क्रुद्धम् आज्ञाय राम तु वसिष्ठः प्रत्युवाच ह। जाबालिः अपि जानीते लोकस्य अस्य गत आगतिम् ॥१॥
दशोत्तरशततमः सर्गः 2.110
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
निवर्तयितु कामः तु त्वाम् एतद् वाक्यम् अब्रवीत् । इमाम् लोक समुत्पत्तिम् लोक नाथ निबोध मे ॥२॥
सर्वम् सलिलम् एव आसीत् पृथिवी यत्र निर्मिता । ततः समभवद् ब्रह्मा स्वयम्भूर् दैवतैः सह ॥३॥
स वराहः ततो भूत्वा प्रोज्जहार वसुंधराम् । असृजच् च जगत् सर्वम् सह पुत्रैः कृत आत्मभिः ॥४॥
आकाश प्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः । तस्मान् मरीचिः सम्जज्ने मरीचेः कश्यपः सुतः ॥५॥
विवस्वान् कश्यपाज् जज्ने मनुर् वैवस्तवः स्मृतः । स तु प्रजापतिः पूर्वम् इक्ष्वाकुः तु मनोः सुतः ॥६॥
यस्य इयम् प्रथमम् दत्ता समृद्धा मनुना मही । तम् इक्ष्वाकुम् अयोध्यायाम् राजानम् विद्धि पूर्वकम् ॥७॥
इक्ष्वाकोः तु सुतः श्रीमान् कुक्षिर् एव इति विश्रुतः । कुक्षेर् अथ आत्मजो वीरो विकुक्षिर् उदपद्यत ॥८॥
विकुक्षेः तु महा तेजा बाणः पुत्रः प्रतापवान् । बाणस्य तु महा बाहुर् अनरण्यो महा यशाः ॥९॥
नाना वृष्टिर् बभूव अस्मिन् न दुर्भिक्षम् सताम् वरे । अनरण्ये महा राजे तस्करो वा अपि कश्चन ॥१०॥
अनरण्यान् महा बाहुः पृथू राजा बभूव ह । तस्मात् पृथोर् महा राजः त्रिशन्कुर् उदपद्यत ॥११॥
स सत्य वचनाद् वीरः सशरीरो दिवम् गतः । त्रिशन्कोर् अभवत् सूनुर् धुन्धुमारो महा यशाः ॥१२॥
धुन्धुमारान् महा तेजा युवन अश्वो व्यजायत । युवन अश्व सुतः श्रीमान् मान्धाता समपद्यत ॥१३॥
मान्धातुः तु महा तेजाः सुसंधिर् उदपद्यत । सुसंधेर् अपि पुत्रौ द्वौ ध्रुव संधिः प्रसेनजित् ॥१४॥
यशस्वी ध्रुव संधेः तु भरतो रिपु सूदनः । भरतात् तु महा बाहोर् असितो नाम जायत ॥१५॥
यस्य एते प्रतिराजान उदपद्यन्त शत्रवः । हैहयाः ताल जन्घाः च शूराः च शश बिन्दवः ॥१६॥
तामः तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासितः । स च शैल वरे रम्ये बभूव अभिरतो मुनिः ॥१७॥
द्वे च अस्य भार्ये गर्भिण्यौ बभूवतुर् इति श्रुतिः । एका गर्भविनाशाय सपत्न्यै गरळं ददौ ॥१८॥
भार्गवः च्यवनो नाम हिमवन्तम् उपाश्रितः । तम् ऋषिम् समुपागम्य कालिन्दी तु अभ्यवादयत् ॥१९॥
स ताम् अभ्यवदद् विप्रो वर ईप्सुम् पुत्र जन्मनि । पुत्रस्ते भविता देवि महात्मा लोकविश्रुतः ॥२०॥
धार्मिकश्च सुशीलश्च वंशकर्तारिसूदनः । कृत्वाप्रदक्षिणं हृष्टा मुनिं तमनुमान्य च ॥२१॥
पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम् । ततः सा गृहम् आगम्य देवी पुत्रम् व्यजायत ॥२२॥
सपत्न्या तु गरः तस्यै दत्तो गर्भ जिघांसया । गरेण सह तेन एव जातः स सगरो अभवत् ॥२३॥
स राजा सगरो नाम यः समुद्रम् अखानयत् । इष्ट्वा पर्वणि वेगेन त्रासयन्तम् इमाः प्रजाः ॥२४॥
असमन्जः तु पुत्रो अभूत् सगरस्य इति नः श्रुतम् । जीवन्न् एव स पित्रा तु निरस्तः पाप कर्म कृत् ॥२५॥
अंशुमान् इति पुत्रो अभूद् असमन्जस्य वीर्यवान् । दिलीपो अंशुमतः पुत्रो दिलीपस्य भगीरथः ॥२६॥
भगीरथात् ककुत्स्थः तु काकुत्स्था येन तु स्मृताः । ककुत्स्थस्य तु पुत्रो अभूद् रघुर् येन तु राघवः ॥२७॥
रघोः तु पुत्रः तेजस्वी प्रवृद्धः पुरुष अदकः । कल्माष पादः सौदास इत्य् एवम् प्रथितो भुवि ॥२८॥
कल्माष पाद पुत्रो अभूत् शन्खणः तु इति विश्रुतः । यः तु तद् वीर्यम् आसाद्य सह सेनो व्यनीनशत् ॥२९॥
शन्खणस्य तु पुत्रो अभूत् शूरः श्रीमान् सुदर्शनः । सुदर्शनस्य अग्नि वर्ण अग्नि वर्षस्य शीघ्रगः ॥३०॥
शीघ्रगस्य मरुः पुत्रो मरोः पुत्रः प्रशुश्रुकः । प्रशुश्रुकस्य पुत्रो अभूद् अम्बरीषो महा द्युतिः ॥३१॥
अम्बरीषस्य पुत्रो अभून् नहुषः सत्य विक्रमः । नहुषस्य च नाभागः पुत्रः परम धार्मिकः ॥३२॥
अजः च सुव्रतः चैव नाभागस्य सुताउ उभौ । अजस्य चैव धर्म आत्मा राजा दशरथः सुतः ॥३३॥
तस्य ज्येष्ठो असि दायादो राम इत्य् अभिविश्रुतः । तद् गृहाण स्वकम् राज्यम् अवेक्षस्व जगन् नृप ॥३४॥
इक्ष्वाकूणाम् हि सर्वेषाम् राजा भवति पूर्वजः । पूर्वजेन अवरः पुत्रो ज्येष्ठो राज्ये अभिषिच्यते ॥३५॥
स राघवाणाम् कुल धर्मम् आत्मनः । सनातनम् न अद्य विहातुम् अर्हसि । प्रभूत रत्नाम् अनुशाधि मेदिनीम् । प्रभूत राष्ट्राम् पितृवन् महा यशाः ॥३६॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे दशोत्तरशततमः सर्गः ॥