वसिष्ठः तु तदा रामम् उक्त्वा राज पुरोहितः । अब्रवीद् धर्म सम्युक्तम् पुनर् एव अपरम् वचः ॥१॥
एकादशोत्तरशततमः सर्गः 2.111
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
पुरुषस्य इह जातस्य भवन्ति गुरवः त्रयः । आचार्यः चैव काकुत्स्थ पिता माता च राघव ॥२॥
पिता ह्य् एनम् जनयति पुरुषम् पुरुष ऋषभ । प्रज्नाम् ददाति च आचार्यः तस्मात् स गुरुर् उच्यते ॥३॥
से ते अहम् पितुर् आचार्यः तव चैव परम् तप । मम त्वम् वचनम् कुर्वन् न अतिवर्तेः सताम् गतिम् ॥४॥
इमा हि ते परिषदः श्रेणयः च समागताः । एषु तात चरन् धर्मम् न अतिवर्तेः सताम् गतिम् ॥५॥
वृद्धाया धर्म शीलाया मातुर् न अर्हस्य् अवर्तितुम् । अस्याः तु वचनम् कुर्वन् न अतिवर्तेः सताम् गतिम् ॥६॥
भरतस्य वचः कुर्वन् याचमानस्य राघव । आत्मानम् न अतिवर्तेः त्वम् सत्य धर्म पराक्रम ॥७॥
एवम् मधुरम् उक्तः तु गुरुणा राघवः स्वयम् । प्रत्युवाच समासीनम् वसिष्ठम् पुरुष ऋषभः ॥८॥
यन् मातापितरौ वृत्तम् तनये कुरुतः सदा । न सुप्रतिकरम् तत् तु मात्रा पित्रा च यत् कृतम् ॥९॥
यथा शक्ति प्रदानेन स्नापनाच् चादनेन च । नित्यम् च प्रिय वादेन तथा सम्वर्धनेन च ॥१०॥
स हि राजा जनयिता पिता दशरथो मम । आज्नातम् यन् मया तस्य न तन् मिथ्या भविष्यति ॥११॥
एवम् उक्तः तु रामेण भरतः प्रत्यनन्तरम् । उवाच परम उदारः सूतम् परम दुर्मनाः ॥१२॥
इह मे स्थण्डिले शीघ्रम् कुशान् आस्तर सारथे । आर्यम् प्रत्युपवेक्ष्यामि यावन् मे न प्रसीदति ॥१३॥
अनाहारो निरालोको धन हीनो यथा द्विजः । शेष्ये पुरस्तात् शालाया यावन् न प्रतियास्यति ॥१४॥
स तु रामम् अवेक्षन्तम् सुमन्त्रम् प्रेक्ष्य दुर्मनाः । कुश उत्तरम् उपस्थाप्य भूमाउ एव आस्तरत् स्वयम् ॥१५॥
तम् उवाच महा तेजा रामो राज ऋषि सत्तमाः । किम् माम् भरत कुर्वाणम् तात प्रत्युपवेक्ष्यसि ॥१६॥
ब्राह्मणो ह्य् एक पार्श्वेन नरान् रोद्धुम् इह अर्हति । न तु मूर्धा अवसिक्तानाम् विधिः प्रत्युपवेशने ॥१७॥
उत्तिष्ठ नर शार्दूल हित्वा एतद् दारुणम् व्रतम् । पुर वर्याम् इतः क्षिप्रम् अयोध्याम् याहि राघव ॥१८॥
आसीनः तु एव भरतः पौर जानपदम् जनम् । उवाच सर्वतः प्रेक्ष्य किम् आर्यम् न अनुशासथ ॥१९॥
ते तम् ऊचुर् महात्मानम् पौर जानपदा जनाः । काकुत्स्थम् अभिजानीमः सम्यग् वदति राघवः ॥२०॥
एषो अपि हि महा भागः पितुर् वचसि तिष्ठति । अत एव न शक्ताः स्मो व्यावर्तयितुम् अन्जसा ॥२१॥
तेषाम् आज्नाय वचनम् रामो वचनम् अब्रवीत् । एवम् निबोध वचनम् सुहृदाम् धर्म चक्षुषाम् ॥२२॥
एतच् च एव उभयम् श्रुत्वा सम्यक् सम्पश्य राघव । उत्तिष्ठ त्वम् महा बाहो माम् च स्पृश तथा उदकम् ॥२३॥
अथ उत्थाय जलम् स्पृष्ट्वा भरतो वाक्यम् अब्रवीत् । शृण्वन्तु मे परिषदो मन्त्रिणः श्रेणयः तथा ॥२४॥
न याचे पितरम् राज्यम् न अनुशासामि मातरम् । आर्यम् परम धर्मज्नम् अभिजानामि राघवम् ॥२५॥
यदि तु अवश्यम् वस्तव्यम् कर्तव्यम् च पितुर् वचः । अहम् एव निवत्स्यामि चतुर्दश वने समाः ॥२६॥
धर्म आत्मा तस्य तथ्येन भ्रातुर् वाक्येन विस्मितः । उवाच रामः सम्प्रेक्ष्य पौर जानपदम् जनम् ॥२७॥
विक्रीतम् आहितम् क्रीतम् यत् पित्रा जीवता मम । न तल् लोपयितुम् शक्यम् मया वा भरतेन वा ॥२८॥
उपधिर् न मया कार्यो वन वासे जुगुप्सितः । युक्तम् उक्तम् च कैकेय्या पित्रा मे सुकृतम् कृतम् ॥२९॥
जानामि भरतम् क्षान्तम् गुरु सत्कार कारिणम् । सर्वम् एव अत्र कल्याणम् सत्य संधे महात्मनि ॥३०॥
अनेन धर्म शीलेन वनात् प्रत्यागतः पुनः । भ्रात्रा सह भविष्यामि पृथिव्याः पतिर् उत्तमः ॥३१॥
वृतो राजा हि कैकेय्या मया तद् वचनम् कृतम् । अनृतान् मोचय अनेन पितरम् तम् मही पतिम् ॥३२॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे एकादशोत्तरशततमः सर्गः ॥