सा तु एवम् उक्ता वैदेही अनसूयान् असूयया । प्रतिपूज्य वचो मन्दम् प्रवक्तुम् उपचक्रमे ॥१॥
अष्टादशोत्तरशततमः सर्गः 2.118
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
न एतद् आश्चर्यम् आर्याया यन् माम् त्वम् अनुभाषसे । विदितम् तु मम अप्य् एतद् यथा नार्याः पतिर् गुरुः ॥२॥
यद्य् अप्य् एष भवेद् भर्ता मम आर्ये वृत्त वर्जितः । अद्वैधम् उपवर्तव्यः तथा अप्य् एष मया भवेत् ॥३॥
किम् पुनर् यो गुण श्लाघ्यः सानुक्रोशो जित इन्द्रियः । स्थिर अनुरागो धर्म आत्मा मातृ वर्ती पितृ प्रियः ॥४॥
याम् वृत्तिम् वर्तते रामः कौसल्यायाम् महा बलः । ताम् एव नृप नारीणाम् अन्यासाम् अपि वर्तते ॥५॥
सकृद् दृष्टासु अपि स्त्रीषु नृपेण नृप वत्सलः । मातृवद् वर्तते वीरो मानम् उत्सृज्य धर्मवित् ॥६॥
आगग्च्छन्त्याः च विजनम् वनम् एवम् भय आवहम् । समाहितम् हि मे श्वश्र्वा हृदये यत् स्थितम् महत् ॥७॥
प्राणि प्रदान काले च यत् पुरा तु अग्नि सम्निधौ । अनुशिष्टा जनन्या अस्मि वाक्यम् तद् अपि मे धृतम् ॥८॥
नवी कृतम् तु तत् सर्वम् वाक्यैः ते धर्म चारिणि । पति शुश्रूषणान् नार्याः तपो न अन्यद् विधीयते ॥९॥
सावित्री पति शुश्रूषाम् कृत्वा स्वर्गे महीयते || तथा वृत्तिः च याता त्वम् पति शुश्रूषया दिवम् ॥१०॥
वरिष्ठा सर्व नारीणाम् एषा च दिवि देवता । रोहिणी च विना चन्द्रम् मुहूर्तम् अपि दृश्यते ॥११॥
एवम् विधाः च प्रवराः स्त्रियो भर्तृ दृढ व्रताः । देव लोके महीयन्ते पुण्येन स्वेन कर्मणा ॥१२॥
ततो अनसूया सम्हृष्टा श्रुत्वा उक्तम् सीतया वचः । शिरस्य् आघ्राय च उवाच मैथिलीम् हर्षयन्त्य् उत ॥१३॥
नियमैर् विविधैर् आप्तम् तपो हि महद् अस्ति मे । तत् संश्रित्य बलम् सीते चन्दये त्वाम् शुचि व्रते ॥१४॥
उपपन्नम् च युक्तम् च वचनम् तव मैथिलि । प्रीता च अस्म्य् उचितम् किम् ते करवाणि ब्रवीह्यहम् ॥१५॥
तस्यास्तद्वचनम् श्रुत्वा विस्मिता मन्दविस्मया । कृतम् इत्य् अब्रवीत् सीता तपो बल समन्विताम् ॥१६॥
सा तु एवम् उक्ता धर्मज्ना तया प्रीततरा अभवत् । सफलम् च प्रहर्षम् ते हन्त सीते करोम्यहम् ॥१७॥
इदम् दिव्यम् वरम् माल्यम् वस्त्रम् आभरणानि च । अन्ग रागम् च वैदेहि महा अर्हम् अनुलेपनम् ॥१८॥
मया दत्तम् इदम् सीते तव गात्राणि शोभयेत् । अनुरूपम् असम्क्लिष्टम् नित्यम् एव भविष्यति ॥१९॥
अन्ग रागेण दिव्येन लिप्त अन्गी जनक आत्मजे । शोभयिष्यामि भर्तारम् यथा श्रीर् विष्णुम् अव्ययम् ॥२०॥
सा वस्त्रम् अन्ग रागम् च भूषणानि स्रजः तथा । मैथिली प्रतिजग्राह प्रीति दानम् अनुत्तमम् ॥२१॥
प्रतिगृह्य च तत् सीता प्रीति दानम् यशस्विनी । श्लिष्ट अन्जलि पुटा धीरा समुपास्त तपो धनाम् ॥२२॥
तथा सीताम् उपासीनाम् अनसूया दृढ व्रता । वचनम् प्रष्टुम् आरेभे कांचिद् त्प्रियाम् कथामनु ॥२३॥
स्वयम् वरे किल प्राप्ता त्वम् अनेन यशस्विना । राघवेण इति मे सीते कथा श्रुतिम् उपागता ॥२४॥
ताम् कथाम् श्रोतुम् इग्च्छामि विस्तरेण च मैथिलि । यथा अनुभूतम् कार्त्स्न्येन तन् मे त्वम् वक्तुम् अर्हसि ॥२५॥
एवम् उक्ता तु सा सीता ताम् ततो धर्म चारिणीम् । श्रूयताम् इति च उक्त्वा वै कथयाम् आस ताम् कथाम् ॥२६॥
मिथिला अधिपतिर् वीरो जनको नाम धर्मवित् । क्षत्र धर्मण्य् अभिरतो न्यायतः शास्ति मेदिनीम् ॥२७॥
