रामायणम्

चतुर्दशोत्तरशततमः सर्गः 2.114

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

स्निग्ध गम्भीर घोषेण स्यन्दनेन उपयान् प्रभुः । अयोध्याम् भरतः क्षिप्रम् प्रविवेश महा यशाः ॥१॥

बिडाल उलूक चरिताम् आलीन नर वारणाम् । तिमिर अभ्याहताम् कालीम् अप्रकाशाम् निशाम् इव ॥२॥

राहु शत्रोः प्रियाम् पत्नीम् श्रिया प्रज्वलित प्रभाम् । ग्रहेण अभ्युत्थितेन एकाम् रोहिणीम् इव पीडिताम् ॥३॥

अल्प उष्ण क्षुब्ध सलिलाम् घर्म उत्तप्त विहम्गमाम् । लीन मीन झष ग्राहाम् कृशाम् गिरि नदीम् इव ॥४॥

विधूमाम् इव हेम आभाम् अध्वर अग्नि समुत्थिताम् । हविर् अभ्युक्षिताम् पश्चात् शिखाम् विप्रलयम् गताम् ॥५॥

विध्वस्त कवचाम् रुग्ण गज वाजि रथ ध्वजाम् । हत प्रवीराम् आपन्नाम् चमूम् इव महा आहवे ॥६॥

सफेनाम् सस्वनाम् भूत्वा सागरस्य समुत्थिताम् । प्रशान्त मारुत उद्धूताम् जल ऊर्मिम् इव निह्स्वनाम् ॥७॥

त्यक्ताम् यज्न आयुधैः सर्वैर् अभिरूपैः च याजकैः । सुत्या काले विनिर्वृत्ते वेदिम् गत रवाम् इव ॥८॥

गोष्ठ मध्ये स्थिताम् आर्ताम् अचरन्तीम् नवम् तृणम् । गो वृषेण परित्यक्ताम् गवाम् पत्नीम् इव उत्सुकाम् ॥९॥

प्रभा करालैः सुस्निग्धैः प्रज्वलद्भिर् इव उत्तमैः । वियुक्ताम् मणिभिर् जात्यैर् नवाम् मुक्ता आवलीम् इव ॥१०॥

सहसा चलिताम् स्थानान् महीम् पुण्य क्षयाद् गताम् । सम्हृत द्युति विस्ताराम् ताराम् इव दिवः च्युताम् ॥११॥

पुष्प नद्धाम् वसन्त अन्ते मत्त भ्रमर शालिनीम् । द्रुत दाव अग्नि विप्लुष्टाम् क्लान्ताम् वन लताम् इव ॥१२॥

सम्मूढ निगमाम् सर्वाम् सम्क्षिप्त विपण आपणाम् । प्रग्च्छन्न शशि नक्षत्राम् द्याम् इव अम्बु धरैर् वृताम् ॥१३॥

क्षीण पान उत्तमैर् भिन्नैः शरावैर् अभिसम्वृताम् । हत शौण्डाम् इव आकाशे पान भूमिम् असंस्कृताम् ॥१४॥

वृक्ण भूमि तलाम् निम्नाम् वृक्ण पात्रैः समावृताम् । उपयुक्त उदकाम् भग्नाम् प्रपाम् निपतिताम् इव ॥१५॥

विपुलाम् वितताम् चैव युक्त पाशाम् तरस्विनाम् । भूमौ बाणैर् विनिष्कृत्ताम् पतिताम् ज्याम् इव आयुधात् ॥१६॥

सहसा युद्ध शौण्डेन हय आरोहेण वाहिताम् । निहताम् प्रतिसैन्येन वडवामिव पातिताम् ॥१७॥

भरतस्तु रथस्थः सन् श्रीमान् दशरथात्मजः । वाहयन्तं रथश्रेष्ठं सारथिम् वाक्यमब्रवीत् ॥१८॥

किम् नु खल्वद्य गम्बीरो मूर्चितो न निशम्यते । यथापुरमयोध्यायाम् गीतवादित्रनिस्वनः ॥१९॥

वारुणीमदगन्धश्च माल्यगन्धश्च मूर्चितः । धूपितागरुगन्धश्च न प्रवाति समन्ततः ॥२०॥

यानप्र वरघोषश्च स्निग्धश्च हयनिस्वनः । प्रमत्तगजनादश्च महांश्च रथनिस्वनः ॥२१॥

नेदानीम् श्रूयते पुर्यामस्याम् रामे विवासिते ॥२२॥

चन्दनागारुगन्धांश्च महार्हश्च नवस्रजः ॥२३॥

गते हि रामे तरुणाः संतप्ता नोपभुञ्जते । बहिर्यात्रां न गच्छन्ति चित्रमाअल्यधरा नराः ॥२४॥

नोत्सवाः सम्प्रवर्तन्ते रामशोकार्दिते पुरे । सह नूनम् मम भ्रात्रा पुरस्यास्य द्युतिर्गता ॥२५॥

न हि राजत्ययोध्येयं सासारेवार्जुनी क्षपा । कदा नु खलु मे भ्राता महोत्सव इवागतः ॥२६॥

जनयिष्यत्ययोध्यायां हर्षम् ग्रीष्म इवाम्बुदः । तरुणैः चारु वेषैः च नरैर् उन्नत गामिभिः । सम्पतद्भिर् अयोध्यायाम् न विभान्ति महा पथाः ॥२७॥

एवम् बहु विधम् जल्पन् विवेश वसतिम् पितुः । तेन हीनाम् नर इन्द्रेण सिम्ह हीनाम् गुहाम् इव ॥२८॥

तदा तदन्तःपुरमुज्घितप्रभम् । सुरैरिवोत्सृष्टमभास्करम् दिनम् । निरीक्ष्य सर्वम् तु विविक्तमात्मवान् । मुमोच बाष्पं भरतः सुदुःखितः ॥२९॥

इत्यार्षे श्रीमाद्रामायणे आदिकाव्ये अयोध्याकाण्डे चतुर्दशोत्तरशततमः सर्गः ॥

Listen to the sarga
0:00