रामायणम्

सप्तोत्तरशततमः सर्गः 2.107

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

पुनर् एवम् ब्रुवाणम् तु भरतम् लक्ष्मण अग्रजः । प्रत्युवच ततः श्रीमान् ज्नाति मध्ये अतिसत्कृतः ॥१॥

उपपन्नम् इदम् वाक्यम् यत् त्वम् एवम् अभाषथाः । जातः पुत्रो दशरथात् कैकेय्याम् राज सत्तमात् ॥२॥

पुरा भ्रातः पिता नः स मातरम् ते समुद्वहन् । मातामहे समाश्रौषीद् राज्य शुल्कम् अनुत्तमम् ॥३॥

देव असुरे च सम्ग्रामे जनन्यै तव पार्थिवः । सम्प्रहृष्टो ददौ राजा वरम् आराधितः प्रभुः ॥४॥

ततः सा सम्प्रतिश्राव्य तव माता यशस्विनी । अयाचत नर श्रेष्ठम् द्वौ वरौ वर वर्णिनी ॥५॥

तव राज्यम् नर व्याघ्र मम प्रव्राजनम् तथा । तच् च राजा तथा तस्यै नियुक्तः प्रददौ वरौ ॥६॥

तेन पित्रा अहम् अप्य् अत्र नियुक्तः पुरुष ऋषभ । चतुर्दश वने वासम् वर्षाणि वरदानिकम् ॥७॥

सो अहम् वनम् इदम् प्राप्तो निर्जनम् लक्ष्मण अन्वितः । शीतया च अप्रतिद्वन्द्वः सत्य वादे स्थितः पितुः ॥८॥

भवान् अपि तथा इत्य् एव पितरम् सत्य वादिनम् । कर्तुम् अर्हति राज इन्द्रम् क्षिप्रम् एव अभिषेचनात् ॥९॥

ऋणान् मोचय राजानम् मत् कृते भरत प्रभुम् । पितरम् त्राहि धर्मज्न मातरम् च अभिनन्दय ॥१०॥

श्रूयते हि पुरा तात श्रुतिर् गीता यशस्विनी । गयेन यजमानेन गयेषु एव पितृऋन् प्रति ॥११॥

पुम् नाम्ना नरकाद् यस्मात् पितरम् त्रायते सुतः । तस्मात् पुत्र इति प्रोक्तः पितृऋन् यत् पाति वा सुतः ॥१२॥

एष्टव्या बहवः पुत्रा गुणवन्तो बहु श्रुताः । तेषाम् वै समवेतानाम् अपि कश्चिद् गयाम् व्रजेत् ॥१३॥

एवम् राज ऋषयः सर्वे प्रतीता राज नन्दन । तस्मात् त्राहि नर श्रेष्ठ पितरम् नरकात् प्रभो ॥१४॥

अयोध्याम् गग्च्छ भरत प्रकृतीर् अनुरन्जय । शत्रुघ्न सहितो वीर सह सर्वैर् द्विजातिभिः ॥१५॥

प्रवेक्ष्ये दण्डक अरण्यम् अहम् अप्य् अविलम्बयन् । आभ्याम् तु सहितो राजन् वैदेह्या लक्ष्मणेन च ॥१६॥

त्वम् राजा भव भरत स्वयम् नराणाम् । वन्यानाम् अहम् अपि राज राण् मृगाणाम् । गग्च्छ त्वम् पुर वरम् अद्य सम्प्रहृष्टः । सम्हृष्टः तु अहम् अपि दण्डकान् प्रवेक्ष्ये ॥१७॥

चायाम् ते दिन कर भाः प्रबाधमानम् । वर्षत्रम् भरत करोतु मूर्ध्नि शीताम् । एतेषाम् अहम् अपि कानन द्रुमाणाम् । चायाम् ताम् अतिशयिनीम् सुखम् श्रयिष्ये ॥१८॥

शत्रुघ्नः कुशल मतिः तु ते सहायः । सौमित्रिर् मम विदितः प्रधान मित्रम् । चत्वारः तनय वरा वयम् नर इन्द्रम् । सत्यस्थम् भरत चराम मा विषादम् ॥१९॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे सप्तोत्तरशततमः सर्गः ॥

Listen to the sarga
0:00