रामायणम्

नवोत्तरशततमः सर्गः 2.109

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

जाबालेः तु वचः श्रुत्वा रामः सत्य आत्मनाम् वरः । उवाच परया युक्त्या स्व बुद्ध्या च अविपन्नया ॥१॥

भवान् मे प्रिय काम अर्थम् वचनम् यद् इह उक्तवान् । अकार्यम् कार्य सम्काशम् अपथ्यम् पथ्य सम्मितम् ॥२॥

निर्मर्यादः तु पुरुषः पाप आचार समन्वितः । मानम् न लभते सत्सु भिन्न चारित्र दर्शनः ॥३॥

कुलीनम् अकुलीनम् वा वीरम् पुरुष मानिनम् । चारित्रम् एव व्याख्याति शुचिम् वा यदि वा अशुचिम् ॥४॥

अनारयः तु आर्य सम्काशः शौचाद्द् हीनः तथा शुचिः । लक्षण्यवद् अलक्षण्यो दुह्शीलः शीलवान् इव ॥५॥

अधर्मम् धर्म वेषेण यदि इमम् लोक सम्करम् । अभिपत्स्ये शुभम् हित्वा क्रिया विधि विवर्जितम् ॥६॥

कः चेतयानः पुरुषः कार्य अकार्य विचक्षणः । बहु मंस्यति माम् लोके दुर्वृत्तम् लोक दूषणम् ॥७॥

कस्य यास्याम्य् अहम् वृत्तम् केन वा स्वर्गम् आप्नुयाम् । अनया वर्तमानो अहम् वृत्त्या हीन प्रतिज्नया ॥८॥

काम वृत्तः तु अयम् लोकः कृत्स्नः समुपवर्तते । यद् वृत्ताः सन्ति राजानः तद् वृत्ताः सन्ति हि प्रजाः ॥९॥

सत्यम् एव आनृशंस्यम् च राज वृत्तम् सनातनम् । तस्मात् सत्य आत्मकम् राज्यम् सत्ये लोकः प्रतिष्ठितः ॥१०॥

ऋषयः चैव देवाः च सत्यम् एव हि मेनिरे । सत्य वादी हि लोके अस्मिन् परमम् गग्च्छति क्षयम् ॥११॥

उद्विजन्ते यथा सर्पान् नराद् अनृत वादिनः । धर्मः सत्यम् परो लोके मूलम् स्वर्गस्य च उच्यते ॥१२॥

सत्यम् एव ईश्वरो लोके सत्यम् पद्मा समाश्रिता । सत्य मूलानि सर्वाणि सत्यान् न अस्ति परम् पदम् ॥१३॥

दत्तम् इष्टम् हुतम् चैव तप्तानि च तपांसि च । वेदाः सत्य प्रतिष्ठानाः तस्मात् सत्य परो भवेत् ॥१४॥

एकः पालयते लोकम् एकः पालयते कुलम् । मज्जत्य् एको हि निरयः एकः स्वर्गे महीयते ॥१५॥

सो अहम् पितुर् निदेशम् तु किम् अर्थम् न अनुपालये । सत्य प्रतिश्रवः सत्यम् सत्येन समयी कृतः ॥१६॥

न एव लोभान् न मोहाद् वा न च अज्नानात् तमो अन्वितः । सेतुम् सत्यस्य भेत्स्यामि गुरोः सत्य प्रतिश्रवः ॥१७॥

असत्य संधस्य सतः चलस्य अस्थिर चेतसः । न एव देवा न पितरः प्रतीग्च्छन्ति इति नः श्रुतम् ॥१८॥

2.109.18 #35d6981cfcf5 timing uncertain

प्रत्यग् आत्मम् इमम् धर्मम् सत्यम् पश्याम्य् अहम् स्वयम् । भारः सत् पुरुष आचीर्णः तद् अर्थम् अभिनन्द्यते ॥१९॥

क्षात्रम् धर्मम् अहम् त्यक्ष्ये ह्य् अधर्मम् धर्म सम्हितम् । क्षुद्रौर् नृशंसैर् लुब्धैः च सेवितम् पाप कर्मभिः ॥२०॥

कायेन कुरुते पापम् मनसा सम्प्रधार्य च । अनृतम् जिह्वया च आह त्रिविधम् कर्म पातकम् ॥२१॥

