ॐ शान्ति शान्ति शान्तिः प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान् । रामो ददर्श दुर्धर्षस्तापसाश्रममण्डलम् ॥१॥
प्रथमः सर्गः 3.1
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
कुशचीरपरिक्षिप्तं ब्राह्म्यां लक्ष्यासमावृतम् । यथा प्रदीप्तं दुर्दर्शं गगने सूर्यमण्डलम् ॥२॥
शरण्यं सर्वभूतानां सुसंमृष्टाजिरं सद । मृगैर्बहुभिराकीर्णं पक्षिसंमैः समातम् ॥३॥
पूजितं चोपनृत्तं च नित्यमप्सरसाम् गणैः । विशालैरग्निशरणैः स्रुग्भाण्डैरजिनैः कुशैः ॥४॥
समिद्भिस्तोयकलशैः फलमूलश्च शोभितम् । आरण्यैः च महा वृक्षैः पुण्यैः स्वादु फलैर् वृतम् ॥५॥
बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम् । पुष्पैश्चान्यैः परिक्षिप्तं पद्मिन्या च सपद्मया ॥६॥
फलमूलाशनैर्दान्तैस्चीरकृष्णाजिनाम्बरैः । सूर्यवैश्वानराभश्च पुराणैर्मुनिभिर्युतम् ॥७॥
पुण्यैश्च नियताहारैः शोभितं परमर्षिभिः । तद् ब्रह्मभवनप्रख्यां ब्रह्मघोषनिनादितम् ॥८॥
ब्रह्मविर्भिर्महाभागैर्ब्राह्मणैरुपशोभितम् । तद्दृष्ट्वा राघवः श्रीमांस्तापसाश्रममण्डलम् ॥९॥
अभ्यगच्छन्महातेजा विज्यं कृत्वा महद्धनुः । दिव्यज्ञानोपपन्नास्ते रामं दृष्ःट्वा महर्षयः ॥१०॥
अभिजग्मुस्तदा प्रीता वैदेहीं च यशस्विनीम् । ते तु सोममिवोद्यन्तं द्इष्ट्वा वै धर्मचारिणम् ॥११॥
लक्ष्मणं चैव दृष्ट्वातु वैदेहीं च यशस्विनीम् । मङ्गलानि प्रयञ्जानाः प्रत्यगृह्णान् दृढव्रताः ॥१२॥
रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम् । ददृशुर्विस्मिताकारा रामस्य वनवासिनः ॥१३॥
वैदेहीं लक्ष्मणं रामं नेत्रैरनिमिषैरिव । आश्चरभूतान् ददृशुः सर्वे ते पनवासिनः ॥१४॥
आत्रैनं हि महाभागाः सर्वभूतहिते रताः । अतिथिं पर्णशालायां राघवं संन्यवेशयन् ॥१५॥
ततो रामस्य सत्कृत्य विधिना पावकोपमाः । अजह्रुस्ते महाभागाः सलिलं धर्मचारिणः ॥१६॥
मङ्गलानि प्रयुञ्जना मुदा परमया युताः । मूलं पुष्पं फलं सर्वमाश्रमं च महात्मनः ॥१७॥
निवेदयित्वा ध्र्मज्ञास्ते तु प्राञ्जलयोऽब्रुवन् । धर्मपालो जनस्यास्य शरण्यश्च महायशाः ॥१८॥
पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः । इन्द्रस्यव चतुर्भागः प्रजा रक्षति राघव ॥१९॥
राजा तस्माद् वरान् भोगान् रम्यान् भुङ्कै नम । ते वयं भवता रक्ष्या भवद्विषयवासिनः । नगरस्थो वनस्थोवा त्वं नो राजा जनेश्वरः ॥२०॥
न्यस्तदण्डा वयं राजञ्जितक्रोधा जित्रेन्द्रियाः । रक्षणीयास्त्वया श्श्वद्गर्भभूतास्तपोधनाः ॥२१॥
एवमुक्त्वा फलैर्मुलैह् पुष्पैरन्यैश्च राघवम् । वन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन् ॥२२॥
तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः । न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम् ॥२३॥
इति वाल्मीकि रामायणे आदि काव्ये अरण्य काण्डे प्रथमः सर्गः ॥