प्रतिप्रयाते भरते वसन् रामः तपो वने । लक्षयाम् आस स उद्वेगम् अथ औत्सुक्यम् तपस्विनाम् ॥१॥
षोडशोत्तरशततमः सर्गः 2.116
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
ये तत्र चित्र कूटस्य पुरस्तात् तापस आश्रमे । रामम् आश्रित्य निरताः तान् अलक्षयद् उत्सुकान् ॥२॥
नयनैर् भृकुटीभिः च रामम् निर्दिश्य शन्किताः । अन्योन्यम् उपजल्पन्तः शनैः चक्रुर् मिथः कथाः ॥३॥
तेषाम् औत्सुक्यम् आलक्ष्य रामः तु आत्मनि शन्कितः । कृत अन्जलिर् उवाच इदम् ऋषिम् कुल पतिम् ततः ॥४॥
न कच्चिद् भगवन् किंचित् पूर्व वृत्तम् इदम् मयि । दृश्यते विकृतम् येन विक्रियन्ते तपस्विनः ॥५॥
प्रमादाच् चरितम् कच्चित् किंचिन् न अवरजस्य मे । लक्ष्मणस्य ऋषिभिर् दृष्टम् न अनुरूपम् इव आत्मनः ॥६॥
कच्चित् शुश्रूषमाणा वः शुश्रूषण परा मयि । प्रमदा अभ्युचिताम् वृत्तिम् सीता युक्तम् न वर्तते ॥७॥
अथ ऋषिर् जरया वृद्धः तपसा च जराम् गतः । वेपमान इव उवाच रामम् भूत दया परम् ॥८॥
कुतः कल्याण सत्त्वायाः कल्याण अभिरतेः तथा । चलनम् तात वैदेह्याः तपस्विषु विशेषतः ॥९॥
त्वन् निमित्तम् इदम् तावत् तापसान् प्रति वर्तते । रक्षोभ्यः तेन सम्विग्नाः कथयन्ति मिथः कथाः ॥१०॥
रावण अवरजः कश्चित् खरो नाम इह राक्षसः । उत्पाट्य तापसान् सर्वान् जन स्थान निकेतनान् ॥११॥
धृष्टः च जित काशी च नृशंसः पुरुष अदकः । अवलिप्तः च पापः च त्वाम् च तात न मृष्यते ॥१२॥
त्वम् यदा प्रभृति ह्य् अस्मिन्न् आश्रमे तात वर्तसे । तदा प्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ॥१३॥
दर्शयन्ति हि बीभत्सैः क्रूरैर् भीषणकैर् अपि । नाना रूपैर् विरूपैः च रूपैर् असुख दर्शनैः ॥१४॥
अप्रशस्तैर् अशुचिभिः सम्प्रयोज्य च तापसान् । प्रतिघ्नन्त्य् अपरान् क्षिप्रम् अनार्याः पुरतः स्थितः ॥१५॥
तेषु तेषु आश्रमस्थानेषु अबुद्धम् अवलीय च । रमन्ते तापसामः तत्र नाशयन्तो अल्प चेतसः ॥१६॥
अपक्षिपन्ति स्रुग् भाण्डान् अग्नीन् सिन्चन्ति वारिणा । कलशामः च प्रमृद्नन्ति हवने समुपस्थिते ॥१७॥
तैर् दुरात्मभिर् आविष्टान् आश्रमान् प्रजिहासवः । गमनाय अन्य देशस्य चोदयन्त्य् ऋषयो अद्य माम् ॥१८॥
तत् पुरा राम शारीराम् उपहिंसाम् तपस्विषु । दर्शयति हि दुष्टाः ते त्यक्ष्याम इमम् आश्रमम् ॥१९॥
बहु मूल फलम् चित्रम् अविदूराद् इतो वनम् । पुराण आश्रमम् एव अहम् श्रयिष्ये सगणः पुनः ॥२०॥
खरः त्वय्य् अपि च अयुक्तम् पुरा तात प्रवर्तते । सह अस्माभिर् इतो गग्च्छ यदि बुद्धिः प्रवर्तते ॥२१॥
सकलत्रस्य संदेहो नित्यम् यत् तस्य राघव । समर्थस्य अपि हि सतो वासो दुह्ख इह अद्य ते ॥२२॥
इत्य् उक्तवन्तम् रामः तम् राज पुत्रः तपस्विनम् । न शशाक उत्तरैर् वाक्यैर् अवरोद्धुम् समुत्सुकम् ॥२३॥
अभिनन्द्य समापृग्च्छ्य समाधाय च राघवम् । स जगाम आश्रमम् त्यक्त्वा कुलैः कुल पतिः सह ॥२४॥
रामः संसाध्य तु ऋषि गणम् अनुगमना । देशात् तस्माच्चित् कुल पतिम् अभिवाद्य ऋषिम् । सम्यक् प्रीतैः तैर् अनुमत उपदिष्ट अर्थः । पुण्यम् वासाय स्व निलयम् उपसम्पेदे ॥२५॥
आश्रमम् तु ऋषि विरहितम् प्रभुः । क्षणम् अपि न जहौ स राघवः । राघवम् हि सततम् अनुगताः । स्तापसाः च ऋषि चरित धृत गुणाः ॥२६॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे षोडशोत्तरशततमः सर्गः ॥