अग्रतः प्रययौ रामः सीता मध्ये सुशोभना । पृष्ठतः तु धनुष्पाणिः लक्ष्मणः अनुजगाम ह ॥१॥
एकादशः सर्गः 3.11
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
तौ पश्यमानौ विविधान् शैल प्रस्थान् वनानि च । नदीः च विविधा रम्या जग्मतुः सह सीतया ॥२॥
सारसान् चक्रवाकां च नदी पुलिन चारिणः । सरांसि च सपद्मानि युतानि जलजैः खगैः ॥३॥
यूथ बद्धाम् च पृषतान् मद उन्मत्तान् विषाणिनः । महिषाम् च वराहाम् च गजाम् च द्रुम वैरिणः ॥४॥
ते गत्वा दूरम् अध्वानम् लंबमाने दिवाकरे । ददृशुः सहिता रंयम् तटाकम् योजन आयुतम् ॥५॥
पद्म पुष्कर संबाधम् गज यूथैः अलंकृतम् । सारसैः हंस कादम्बैः संकुलम् जल जातिभिः ॥६॥
प्रसन्न सलिले रम्ये तस्मिन् सरसि शुश्रुवे । गीत वादित्र निर्घोषो न तु कश्चन दृश्यते ॥७॥
ततः कौतूहलात् रामो लक्ष्मणः च महारथः । मुनिम् धर्मभृतम् नाम प्रष्टुम् समुपचक्रमे ॥८॥
इदम् अत्यद्भुतम् श्रुत्वा सर्वेषाम् नो महामुने । कौतूहलम् महत् जातम् किम् इदम् साधु कथ्यताम् ॥९॥
तेन एवम् उक्तो धर्मात्मा राघवेण मुनिः तदा । प्रभावम् सरसः क्षिप्रम् आख्यातुम् उपचक्रमे ॥१०॥
इदम् पंच अप्सरो नाम तटाकम् सार्व कालिकम् । निर्मितम् तपसा राम मुनिना माण्डकर्णिना ॥११॥
स हि तेपे तपः तीव्रम् माण्डकर्णिः महामुनिः । दश वर्ष सहस्राणि वायु भक्षो जलाशये ॥१२॥
ततः प्रव्यथिताः सर्वे देवाः स अग्नि पुरोगमाः । अब्रुवन् वचनम् सर्वे परस्पर समागताः ॥१३॥
अस्मकम् कस्यचित् स्थानम् एष प्रार्थयते मुनिः । इति संविग्न मनसः सर्वे तत्र दिवौकसः ॥१४॥
ततः कर्तुम् तपो विघ्नम् सर्व देवैः नियोजिताः । प्रधान अप्सरसः पंच विद्युत् चलित वर्चसः ॥१५॥
अप्सरोभिः ततः ताभिः मुनिः दृष्ट परावरः । नीतो मदन वश्यत्वम् देवानाम् कार्य सिद्धये ॥१६॥
ताः चैव अप्सरसः पंच मुनेः पत्नीत्वम् आगताः । तटाके निर्मितम् तासाम् तस्मिन् अन्तर्हितम् गृहम् ॥१७॥
तत्र एव अप्सरसः पंच निवसन्त्यो यथा सुखम् । रमयन्ति तपोयोगात् मुनिम् यौवनम् आस्थितम् ॥१८॥
तासाम् संक्रीड मानानाम् एष वादित्र निःस्वनः । श्रूयते भूषण उन्मिश्रः गीत शब्दः मनोहरः ॥१९॥
आश्चर्यम् इति तस्य एतद् वचनम् भावितात्मनः । राघवः प्रतिजग्राह सह भ्रात्रा महा यशाः ॥२०॥
एवम् कथयमानः स ददर्श आश्रम मण्डलम् । कुश चीर परिक्षिप्तम् ब्राह्म्या लक्ष्म्या समावृतम् ॥२१॥
प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः । तदा तस्मिन् स काकुत्स्थः श्रीमति आश्रम मण्डले ॥२२॥
उषित्वा स सुखम् तत्र पूर्ज्यमानो महर्षिभिः । जगाम च आश्रमान् तेषाम् पर्यायेण तपस्विनाम् ॥२३॥
येषाम् उषितवान् पूर्वम् सकाशे स महास्त्रवित् । क्वचित् परिदशान् मासान् एक संवत्सरम् क्वचित् ॥२४॥
