रामायणम्

अष्टोत्तरशततमः सर्गः 2.108

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

आश्वासयन्तम् भरतम् जाबालिर् ब्राह्मण उत्तमः । उवाच रामम् धर्मज्नम् धर्म अपेतम् इदम् वचः ॥१॥

साधु राघव मा भूत् ते बुद्धिर् एवम् निरर्थका । प्राकृतस्य नरस्य इव आर्य बुद्धेः तपस्विनः ॥२॥

कः कस्य पुरुषो बन्धुः किम् आप्यम् कस्य केनचित् । यद् एको जायते जन्तुर् एक एव विनश्यति ॥३॥

तस्मान् माता पिता च इति राम सज्जेत यो नरः । उन्मत्त इव स ज्नेयो न अस्ति काचिद्द् हि कस्यचित् ॥४॥

यथा ग्राम अन्तरम् गग्च्छन् नरः कश्चिद् क्वचिद् वसेत् । उत्सृज्य च तम् आवासम् प्रतिष्ठेत अपरे अहनि ॥५॥

एवम् एव मनुष्याणाम् पिता माता गृहम् वसु । आवास मात्रम् काकुत्स्थ सज्जन्ते न अत्र सज्जनाः ॥६॥

पित्र्यम् राज्यम् समुत्सृज्य स न अर्हति नर उत्तम । आस्थातुम् कापथम् दुह्खम् विषमम् बहु कण्टकम् ॥७॥

समृद्धायाम् अयोध्यायाम् आत्मानम् अभिषेचय । एक वेणी धरा हि त्वाम् नगरी सम्प्रतीक्षते ॥८॥

राज भोगान् अनुभवन् महा अर्हान् पार्थिव आत्मज । विहर त्वम् अयोध्यायाम् यथा शक्रः त्रिविष्टपे ॥९॥

न ते कश्चिद् दशरतहः त्वम् च तस्य न कश्चन । अन्यो राजा त्वम् अन्यः च तस्मात् कुरु यद् उच्यते ॥१०॥

बीजमात्रम् पिता जन्तोः शुक्लं रुधिरमेव च । संयुक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत् ॥११॥

गतः स नृपतिः तत्र गन्तव्यम् यत्र तेन वै । प्रवृत्तिर् एषा मर्त्यानाम् त्वम् तु मिथ्या विहन्यसे ॥१२॥

अर्थ धर्म परा ये ये तामः तान् शोचामि न इतरान् । ते हि दुह्खम् इह प्राप्य विनाशम् प्रेत्य भेजिरे ॥१३॥

अष्टका पितृ दैवत्यम् इत्य् अयम् प्रसृतो जनः । अन्नस्य उपद्रवम् पश्य मृतो हि किम् अशिष्यति ॥१४॥

यदि भुक्तम् इह अन्येन देहम् अन्यस्य गग्च्छति । दद्यात् प्रवसतः श्राद्धम् न तत् पथ्य् अशनम् भवेत् ॥१५॥

दान सम्वनना ह्य् एते ग्रन्था मेधाविभिः कृताः । यजस्व देहि दीक्षस्व तपः तप्यस्व सम्त्यज ॥१६॥

स न अस्ति परम् इत्य् एव कुरु बुद्धिम् महा मते । प्रत्यक्षम् यत् तद् आतिष्ठ परोक्षम् पृष्ठतः कुरु ॥१७॥

सताम् बुद्धिम् पुरः कृत्य सर्व लोक निदर्शिनीम् । राज्यम् त्वम् प्रतिगृह्णीष्व भरतेन प्रसादितः ॥१८॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे अष्टोत्तरशततमः सर्गः ॥

Listen to the sarga
0:00