रामायणम्

दशमः सर्गः 3.10

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

वाक्यम् एतत् तु वैदेह्या व्याहृतम् भर्तृ भक्त्या । श्रुत्वा धर्मे स्थितो रामः प्रत्युवाच जानकीम् ॥१॥

हितम् उक्तम् त्वया देवि स्निग्धया सदृशम् वचः । कुलम् व्यपदिशन्त्या च धर्मज्ञे जनक आत्मजे ॥२॥

किम् नु वक्ष्यामि अहम् देवि त्वया एव उक्तम् इदम् वचः । क्षत्रियैः धार्यते चापो न आर्त शब्दो भवेद् इति ॥३॥

ते च आर्ता दण्डकारण्ये मुनयः संशित व्रताः । माम् सीते स्वयम् आगम्य शरण्याः शरणम् गताः ॥४॥

वसन्तः काल कालेषु वने मूल फल अशनाः । न लभन्ते सुखम् भीरु राक्षसैः क्रूर कर्मभिः ॥५॥

भक्ष्यन्ते राक्षसैः भीमैः नर मांसोपजीविभिः । ते भक्ष्यमाणा मुनयो दण्डकारण्य वासिनः ॥६॥

अस्मान् अभ्यवपद्य इति माम् ऊचुर् द्विज सत्तमाः । मया तु वचनम् श्रुत्वा तेषाम् एवम् मुखात् च्युतम् ॥७॥

कृत्वा वचन शुश्रुषाम् वाक्यम् एतत् उदाहृतम् । प्रसीदन्तु भवन्तो मे ह्रीः एषा तु मम अतुला ॥८॥

यद् ईदृशैः अहम् विप्रैः उपस्थेयैः उपस्थितः । किम् करोमि इति च मया व्याहृतम् द्विज संनिधौ ॥९॥

सर्वैः एव समागम्य वाक् इयम् समुदाहृता । राक्षसैः दण्डकारण्ये बहुभिः काम रूपिभिः ॥१०॥

अर्दिताः स्म भृशम् राम भवान् नः तत्र रक्षतु । होम काले तु संप्राप्ते पर्व कालेषु च अनघ ॥११॥

धर्षयन्ति सुदुर्धर्षा राक्षसाः पिशित अशनाः । राक्षसैः धर्षितानाम् च तापसानाम् तपस्विनाम् ॥१२॥

गतिम् मृगयमाणानाम् भवान् नः परमा गतिः । कामम् तपः प्रभावेण शक्ता हन्तुम् निशाचरान् ॥१३॥

चिरार्जितम् न च इच्छ्हामः तपः खण्डयितुम् वयम् । बहु विघ्नम् तपो नित्यम् दुःश्चरम् चैव राघव ॥१४॥

तेन शापम् न मुंचामो भक्ष्यमाणाः च राक्षसैः । तद् अर्द्यमानान् रक्षोभिः दण्डकारण्य वासिभिः ॥१५॥

रक्ष नः त्वम् सह भ्रात्रा त्वम् नाथा हि वयम् वने । मया च एतत् वचः श्रुत्वा कार्त्स्न्येन परिपालनम् ॥१६॥

ऋषीणाम् दण्डकारण्ये संश्रुतम् जनकाअत्मजे । संश्रुत्य न च शक्ष्यामि जीवमानः प्रतिश्रवम् ॥१७॥

मुनीनाम् अन्यथा कर्तुम् सत्यम् इष्टम् हि मे सदा । अपि अहम् जीवितम् जह्याम् त्वाम् वा सीते स लक्ष्मणाम् ॥१८॥

न तु प्रतिज्ञाम् संश्रुत्य ब्राह्मणेभ्यो विशेषतः । तत् अवश्यम् मया कार्यम् ऋषीणाम् परिपालनम् ॥१९॥

अनुक्तेन अपि वैदेहि प्रतिज्ञाय कथम् पुनः । मम स्नेहात् च सौहार्दात् इदम् उक्तम् त्वया वचः ॥२०॥

परितुष्टो अस्मि अहम् सीते न हि अनिष्टो अनुशास्यते । सदृशम् च अनुरूपम् च कुलस्य तव शोभने । सधर्म चारिणी मे त्वम् प्राणेभ्यो अपि गरीयसी ॥२१॥

इति एवम् उक्त्वा वचनम् महात्मा सीताम् प्रियाम् मैथिल राज पुत्रीम् । रामो धनुष्मान् सह लक्ष्मणेन जगाम रम्याणि तपो वनानि ॥२२॥

इति वाल्मीकि रामायणे आदि काव्ये अरण्य काण्डे दशमः सर्गः ॥

Listen to the sarga
0:00