क्वचित् च चतुरो मासान् पंच षट् च परान् क्वचित् । अपरत्र अधिकान् मासान् अध्यर्धम् अधिकम् क्वचित् ॥२५॥
त्रीन् मासान् अष्ट मासान् च राघवो न्यवसत् सुखम् । तत्र संवसतः तस्य मुनीनाम् आश्रमेषु वै ॥२६॥
रमतः च आनुकूल्येन ययुः संवत्सरा दश । परिसृत्य च धर्मज्ञः राघवः सह सीतया ॥२७॥
सुतीक्ष्णस्य आश्रमम् श्रीमान् पुनर् एव आजगाम ह । स तम् आश्रमम् आगम्य मुनिभिः परिपूजितः ॥२८॥
तत्र अपि न्यवसत् रामः कंचित् कालम् अरिन्दमः । अथ आश्रमस्थो विनयात् कदाचित् तम् महामुनिम् ॥२९॥
उपासीनः स काकुत्स्थः सुतीक्ष्णम् इदम् अब्रवीत् । अस्मिन् अरण्ये भगवन् अगस्त्यो मुनिसत्तमः ॥३०॥
वसति इति मया नित्यम् कथाः कथयताम् श्रुतम् । न तु जानामि तम् देशम् वनस्य अस्य महत्तया ॥३१॥
कुत्र आश्रम पदम् पुण्यम् महर्षेः तस्य धीमतः । प्रसाद अर्थम् भगवतः सानुजः सह सीतया ॥३२॥
अगस्त्यम् अभिगच्छ्हेयम् अभिवादयितुम् मुनिम् । मनोरथो महान् एष हृदि परिवर्तते ॥३३॥
यदि अहम् तम् मुनिवरम् शुश्रूषेयम् अपि स्वयम् । इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः ॥३४॥
सुतीक्ष्णः प्रत्युवाच इदम् प्रीतो दशरथात्मजम् । अहम् अपि एतद् एव त्वाम् वक्तु कामः स लक्ष्मणम् ॥३५॥
अगस्त्यम् अभिगच्छ्ह इति सीतया सह राघव । दिष्ट्या तु इदानीम् अर्थे अस्मिन् स्वयम् एव ब्रवीषि माम् ॥३६॥
अयम् आख्यामि ते राम यत्र अगस्त्यो महामुनिः । योजनानि आश्रमात् तात याहि चत्वारि वै ततः । दक्षिणेन महान् श्रीमान् अगस्त्य भ्रातुर् आश्रमः ॥३७॥
स्थली प्राय वनोद्देशे पिप्पली वन शोभिते । बहु पुष्प फले रम्ये नाना विहग नादिते ॥३८॥
पद्मिन्यो विविधाः तत्र प्रसन्न सलिल आशयाः । हंस कारण्डव आकीर्णाः चक्रवाक उपशोभिताः ॥३९॥
तत्र एकाम् रजनीम् व्युष्य प्रभाते राम गम्यताम् । दक्षिणाम् दिशम् आस्थाय वन षण्डस्य पार्श्वतः ॥४०॥
तत्र अगस्त्य आश्रम पदम् गत्वा योजनम् अन्तरम् । रमणीये वनोद्देशे बहु पादप शोभिते ॥४१॥
रंस्यते तत्र वैदेही लक्ष्मणः च त्वया सह । स हि रम्यो वनौद्देशो बहु पादप संयुतः ॥४२॥
यदि बुद्धिः कृता द्रष्टुम् अगस्त्यम् तम् महामुनिम् । अद्य एव गमने बुद्धिम् रोचयस्व महामते ॥४३॥
इति रामो मुनेः श्रुत्वा सह भ्रात्रा अभिवाद्य च । प्रतस्थे अगस्त्यम् उद्दिश्य सानुगः सह सीतया ॥४४॥
पश्यन् वनानि चित्राणि पर्वतां च अभ्र संनिभान् । सरांसि सरितः चैव पथि मार्ग वश अनुगतान् ॥४५॥
सुतीक्ष्णेन उपदिष्टेन गत्वा तेन पथा सुखम् । इदम् परम संहृष्टो वाक्यम् लक्ष्मणम् अब्रवीत् ॥४६॥
एतद् एव आश्रम पदम् नूनम् तस्य महात्मनः । अगस्त्यस्य मुनेर् भ्रातुर् दृश्यते पुण्य कर्मणः ॥४७॥
यथा हि इमे वनस्य अस्य ज्ञाताः पथि सहस्रशः । संनताः फल भरेण पुष्प भारेण च द्रुमाः ॥४८॥
