रामायणम्

द्वादशोत्तरशततमः सर्गः 2.112

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

तम् अप्रतिम तेजोभ्याम् भ्रातृभ्याम् रोम हर्षणम् । विस्मिताः सम्गमम् प्रेक्ष्य समवेता महर्षयः ॥१॥

अन्तर् हिताः तु ऋषि गणाः सिद्धाः च परम ऋषयः । तौ भ्रातरौ महात्मानौ काकुत्स्थौ प्रशशंसिरे ॥२॥

स धन्यो यस्य पुत्रौ द्वौ धर्मज्नौ धर्म विक्रमौ । श्रुत्वा वयम् हि सम्भाषाम् उभयोः स्पृहयामहे ॥३॥

ततः तु ऋषि गणाः क्षिप्रम् दशग्रीव वध एषिणः । भरतम् राज शार्दूलम् इत्य् ऊचुः सम्गता वचः ॥४॥

कुले जात महा प्राज्न महा वृत्त महा यशः । ग्राह्यम् रामस्य वाक्यम् ते पितरम् यद्य् अवेक्षसे ॥५॥

सदा अनृणम् इमम् रामम् वयम् इग्च्छामहे पितुः । अनृणत्वाच् च कैकेय्याः स्वर्गम् दशरथो गतः ॥६॥

एतावद् उक्त्वा वचनम् गन्धर्वाः समहर्षयः । राज ऋषयः चैव तथा सर्वे स्वाम् स्वाम् गतिम् गताः ॥७॥

ह्लादितः तेन वाक्येन शुभेन शुभ दर्शनः । रामः सम्हृष्ट वदनः तान् ऋषीन् अभ्यपूजयत् ॥८॥

स्रस्त गात्रः तु भरतः स वाचा सज्जमानया । कृत अन्जलिर् इदम् वाक्यम् राघवम् पुनर् अब्रवीत् ॥९॥

राज धर्मम् अनुप्रेक्ष्य कुल धर्म अनुसम्ततिम् । कर्तुम् अर्हसि काकुत्स्थ मम मातुः च याचनाम् ॥१०॥

रक्षितुम् सुमहद् राज्यम् अहम् एकः तु न उत्सहे । पौर जानपदामः च अपि रक्तान् रन्जयितुम् तथा ॥११॥

ज्नातयः च हि योधाः च मित्राणि सुहृदः च नः । त्वाम् एव प्रतिकान्क्षन्ते पर्जन्यम् इव कर्षकाः ॥१२॥

इदम् राज्यम् महा प्राज्न स्थापय प्रतिपद्य हि । शक्तिमान् असि काकुत्स्थ लोकस्य परिपालने ॥१३॥

इत्य् उक्त्वा न्यपतद् भ्रातुः पादयोर् भरतः तदा । भृशम् सम्प्रार्थयाम् आस रामम् एवम् प्रियम् वदः ॥१४॥

तम् अन्के भ्रातरम् कृत्वा रामो वचनम् अब्रवीत् । श्यामम् नलिन पत्र अक्षम् मत्त हंस स्वरः स्वयम् ॥१५॥

आगता त्वाम् इयम् बुद्धिः स्वजा वैनयिकी च या । भृशम् उत्सहसे तात रक्षितुम् पृथिवीम् अपि ॥१६॥

अमात्यैः च सुहृद्भिः च बुद्धिमद्भिः च मन्त्रिभिः । सर्व कार्याणि सम्मन्त्र्य सुमहान्त्य् अपि कारय ॥१७॥

लक्ष्मीः चन्द्राद् अपेयाद् वा हिमवान् वा हिमम् त्यजेत् । अतीयात् सागरो वेलाम् न प्रतिज्नाम् अहम् पितुः ॥१८॥

कामाद् वा तात लोभाद् वा मात्रा तुभ्यम् इदम् कृतम् । न तन् मनसि कर्तव्यम् वर्तितव्यम् च मातृवत् ॥१९॥

एवम् ब्रुवाणम् भरतः कौसल्या सुतम् अब्रवीत् । तेजसा आदित्य सम्काशम् प्रतिपच् चन्द्र दर्शनम् ॥२०॥

अधिरोह आर्य पादाभ्याम् पादुके हेम भूषिते । एते हि सर्व लोकस्य योग क्षेमम् विधास्यतः ॥२१॥

सो अधिरुह्य नर व्याघ्रः पादुके ह्य् अवरुह्य च । प्रायग्च्छत् सुमहा तेजा भरताय महात्मने ॥२२॥

स पादुके सम्प्रणम्य रामं वचनम्ब्रवीत् । चतुर्दश हि वर्षाणि जटाचीरधरो ह्यहम् ॥२३॥

फलमूलाशनो वीर भवेयम् रघुनंदन । तवागमनमाकाङ्क्षन् वसन्वै नगराद्बहिः ॥२४॥

तव पादुकयोर्न्यस्तराज्यतन्त्रः परंतप । चतुर्दशे तु सम्पूर्णे वर्षेऽहानि रघूत्तम ॥२५॥

न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् । तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम् ॥२६॥

शत्रुघ्नम् च परिष्वज्य भरतं चेदमब्रवीत् । मातरम् रक्ष कैकेयीम् मा रोषम् कुरु तां प्रति ॥२७॥

मया च सीतया चैव शप्तो.सि रघुसत्तम । इत्युक्त्वाश्रुपरीताक्षो भ्रातरं विससर्ज ह ॥२८॥

स पादुके ते भरतः प्रतापवान् । स्वलम्कृते सम्परिगृह्य धर्मवित् । प्रदक्षिणम् चैव चकार राघवम् । चकार चैव उत्तम नाग मूर्धनि ॥२९॥

अथ आनुपूर्व्यात् प्रतिपूज्य तम् जनम् । गुरूमः च मन्त्रि प्रकृतीः तथा अनुजौ । व्यसर्जयद् राघव वंश वर्धनः । स्थितः स्व धर्मे हिमवान् इव अचलः ॥३०॥

तम् मातरो बाष्प गृहीत कण्ठो । दुह्खेन न आमन्त्रयितुम् हि शेकुः । स तु एव मातृऋर् अभिवाद्य सर्वा । रुदन् कुटीम् स्वाम् प्रविवेश रामः ॥३१॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे द्वादशोत्तरशततमः सर्गः ॥

Listen to the sarga
0:00