भूमिः कीर्तिर् यशो लक्ष्मीः पुरुषम् प्रार्थयन्ति हि । स्वर्गस्थम् च अनुबध्नन्ति सत्यम् एव भजेत तत् ॥२२॥

श्रेष्ठम् ह्य् अनार्यम् एव स्याद् यद् भवान् अवधार्य माम् । आह युक्ति करैर् वाक्यैर् इदम् भद्रम् कुरुष्व ह ॥२३॥

कथम् ह्य् अहम् प्रतिज्नाय वन वासम् इमम् गुरोः । भरतस्य करिष्यामि वचो हित्वा गुरोर् वचः ॥२४॥

स्थिरा मया प्रतिज्नाता प्रतिज्ना गुरु सम्निधौ । प्रहृष्ट मानसा देवी कैकेयी च अभवत् तदा ॥२५॥

वन वासम् वसन्न् एवम् शुचिर् नियत भोजनः । मूलैः पुष्पैः फलैः पुण्यैः पितृऋन् देवामः च तर्पयन् ॥२६॥

सम्तुष्ट पन्च वर्गो अहम् लोक यात्राम् प्रवर्तये । अकुहः श्रद्दधानः सन् कार्य अकार्य विचक्षणः ॥२७॥

कर्म भूमिम् इमाम् प्राप्य कर्तव्यम् कर्म यत् शुभम् । अग्निर् वायुः च सोमः च कर्मणाम् फल भागिनः ॥२८॥

शतम् क्रतूनाम् आहृत्य देव राट् त्रिदिवम् गतः । तपांस्य् उग्राणि च आस्थाय दिवम् याता महर्षयः ॥२९॥

अमृष्यमाणः पुनरुग्रतेजा । निशम्य तं नास्तिकवाक्यहेतुम् । अथाब्रवीत्तं नृपतेस्तनूजो । विगर्हमाणो वचानानि तस्य ॥३०॥

सत्यं च धर्मं च पराक्रमं च । भूतानुकम्पां प्रियवादिताम् च । द्विजातिदेवातिथिपूजनं च । पन्थानमाहुस्त्रिदिवस्य सन्तः ॥३१॥

तेनैवमाज्ञाय यथावदर्थ । मेकोदयं सम्प्रतिपद्य विप्राः । धर्मं चरन्तः सकलं यथाव । त्काङ्क्षन्ति लोकागममप्रमत्ताः ॥३२॥

निन्दाम्यहं कर्म पितुः कृतं त । द्यस्त्वामगृह्णाद्विषमस्थबुद्धिम् । बुद्ध्यानयैवंविधया चरन्तं । सुनास्तिकं धर्मपथादपेतम् ॥३३॥

यथा हि चोरः स तथा हि बुद्ध । स्तथागतं नास्तिकमत्र विध्हि । तस्माद्धि यः शङ्क्यतमः प्रजानाम् । न नास्ति केनाभिमुखो बुधः स्यात् ॥३४॥

त्वत्तो जनाः पूर्वतरे वराश्च । शुभानि कर्माणि बहूनि चक्रुः । चित्वा सदेमं च परम् च लौकं । तस्माद्द्विजाः स्वस्ति हुतं कृतं च ॥३५॥

धर्मे रताः सत् पुरुषैः समेताः । तेजस्विनो दान गुण प्रधानाः । अहिंसका वीत मलाः च लोके । भवन्ति पूज्या मुनयः प्रधानाः ॥३६॥

इति ब्रुवन्तं वचनं सरोषं । रामं महात्मानमदीनसत्त्वम् । उवाच पथ्यं पुनरास्तिकं च । सत्यं वचः सानुनयं च विप्रः ॥३७॥

न नास्तिकानां वचनम् ब्रवीम्यहं । न नास्तिकोऽहं न च नास्ति किंचन । समीक्ष्य कालं पुनरास्तिकोऽभवं । भवेय काले पुनरेव नास्तिकः ॥३८॥

स चापि कालोऽय मुपागतः शनैः । यथा मया नास्तिकवागुदीरिता । निवर्तनार्थं तव राम कारणात् । प्रसादनार्थं च मयैतदीरितम् ॥३९॥

इत्यार्षे श्रीमाद्रामायणे आदिकाव्ये अयोध्याकाण्डे नवोत्तरशततमः सर्गः ॥

Listen to the sarga
0:00