पिप्पलीनाम् च पक्वानाम् वनाद् अस्माद् उपागतः । गन्धो अयम् पवन उत्क्षिप्तः सहसा कटुकोदयः ॥४९॥
तत्र तत्र च दृश्यन्ते संक्षिप्ताः काष्ठ संचयाः । लूनाः च परिदृश्यन्ते दर्भा वैदूर्य वर्चसः ॥५०॥
एतत् च वन मध्यस्थम् कृष्ण अभ्र शिखर उपमम् । पावकस्य आश्रमस्थस्य धूमाग्रम् संप्रदृश्यते ॥५१॥
विविक्तेषु च तीर्थेषु कृत स्नाना द्विजातयः । पुष्प उपहारम् कुर्वन्ति कुसुमैः स्वयम् आर्जितैः ॥५२॥
ततः सुतीक्ष्णस्य वचनम् यथा सौम्य मया श्रुतम् । अगस्त्यस्य आश्रमो भ्रातुर् नूनम् एष भविष्यति ॥५३॥
निगृह्य तरसा मृत्युम् लोकानाम् हित काम्यया । यस्य भ्रात्रा कृता इयम् दिक् शरण्या पुण्य कर्मणा ॥५४॥
इह एकदा किल क्रूरो वातापिः अपि च इल्वलः । भ्रातरौ सहितौ आस्ताम् ब्राह्मणघ्नौ महा असुरौ ॥५५॥
धारयन् ब्राह्मणम् रूपम् इल्वलः संस्कृतम् वदन् । आमंत्रयति विप्रान् स श्राद्धम् उद्दिश्य निर्घृणः ॥५६॥
भ्रातरम् संस्कृतम् कृत्वा ततः तम् मेष रूपिणम् । तान् द्विजान् भोजयामास श्राद्ध दृष्टेन कर्मणा ॥५७॥
ततो भुक्तवताम् तेषाम् विप्राणाम् इल्वलो अब्रवीत् । वातापे निष्क्रमस्व इति स्वरेण महता वदन् ॥५८॥
ततो भ्रातुर् वचः श्रुत्वा वातापिः मेषवत् नदन् । भित्त्वा भित्वा शरीराणि ब्राह्मणानाम् विनिष्पतत् ॥५९॥
ब्राह्मणानाम् सहस्राणि तैः एवम् काम रूपिभिः । विनाशितानि संहत्य नित्यशः पिशित अशनैः ॥६०॥
अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा । अनुभूय किल श्राद्धे भक्षितः स महा असुरः ॥६१॥
ततः संपन्नम् इति उक्त्वा दत्त्वा हस्ते अवनेजनम् । भ्रातरम् निष्क्रमस्व इति च इल्वलः समभाषत ॥६२॥
स तदा भाषमाणम् तु भ्रातरम् विप्र घातिनम् । अब्रवीत् प्रहसन् धीमान् अगस्त्यो मुनि सत्तमः ॥६३॥
कुतो निष्क्रमितुम् शक्तिर् मया जीर्णस्य रक्षसः । भ्रातुः ते मेष रूपस्य गतस्य यम सादनम् ॥६४॥
अथ तस्य वचः श्रुत्वा भ्रातुर् निधन संश्रितम् । प्रधर्षयितुम् आरेभे मुनिम् क्रोधात् निशा चरः ॥६५॥
सो अभ्यद्रवत् द्विजेंद्रम् तम् मुनिना दीप्त तेजसा । चक्षुषा अनल कल्पेन निर्दग्धो निधनम् गतः ॥६६॥
तस्य अयम् आश्रमो भ्रातुः तटाक वन शोभितः । विप्र अनुकंपया येन कर्म इदम् दुष्करम् कृतम् ॥६७॥
एवम् कथयमानस्य तस्य सौमित्रिणा सह । रामस्य अस्तम् गतः सूर्यः संध्या कालो अभ्यवर्तत ॥६८॥
उपास्य पश्चिमाम् संध्याम् सह भ्रात्रा यथा विधि । प्रविवेश आश्रम पदम् तम् ऋषिम् च अभ्यवादयत् ॥६९॥
सम्यक् प्रतिगृहीतः तु मुनिना तेन राघवः । न्यवसत् ताम् निशाम् एकाम् प्राश्य मूल फलानि च ॥७०॥
तस्याम् रात्र्याम् व्यतीतायाम् उदिते रवि मण्डले । भ्रातरम् तम् अगस्त्यस्य आमंत्रयत राघवः ॥७१॥
