रामायणम्

षडुत्तरशततमः सर्गः 2.106

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

एवम् उक्त्वा तु विरते रामे वचनम् अर्थवत् । ततो मन्दाकिनीतीरे रामम् प्रकृतिवत्सलम् ॥१॥

उवाच भरतः चित्रम् धार्मिको धार्मिकम् वचः । को हि स्याद् ईदृशो लोके यादृशः त्वम् अरिम् दम ॥२॥

न त्वाम् प्रव्यथयेद् दुह्खम् प्रीतिर् वा न प्रहर्षयेत् । सम्मतः च असि वृद्धानाम् तामः च पृग्च्छसि संशयान् ॥३॥

यथा मृतः तथा जीवन् यथा असति तथा सति । यस्य एष बुध्दि लाभः स्यात् परितप्येत केन सः ॥४॥

परावरज्ञो यश्च स्यात् यथा त्वं मनुजाधिप । स एवम् व्यसनम् प्राप्य न विषीदितुम् अर्हति ॥५॥

अमर उपम सत्त्वः त्वम् महात्मा सत्य सम्गरः । सर्वज्नः सर्व दर्शी च बुद्धिमामः च असि राघव ॥६॥

न त्वाम् एवम् गुणैर् युक्तम् प्रभव अभव कोविदम् । अविषह्यतमम् दुह्खम् आसादयितुम् अर्हति ॥७॥

प्रोषिते मयि यत् पापम् मात्रा मत् कारणात् कृतम् । क्षुद्रया तद् अनिष्टम् मे प्रसीदतु भवान् मम ॥८॥

धर्म बन्धेन बद्धो अस्मि तेन इमाम् न इह मातरम् । हन्मि तीव्रेण दण्डेन दण्ड अर्हाम् पाप कारिणीम् ॥९॥

कथम् दशरथाज् जातः शुद्ध अभिजन कर्मणः । जानन् धर्मम् अधर्मिष्ठम् कुर्याम् कर्म जुगुप्सितम् ॥१०॥

गुरुः क्रियावान् वृद्धः च राजा प्रेतः पिता इति च । तातम् न परिगर्हेयम् दैवतम् च इति संसदि ॥११॥

को हि धर्म अर्थयोर् हीनम् ईदृशम् कर्म किल्बिषम् । स्त्रियाः प्रिय चिकीर्षुः सन् कुर्याद् धर्मज्न धर्मवित् ॥१२॥

अन्त काले हि भूतानि मुह्यन्ति इति पुरा श्रुतिः । राज्ना एवम् कुर्वता लोके प्रत्यक्षा सा श्रुतिः कृता ॥१३॥

साधु अर्थम् अभिसंधाय क्रोधान् मोहाच् च साहसात् । तातस्य यद् अतिक्रान्तम् प्रत्याहरतु तद् भवान् ॥१४॥

पितुर् हि समतिक्रान्तम् पुत्रो यः साधु मन्यते । तद् अपत्यम् मतम् लोके विपरीतम् अतो अन्यथा ॥१५॥

तद् अपत्यम् भवान् अस्तु मा भवान् दुष्कृतम् पितुः । अभिपत् तत् कृतम् कर्म लोके धीर विगर्हितम् ॥१६॥

कैकेयीम् माम् च तातम् च सुहृदो बान्धवामः च नः । पौर जानपदान् सर्वामः त्रातु सर्वम् इदम् भवान् ॥१७॥

क्व च अरण्यम् क्व च क्षात्रम् क्व जटाः क्व च पालनम् । ईदृशम् व्याहतम् कर्म न भवान् कर्तुम् अर्हति ॥१८॥

एष हि प्रथमो धर्मः क्षत्रियस्याभिषेचनम् । येन शक्यम् महाप्राज्ञ् प्रजानां परिपालनम् ॥१९॥

कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम् । आयतिस्थं चरेद्धर्मम् क्षत्रबन्धुरनिश्चितम् ॥२०॥

अथ क्लेशजम् एव त्वम् धर्मम् चरितुम् इग्च्छसि । धर्मेण चतुरो वर्णान् पालयन् क्लेशम् आप्नुहि ॥२१॥

चतुर्णाम् आश्रमाणाम् हि गार्हस्थ्यम् श्रेष्ठम् आश्रमम् । पाहुर् धर्मज्न धर्मज्नाः तम् कथम् त्यक्तुम् अर्हसि ॥२२॥

श्रुतेन बालः स्थानेन जन्मना भवतो ह्य् अहम् । स कथम् पालयिष्यामि भूमिम् भवति तिष्ठति ॥२३॥

हीन बुद्धि गुणो बालो हीनः स्थानेन च अप्य् अहम् । भवता च विना भूतो न वर्तयितुम् उत्सहे ॥२४॥

इदम् निखिलम् अव्यग्रम् पित्र्यम् राज्यम् अकण्टकम् । अनुशाधि स्वधर्मेण धर्मज्न सह बान्धवैः ॥२५॥

इह एव त्वा अभिषिन्चन्तु धर्मज्न सह बान्धवैः । ऋत्विजः सवसिष्ठाः च मन्त्रवन् मन्त्र कोविदाः ॥२६॥

अभिषिक्तः त्वम् अस्माभिर् अयोध्याम् पालने व्रज । विजित्य तरसा लोकान् मरुद्भिर् इव वासवः ॥२७॥

ऋणानि त्रीण्य् अपाकुर्वन् दुर्हृदः साधु निर्दहन् । सुहृदः तर्पयन् कामैः त्वम् एव अत्र अनुशाधि माम् ॥२८॥

अद्य आर्य मुदिताः सन्तु सुहृदः ते अभिषेचने । अद्य भीताः पालयन्ताम् दुर्हृदः ते दिशो दश ॥२९॥

आक्रोशम् मम मातुः च प्रमृज्य पुरुष ऋषभ । अद्य तत्र भवन्तम् च पितरम् रक्ष किल्बिषात् ॥३०॥

शिरसा त्वा अभियाचे अहम् कुरुष्व करुणाम् मयि । बान्धवेषु च सर्वेषु भूतेषु इव महा ईश्वरः ॥३१॥

अथ वा पृष्ठतः कृत्वा वनम् एव भवान् इतः । गमिष्यति गमिष्यामि भवता सार्धम् अप्य् अहम् ॥३२॥

तथापि रामो भरतेन ताम्यत । प्रसाद्यमानः शिरसा मही पतिः । न चैव चक्रे गमनाय सत्त्ववान् । मतिम् पितुः तद् वचने प्रतिष्ठितः ॥३३॥

तद् अद्भुतम् स्थैर्यम् अवेक्ष्य राघवे । समम् जनो हर्षम् अवाप दुह्खितः । न यात्य् अयोध्याम् इति दुह्खितो अभवत् । स्थिर प्रतिज्नत्वम् अवेक्ष्य हर्षितः ॥३४॥

तम् ऋत्विजो नैगम यूथ वल्लभाः । तथा विसम्ज्ना अश्रु कलाः च मातरः |तथा ब्रुवाणम् भरतम् प्रतुष्टुवुः । प्रणम्य रामम् च ययाचिरे सह ॥३५॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे षडुत्तरशततमः सर्गः ॥

Listen to the sarga
0:00