तस्य लान्गल हस्तस्य कर्षतः क्षेत्र मण्डलम् । अहम् किल उत्थिता भित्त्वा जगतीम् नृपतेः सुता ॥२८॥
स माम् दृष्ट्वा नर पतिर् मुष्टि विक्षेप तत् परः । पांशु गुण्ठित सर्व अन्गीम् विस्मितो जनको अभवत् ॥२९॥
अनपत्येन च स्नेहाद् अन्कम् आरोप्य च स्वयम् । मम इयम् तनया इत्य् उक्त्वा स्नेहो मयि निपातितः ॥३०॥
अन्तरिक्षे च वाग् उक्ता अप्रतिमा मानुषी किल । एवम् एतन् नर पते धर्मेण तनया तव ॥३१॥
ततः प्रहृष्टो धर्म आत्मा पिता मे मिथिला अधिपः । अवाप्तो विपुलाम् ऋद्धिम् माम् अवाप्य नर अधिपः ॥३२॥
दत्त्वा च अस्मि इष्टवद् देव्यै ज्येष्ठायै पुण्य कर्मणा । तया सम्भाविता च अस्मि स्निग्धया मातृ सौहृदात् ॥३३॥
पति सम्योग सुलभम् वयो दृष्ट्वा तु मे पिता । चिन्ताम् अभ्यगमद् दीनो वित्त नाशाद् इव अधनः ॥३४॥
सदृशाच् च अपकृष्टाच् च लोके कन्या पिता जनात् । प्रधर्षणाम् अवाप्नोति शक्रेण अपि समो भुवि ॥३५॥
ताम् धर्षणाम् अदूरस्थाम् संदृश्य आत्मनि पार्थिवः । चिन्न्ता अर्णव गतः पारम् न आससाद अप्लवो यथ ॥३६॥
अयोनिजाम् हि माम् ज्नात्वा न अध्यगग्च्छत् स चिन्तयन् । सदृशम् च अनुरूपम् च मही पालः पतिम् मम ॥३७॥
तस्य बुद्धिर् इयम् जाता चिन्तयानस्य सम्ततम् । स्वयम् वरम् तनूजायाः करिष्यामि इति धीमतः ॥३८॥
महा यज्ने तदा तस्य वरुणेन महात्मना । दत्तम् धनुर् वरम् प्रीत्या तूणी च अक्षय्य सायकौ ॥३९॥
असंचाल्यम् मनुष्यैः च यत्नेन अपि च गौरवात् । तन् न शक्ता नमयितुम् स्वप्नेषु अपि नर अधिपाः ॥४०॥
तद् धनुः प्राप्य मे पित्रा व्याहृतम् सत्य वादिना । समवाये नर इन्द्राणाम् पूर्वम् आमन्त्र्य पार्थिवान् ॥४१॥
इदम् च धनुर् उद्यम्य सज्यम् यः कुरुते नरः । तस्य मे दुहिता भार्या भविष्यति न संशयः ॥४२॥
तच् च दृष्ट्वा धनुः श्रेष्ठम् गौरवाद् गिरि सम्निभम् । अभिवाद्य नृपा जग्मुर् अशक्ताः तस्य तोलने ॥४३॥
सुदीर्घस्य तु कालस्य राघवो अयम् महा द्युतिः । विश्वामित्रेण सहितो यज्नम् द्रष्टुम् समागतः ॥४४॥
लक्ष्मणेन सह भ्रात्रा रामः सत्य पराक्रमः । विश्वामित्रः तु धर्म आत्मा मम पित्रा सुपूजितः ॥४५॥
प्रोवाच पितरम् तत्र राघवो राम लक्ष्मणौ । सुतौ दशरथस्य इमौ धनुर् दर्शन कान्क्षिणौ ॥४६॥
धनुर्दर्शय रामाय राजपुत्राय दैविकम् । इत्य् उक्तः तेन विप्रेण तद् धनुः समुपानयत् ॥४७॥
निमेष अन्तर मात्रेण तद् आनम्य स वीर्यवान् । ज्याम् समारोप्य झटिति पूरयाम् आस वीर्यवान् ॥४८॥
तेन पूरयता वेगान् मध्ये भग्नम् द्विधा धनुः । तस्य शब्दो अभवद् भीमः पतितस्य अशनेर् इव ॥४९॥
ततो अहम् तत्र रामाय पित्रा सत्य अभिसंधिना । उद्यता दातुम् उद्यम्य जल भाजनम् उत्तमम् ॥५०॥
दीयमानाम् न तु तदा प्रतिजग्राह राघवः । अविज्नाय पितुः चन्दम् अयोध्या अधिपतेः प्रभोः ॥५१॥
ततः श्वशुरम् आमन्त्र्य वृद्धम् दशरथम् नृपम् । मम पित्रा अहम् दत्ता रामाय विदित आत्मने ॥५२॥
मम चैव अनुजा साध्वी ऊर्मिला प्रिय दर्शना । भार्य अर्थे लक्ष्मणस्य अपि दत्ता पित्रा मम स्वयम् ॥५३॥
एवम् दत्ता अस्मि रामाय तदा तस्मिन् स्वयम् वरे । अनुरक्ता च धर्मेण पतिम् वीर्यवताम् वरम् ॥५४॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे अष्टादशोत्तरशततमः सर्गः ॥