ततः शिरसि कृत्वा तु पादुके भरतः तदा । आरुरोह रथम् हृष्टः शत्रुघ्नेन समन्वितः ॥१॥
त्रयोदशोत्तरशततमः सर्गः 2.113
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
वसिष्ठो वामदेवः च जाबालिः च दृढ व्रतः । अग्रतः प्रययुः सर्वे मन्त्रिणो मन्त्र पूजिताः ॥२॥
मन्दाकिनीम् नदीम् रम्याम् प्रान् मुखाः ते ययुः तदा । प्रदक्षिणम् च कुर्वाणाः चित्र कूटम् महा गिरिम् ॥३॥
पश्यन् धातु सहस्राणि रम्याणि विविधानि च । प्रययौ तस्य पार्श्वेन ससैन्यो भरतः तदा ॥४॥
अदूराच् चित्र कूटस्य ददर्श भरतः तदा । आश्रमम् यत्र स मुनिर् भरद्वाजः कृत आलयः ॥५॥
स तम् आश्रमम् आगम्य भरद्वाजस्य बुद्धिमान् । अवतीर्य रथात् पादौ ववन्दे कुल नन्दनः ॥६॥
ततो हृष्टो भरद्वाजो भरतम् वाक्यम् अब्रवीत् । अपि कृत्यम् कृतम् तात रामेण च समागतम् ॥७॥
एवम् उक्तः तु भरतो भरद्वाजेन धीमता । प्रत्युवाच भरद्वाजम् भरतो धर्म वत्सलः ॥८॥
स याच्यमानो गुरुणा मया च दृढ विक्रमः । राघवः परम प्रीतो वसिष्ठम् वाक्यम् अब्रवीत् ॥९॥
पितुः प्रतिज्नाम् ताम् एव पालयिष्यामि तत्त्वतः । चतुर्दश हि वर्षाणि य प्रतिज्ना पितुर् मम ॥१०॥
एवम् उक्तो महा प्राज्नो वसिष्ठः प्रत्युवाच ह । वाक्यज्नो वाक्य कुशलम् राघवम् वचनम् महत् ॥११॥
एते प्रयग्च्छ सम्हृष्टः पादुके हेम भूषिते । अयोध्यायाम् महा प्राज्न योग क्षेम करे तव ॥१२॥
एवम् उक्तो वसिष्ठेन राघवः प्रान् मुखः स्थितः । पादुके हेम विकृते मम राज्याय ते ददौ ॥१३॥
निवृत्तो अहम् अनुज्नातो रामेण सुमहात्मना । अयोध्याम् एव गग्च्छामि गृहीत्वा पादुके शुभे ॥१४॥
एतत् श्रुत्वा शुभम् वाक्यम् भरतस्य महात्मनः । भरद्वाजः शुभतरम् मुनिर् वाक्यम् उदाहरत् ॥१५॥
न एतच् चित्रम् नर व्याघ्र शील वृत्तवताम् वर । यद् आर्यम् त्वयि तिष्ठेत् तु निम्ने वृष्टिम् इव उदकम् ॥१६॥
अमृतः स महा बाहुः पिता दशरथः तव । यस्य त्वम् ईदृशः पुत्रो धर्म आत्मा धर्म वत्सलः ॥१७॥
तम् ऋषिम् तु महात्मानम् उक्त वाक्यम् कृत अन्जलिः । आमन्त्रयितुम् आरेभे चरणाउ उपगृह्य च ॥१८॥
ततः प्रदक्षिणम् कृत्वा भरद्वाजम् पुनः पुनः । भरतः तु ययौ श्रीमान् अयोध्याम् सह मन्त्रिभिः ॥१९॥
यानैः च शकटैः चैव हयैः नागैः च सा चमूः । पुनर् निवृत्ता विस्तीर्णा भरतस्य अनुयायिनी ॥२०॥
ततः ते यमुनाम् दिव्याम् नदीम् तीर्त्वा ऊर्मि मालिनीम् । ददृशुः ताम् पुनः सर्वे गन्गाम् शिव जलाम् नदीम् ॥२१॥
ताम् रम्य जल सम्पूर्णाम् सम्तीर्य सह बान्धवः । शृन्ग वेर पुरम् रम्यम् प्रविवेश ससैनिकः ॥२२॥
शृन्ग वेर पुराद् भूय अयोध्याम् संददर्श ह । अयोध्याम् च ततो दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम् । भरतो दुह्ख सम्तप्तः सारथिम् च इदम् अब्रवीत् ॥२३॥
सारथे पश्य विध्वस्ता अयोध्या न प्रकाशते । निराकारा निरानन्दा दीना प्रतिहत स्वना ॥२४॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे त्रयोदशोत्तरशततमः सर्गः ॥