अनसूया तु धर्मज्ना श्रुत्वा ताम् महतीम् कथाम् । पर्यष्वजत बाहुभ्याम् शिरस्य् आघ्राय मैथिलीम् ॥१॥
एकोनविंशत्युत्तरशततमः सर्गः 2.119
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
व्यक्त अक्षर पदम् चित्रम् भाषितम् मधुरम् त्वया । यथा स्वयम् वरम् वृत्तम् तत् सर्वम् हि श्रुतम् मया ॥२॥
रमे अहम् कथया ते तु दृष्ढम् मधुर भाषिणि । रविर् अस्तम् गतः श्रीमान् उपोह्य रजनीम् शिवाम् ॥३॥
दिवसम् प्रति कीर्णानाम् आहार अर्थम् पतत्रिणाम् । संध्या काले निलीनानाम् निद्रा अर्थम् श्रूयते ध्वनिः ॥४॥
एते च अप्य् अभिषेक आर्द्रा मुनयः फल शोधनाः । सहिता उपवर्तन्ते सलिल आप्लुत वल्कलाः ॥५॥
ऋषीणाम् अग्नि होत्रेषु हुतेषु विधि पुर्वकम् । कपोत अन्ग अरुणो धूमो दृश्यते पवन उद्धतः ॥६॥
अल्प पर्णा हि तरवो घनी भूताः समन्ततः । विप्रकृष्टे अपि ये देशे न प्रकाशन्ति वै दिशः ॥७॥
रजनी रस सत्त्वानि प्रचरन्ति समन्ततः । तपो वन मृगा ह्य् एते वेदि तीर्थेषु शेरते ॥८॥
सम्प्रवृत्ता निशा सीते नक्षत्र समलम्कृता । ज्योत्स्ना प्रावरणः चन्द्रो दृश्यते अभ्युदितो अम्बरे ॥९॥
गम्यताम् अनुजानामि रामस्य अनुचरी भव । कथयन्त्या हि मधुरम् त्वया अहम् परितोषिता ॥१०॥
अलम्कुरु च तावत् त्वम् प्रत्यक्षम् मम मैथिलि । प्रीतिम् जनय मे वत्स दिव्य अलम्काल शोभिनी ॥११॥
सा तदा समलम्कृत्य सीता सुर सुत उपमा । प्रणम्य शिरसा तस्यै रामम् तु अभिमुखी ययौ ॥१२॥
तथा तु भूषिताम् सीताम् ददर्श वदताम् वरः । राघवः प्रीति दानेन तपस्विन्या जहर्ष च ॥१३॥
न्यवेदयत् ततः सर्वम् सीता रामाय मैथिली । प्रीति दानम् तपस्विन्या वसन आभरण स्रजाम् ॥१४॥
प्रहृष्टः तु अभवद् रामो लक्ष्मणः च महा रथः । मैथिल्याः सत्क्रियाम् दृष्ट्वा मानुषेषु सुदुर्लभाम् ॥१५॥
ततः ताम् सर्वरीम् प्रीतः पुण्याम् शशि निभ आननः । अर्चितः तापसैः सिद्धैर् उवास रघु नन्दनः ॥१६॥
तस्याम् रात्र्याम् व्यतीतायाम् अभिषिच्य हुत अग्निकान् । आपृग्च्छेताम् नर व्याघ्रौ तापसान् वन गोचरान् ॥१७॥
ताउ ऊचुः ते वन चराः तापसा धर्म चारिणः । वनस्य तस्य संचारम् राक्षसैः समभिप्लुतम् ॥१८॥
रक्षांसि पुरुषादानि नानारूपाणि राघव! । वसन्त्यस्मिन् महारण्ये व्याळाश्चश्च रुधिराशनाः ॥१९॥
उच्चिष्टम् वा प्रमत्तम् वा तापसम् धर्मचारिणम् । अदन्त्यस्मिन् महारण्ये तान्निवारय राघवः ॥२०॥
एष पन्था महर्षीणाम् फलान्य् आहरताम् वने । अनेन तु वनम् दुर्गम् गन्तुम् राघव ते क्षमम् ॥२१॥
इति इव तैः प्रान्जलिभिः तपस्विभिर् र्द्विजैः कृत स्वस्त्ययनः परम् तपः । वनम् सभार्यः प्रविवेश राघवः । सलक्ष्मणः सूर्य इव अभ्र मण्डलम् ॥२२॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये श्रीमद्वाल्मीकीये चतुर्विंशत्सहस्रिकायाम् संहितायां श्रीमदयोध्याकाण्डे एकोनविंशत्युत्तरशततमः सर्गः ॥