अभिवादये त्वाम् भगवन् सुखम् स्म उष्यतो निशाम् । आमंत्रये त्वाम् गच्छ्हामि गुरुम् ते द्रष्टुम् अग्रजम् ॥७२॥
गम्यताम् इति तेन उक्तो जगाम रघु नन्दनः । यथा उद्दिष्टेन मार्गेण वनम् तत् च अवलोकयन् ॥७३॥
नीवारान् पनसान् सालान् वन्जुलान् तिनिशान् तथा । चिरि बिल्वान् मधूकान् च बिल्वान् अथ च तिन्दुकान् ॥७४॥
पुष्पितान् पुष्पित अग्राभिर् लताभिर् उपशोभितान् । ददर्श रामः शतशः तत्र कान्तार पादपान् ॥७५॥
हस्ति हस्तैः विमृदितान् वानरैः उपशोभितान् । मत्तैः शकुनि संघैः च शतशः प्रति नादितान् ॥७६॥
ततो अब्रवीत् समीपस्थम् रामो राजीव लोचनः । पृष्ठतो अनुगतम् वीरम् लक्ष्मणम् लक्ष्मिवर्धनम् ॥७७॥
स्निग्ध पत्रा यथा वृक्षा यथा क्षान्ता मृग द्विजाः । आश्रमो न अतिदूरस्थो महर्षेर् भावित आत्मनः ॥७८॥
अगस्त्य इति विख्यातो लोके स्वेन एव कर्मणा । आश्रमो दृश्यते तस्य परिश्रान्त श्रम अपहः ॥७९॥
प्राज्य धूम आकुल वनः चीर माला परिष्कृतः । प्रशान्त मृग यूथः च नाना शकुनि नादितः ॥८०॥
निगृह्य तरसा मृत्युम् लोकानाम् हित काम्यया । दक्षिणा दिक् कृता येन शरण्या पुण्य कर्मणा ॥८१॥
तस्य इदम् आश्रम पदम् प्रभावाद् यस्य राक्षसैः । दिक् इयम् दक्षिणा त्रासाद् दृश्यते न उपभुज्यते ॥८२॥
यदा प्रभृति च आक्रान्ता दिग् इयम् पुण्य कर्मणा । तदा प्रभृति निर् वैराः प्रशान्ता रजनी चराः ॥८३॥
नाम्ना च इयम् भगवतो दक्षिणा दिक् प्रदक्षिणा । प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूर कर्मभिः ॥८४॥
मार्गम् निरोद्धुम् सततम् भास्करस्य अचल उत्तमः । संदेशम् पालयन् तस्य विंध्य शैलो न वर्धते ॥८५॥
अयम् दीर्घ आयुषः तस्य लोके विश्रुत कर्मणः । अगस्त्यस्य आश्रमः श्रीमान् विनीत मृग सेवितः ॥८६॥
एष लोक अर्चितः साधुः हिते नित्यम् रतः सताम् । अस्मान् अधिगतान् एष श्रेयसा योजयिष्यति ॥८७॥
आराधयिष्यामि अत्र अहम् अगस्त्यम् तम् महामुनिम् । शेषम् च वन वासस्य सौम्य वत्स्यामि अहम् प्रभो ॥८८॥
अत्र देवाः सगन्धर्वाः सिद्धाः च परम ऋषयः । अगस्त्यम् नियत आहाराः सततम् पर्युपासते ॥८९॥
न अत्र जीवेत् मृषावादी क्रूरो वा यदि वा शठः । नृशंसः पाप वृत्तो वा मुनिः एष तथा विधः ॥९०॥
अत्र देवाः च यक्षाः च नागाः च पतगैः सह । वसन्ति नियत आहारा धर्मम् आराधयिष्णवः ॥९१॥
अत्र सिद्धा महात्मानो विमानैः सूर्य सन्निभैः । त्यक्त्वा देहान् नवैर् देहैः स्वर् याताः परम ऋषयः ॥९२॥
यक्षत्वम् अमरत्वम् च राज्यानि विविधानि च । अत्र देवाः प्रयच्छ्हन्ति भूतैः आराधिताः शुभैः ॥९३॥
आगताः स्म आश्रम पदम् सौमित्रे प्रविश अग्रतः । निवेदय इह माम् प्राप्तम् ऋषये सह सीतया ॥९४॥
इति वाल्मीकि रामायणे आदि काव्ये अरण्य काण्डे एकादशः सर्गः ॥