राघवः तु अपयातेषु तपस्विषु विचिन्तयन् । न तत्र अरोचयद् वासम् कारणैर् बहुभिः तदा ॥१॥
सप्तदशोत्तरशततमः सर्गः 2.117
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
इह मे भरतो दृष्टो मातरः च सनागराः । सा च मे स्मृतिर् अन्वेति तान् नित्यम् अनुशोचतः ॥२॥
स्कन्ध आवार निवेशेन तेन तस्य महात्मनः । हय हस्ति करीषैः च उपमर्दः कृतो भृशम् ॥३॥
तस्माद् अन्यत्र गग्च्छाम इति संचिन्त्य राघवः । प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सम्गतः ॥४॥
सो अत्रेर् आश्रमम् आसाद्य तम् ववन्दे महा यशाः । तम् च अपि भगवान् अत्रिः पुत्रवत् प्रत्यपद्यत ॥५॥
स्वयम् आतिथ्यम् आदिश्य सर्वम् अस्य सुसत्कृतम् । सौमित्रिम् च महा भागाम् सीताम् च समसान्त्वयत् ॥६॥
पत्नीम् च तम् अनुप्राप्ताम् वृद्धाम् आमन्त्र्य सत्कृताम् । सान्त्वयाम् आस धर्मज्नः सर्व भूत हिते रतः ॥७॥
अनसूयाम् महा भागाम् तापसीम् धर्म चारिणीम् । प्रतिगृह्णीष्व वैदेहीम् अब्रवीद् ऋषि सत्तमः ॥८॥
रामाय च आचचक्षे ताम् तापसीम् धर्म चारिणीम् । दश वर्षाण्य् अनावृष्ट्या दग्धे लोके निरन्तरम् ॥९॥
यया मूल फले सृष्टे जाह्नवी च प्रवर्तिता । उग्रेण तपसा युक्ता नियमैः च अप्य् अलम्कृता ॥१०॥
दश वर्ष सहस्राणि यया तप्तम् महत् तपः । अनसूया व्रतैः तात प्रत्यूहाः च निबर्हिताः ॥११॥
देव कार्य निमित्तम् च यया सम्त्वरमाणया । दश रात्रम् कृत्वा रात्रिः सा इयम् माता इव ते अनघ ॥१२॥
ताम् इमाम् सर्व भूतानाम् नमः कार्याम् यशस्विनीम् । अभिगग्च्छतु वैदेही वृद्धाम् अक्रोधनाम् सदा ॥१३॥
एवम् ब्रुवाणम् तम् ऋषिम् तथा इत्य् उक्त्वा स राघवः । सीताम् उवाच धर्मज्नाम् इदम् वचनम् उत्तमम् ॥१४॥
राज पुत्रि श्रुतम् तु एतन् मुनेर् अस्य समीरितम् । श्रेयो अर्थम् आत्मनः शीघ्रम् अभिगग्च्छ तपस्विनीम् ॥१५॥
सीता तु एतद् वचः श्रुत्वा राघवस्य हित एषिणी । ताम् अत्रि पत्नीम् धर्मज्नाम् अभिचक्राम मैथिली ॥१६॥
शिथिलाम् वलिताम् वृद्धाम् जरा पाण्डुर मूर्धजाम् । सततम् वेपमान अन्गीम् प्रवाते कदली यथा ॥१७॥
ताम् तु सीता महा भागाम् अनसूयाम् पति व्रताम् । अभ्यवादयद् अव्यग्रा स्वम् नाम समुदाहरत् ॥१८॥
अभिवाद्य च वैदेही तापसीम् ताम् अनिन्दिताम् । बद्ध अन्जलि पुटा हृष्टा पर्यपृग्च्छद् अनामयम् ॥१९॥
ततः सीताम् महा भागाम् दृष्ट्वा ताम् धर्म चारिणीम् । सान्त्वयन्त्य् अब्रवीद्द् हृष्टा दिष्ट्या धर्मम् अवेक्षसे ॥२०॥
त्यक्त्वा ज्नाति जनम् सीते मानम् ऋद्धिम् च मानिनि । अवरुद्धम् वने रामम् दिष्ट्या त्वम् अनुगग्च्छसि ॥२१॥
नगरस्थो वनस्थो वा पापो वा यदि वा अशुभः । यासाम् स्त्रीणाम् प्रियो भर्ता तासाम् लोका महा उदयाः ॥२२॥
दुह्शीलः काम वृत्तो वा धनैर् वा परिवर्जितः । स्त्रीणाम् आर्य स्वभावानाम् परमम् दैवतम् पतिः ॥२३॥
न अतो विशिष्टम् पश्यामि बान्धवम् विमृशन्त्य् अहम् । सर्वत्र योग्यम् वैदेहि तपः कृतम् इव अव्ययम् ॥२४॥
न तु एवम् अवगग्च्छन्ति गुण दोषम् असत् स्त्रियः । काम वक्तव्य हृदया भर्तृ नाथाः चरन्ति याः ॥२५॥
प्राप्नुवन्त्य् अयशः चैव धर्म भ्रंशम् च मैथिलि । अकार्य वशम् आपन्नाः स्त्रियो याः खलु तद् विधाः ॥२६॥
त्वद् विधाः तु गुणैर् युक्ता दृष्ट लोक पर अवराः । स्त्रियः स्वर्गे चरिष्यन्ति यथा पुण्य कृतः तथा ॥२७॥
तदेवमेनम् त्वमनुच्रता सती । पतिव्रतानाम् समयानुवर्तिनी । भव स्वभर्तुः सहधर्मचारिणी । यश्श्च धर्मम् च ततः समाप्स्यसि ॥२८॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे सप्तदशोत्तरशततमः सर्गः ॥