्तः पुण्य कर्मणा । तत्र एव अहम् करिष्यामि पितुर् आर्यस्य शासनम् ॥४१॥
न मया शासनम् तस्य त्यक्तुम् न्याय्यम् अरिम् दम । तत् त्वया अपि सदा मान्यम् स वै बन्धुः स नः पिता ॥४२॥
तद्वचः पितुरेवाहं सम्मतम् धर्मचारिणः । कर्मणा पालयिष्यामि वनवासेन राघव ॥४३॥
धार्मिकेणानृशंसेन नरेण गुरुवर्तिना । भवितव्यं नरव्याघ्रम् परलोकं जिगीषता ॥४४॥
आत्मानमनुतिष्ठ त्वं स्वभावेन नरर्षभ । निशाम्य तु शुभं वृत्तं पितुर्दशरथस्य नः ॥४५॥
इत्येवमुक्त्वा वचनम् महात्मा| पितुर्निदेशप्रतिपालनार्थम् । युवीयसम् भ्रातरमर्थवच्च । प्रभुर्मुहूर्ताद्विरराम रामः ॥४६॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे पञ्चोत्तरशततमः सर्गः ॥