रामायणम्

पंचदशोत्तरशततमः सर्गः 2.115

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

ततो निक्षिप्य मातृऋः स अयोध्यायाम् दृढ व्रतः । भरतः शोक सम्तप्तो गुरून् इदम् अथ अब्रवीत् ॥१॥

नन्दि ग्रामम् गमिष्यामि सर्वान् आमन्त्रये अद्य वः । तत्र दुह्खम् इदम् सर्वम् सहिष्ये राघवम् विना ॥२॥

गतः च हि दिवम् राजा वनस्थः च गुरुर् मम । रामम् प्रतीक्षे राज्याय स हि राजा महा यशाः ॥३॥

एतत् श्रुत्वा शुभम् वाक्यम् भरतस्य महात्मनः । अब्रुवन् मन्त्रिणः सर्वे वसिष्ठः च पुरोहितः ॥४॥

सदृशम् श्लाघनीयम् च यद् उक्तम् भरत त्वया । वचनम् भ्रातृ वात्सल्याद् अनुरूपम् तव एव तत् ॥५॥

नित्यम् ते बन्धु लुब्धस्य तिष्ठतो भ्रातृ सौहृदे । आर्य मार्गम् प्रपन्नस्य न अनुमन्येत कः पुमान् ॥६॥

मन्त्रिणाम् वचनम् श्रुत्वा यथा अभिलषितम् प्रियम् । अब्रवीत् सारथिम् वाक्यम् रथो मे युज्यताम् इति ॥७॥

प्रहृष्ट वदनः सर्वा मातृऋः समभिवाद्य सः । आरुरोह रथम् श्रीमान् शत्रुघ्नेन समन्वितः ॥८॥

आरुह्य तु रथम् शीघ्रम् शत्रुघ्न भरताउ उभौ । ययतुः परम प्रीतौ वृतौ मन्त्रि पुरोहितैः ॥९॥

अग्रतो पुरवः तत्र वसिष्ठ प्रमुखा द्विजाः । प्रययुः प्रान् मुखाः सर्वे नन्दि ग्रामो यतो अभवत् ॥१०॥

बलम् च तद् अनाहूतम् गज अश्व रथ सम्कुलम् । प्रययौ भरते याते सर्वे च पुर वासिनः ॥११॥

रथस्थः स तु धर्म आत्मा भरतो भ्रातृ वत्सलः । नन्दि ग्रामम् ययौ तूर्णम् शिरस्य् आधाय पादुके ॥१२॥

ततः तु भरतः क्षिप्रम् नन्दि ग्रामम् प्रविश्य सः । अवतीर्य रथात् तूर्णम् गुरून् इदम् उवाच ह ॥१३॥

एतद् राज्यम् मम भ्रात्रा दत्तम् सम्न्यासवत् स्वयम् । योग क्षेम वहे च इमे पादुके हेम भूषिते ॥१४॥

भरतः शिरसा कृत्वा सन्न्यासम् पादुके ततः । अब्रवीद्दुःखसम्तप्तः सर्वं प्रकृतिमण्डलम् ॥१५॥

चत्रम् धारयत क्षिप्रमार्यपादाविमौ मतौ । अभ्याम् राज्ये स्थितो धर्मः पादुकाभ्याम् गुरोर्मम ॥१६॥

भ्रात्रा हि मयि सम्न्यासो निक्षिप्तः सौहृदादयम् । तमिमम् पालयिष्यामि राघवागमनम् प्रति ॥१७॥

क्षिप्रम् सम्योजयित्वा तु राघवस्य पुनः स्वयम् । चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ ॥१८॥

ततो निक्षिप्तभारोऽहम् राघवेण समागतः । निवेद्य गुरवे राज्यम् भजिष्ये गुरुवृत्तिताम् ॥१९॥

ताघवाय च सम्न्यासम् दत्त्वेमे वरपादुके । राज्यम् चेदमयोध्याम् च धूतपापोभवामि च ॥२०॥

अभिषिक्ते तु काकुत्थ्से प्रहृष्टमुदिते जने । प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम् ॥२१॥

एवम् तु विलपन्धीनो भरतः स महायशाः । नन्दिग्रामेऽकरोद्राज्यम् दुःखितो मन्त्रिभिस्सह ॥२२॥

स वल्कलजटाधारी मुनिवेषधरः प्रभुः । नन्दिग्रामेऽवसद्वीरः ससैन्यो भरतस्तदा ॥२३॥

रामागमनमाकाङ्क्षन् भरतो भ्रातृवत्सलः । भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तदा ॥२४॥

पादुके त्वभिषिच्याथ नन्दिग्रामेऽवसत्तथा । स वालव्यजनम् चत्रम् धारयामास स स्वयम् ॥२५॥

भरतः शासनम् सर्वम् पादुकाभ्याम् निवेदयन् । ततस्तु भरतः श्रीमानभिषिच्यार्यपादुके ॥२६॥

तदधीनस्तदा राज्यम् कारयामास सर्वदा । तदा हि यत्कार्यमुपैति किंचि । दुपायनम् चोपहृतम् महार्हम् । स पादुकाभ्याम् प्रथमम् निवेद्य । चकार पश्चाद्भरतो यथावत् ॥२७॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे पंचदशोत्तरशततमः सर्गः ॥

Listen to the sarga
0:00