रामायणम्

विंशः सर्गः 3.20

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

ततः शूर्पणखा घोरा राघव आश्रमम् आगता । रक्षसान् आचचक्षे तौ भ्रातरौ सह सीतया ॥१॥

ते रामम् पर्ण शालायाम् उपविष्टम् महाबलम् । ददृशुः सीतया सार्धम् लक्ष्मणेन अपि सेवितम् ॥२॥

ताम् दृष्ट्वा राघवः श्रीमान् आगताम् ताम् च राक्षसीम् । अब्रवीत् भ्रातरम् रामो लक्ष्मणम् दीप्त तेजसम् ॥३॥

मुहूर्तम् भव सौमित्रे सीतायाः प्रत्यनंतरः । इमान् अस्या वधिष्यामि पदवीम् आगतान् इह ॥४॥

वाक्यम् एतत् ततः श्रुत्वा रामस्य विदित आत्मनः । तथा इति लक्ष्मणो वाक्यम् रामस्य प्रत्यपूजयत् ॥५॥

राघवो अपि महत् चापम् चामीकर विभूषितम् । चकार सज्यम् धर्मात्मा तानि रक्षांसि च अब्रवीत् ॥६॥

पुत्रौ दशरथस्य आवाम् भ्रातरौ राम लक्ष्मणौ । प्रविष्टौ सीतया सार्धम् दुश्चरम् दण्डका वनम् ॥७॥

फल मूल अशनौ दांतौ तापसौ धर्म चारिणौ । वसन्तौ दण्डकारण्ये किम् अर्थम् उपहिंसथ ॥८॥

युष्मान् पाप आत्मकान् हंतुम् विप्रकारान् महाहवे । ऋषीणाम् तु नियोगेन प्राप्तो अहम् सशर आसनः ॥९॥

तिष्ठत एव अत्र संतुष्टा न उपवरितितुम् अर्हथ । यदि प्राणैः इह अर्थो वो निवर्तध्वम् निशा चराः ॥१०॥

तस्य तद् वचनम् श्रुत्वा राक्षसाः ते चतुर्दश । ऊचुर् वाचम् सुसंक्रुद्धा ब्रह्मघ्नः शूल पाणयः ॥११॥

संरक्त नयना घोरा रामम् रक्तांत लोचनम् । परुषा मधुर आभाषम् हृष्टाः अदृष्ट पराक्रमम् ॥१२॥

क्रोधम् उत्पाद्य नो भर्तुः खरस्य सुमहात्मनः । त्वम् एव हास्यसे प्राणान् अद्य अस्माभिर् हतो युधि ॥१३॥

का हि ते शक्तिर् एकस्य बहूनाम् रण मूर्धनि । अस्माकम् अग्रतः स्थातुम् किम् पुनर् योद्धुम् आहवे ॥१४॥

एभिः बाहु प्रयुक्तैः नः परिघैः शूल पट्टिशैः । प्राणाम् त्यक्ष्यसि वीर्यम् च धनुः च कर पीडितम् ॥१५॥

इति एवम् उक्त्वा संरब्धा राक्षसाः ते चतुर्दश । उद्यत आयुध निस्त्रिंशा रामम् एव अभिदुद्रुवुः ॥१६॥

चिक्षिपुः तानि शूलानि राघवम् प्रति दुर्जयम् । तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश ॥१७॥

तावद्भिः एव चिच्छ्हेद शरैः कांचन भूषितैः । ततः पश्चात् महातेजा नाराचान् सूर्य संनिभान् ॥१८॥

जग्राह परम क्रुद्धः चतुर्दश शिल अशितान् । गृहीत्वा धनुः आयम्य लक्ष्यान् उद्दिश्य राक्षसान् ॥१९॥

मुमोच राघवो बाणान् वज्रान् इव शतक्रतुः । ते भित्त्वा रक्षसाम् वेगात् वक्षांसि रुधिर आप्लुताः ॥२०॥

विनिष्पेतुः तदा भूमौ वल्मीकात् इव पन्नगाः । तैः भग्न हृदया बूमौ छ्हिन्न मूला इव द्रुमाः ॥२१॥

निपेतुः शोणित स्नाता विकृता विगत असवः । तान् भूमौ पतितान् दृष्ट्वा राक्षसी क्रोध मूर्च्छ्हिता ॥२२॥

उपगम्य खरम् सा तु किंचित् संशुष्क शोणिता । पपात पुनः एव आर्ता सनिर्यासा इव वल्लरी ॥२३॥

भ्रातुः समीपे शोक आर्ता ससर्ज निनदम् महत् । सस्वरम् मुमोच बाष्पम् विवर्ण वदना तदा ॥२४॥

निपातितान् प्रेक्ष्य रणे तु राक्षसान् प्रधाविता शूर्पणखा पुनः ततः । वधम् च तेषाम् निखिलेन रक्षसाम् शशंस सर्वम् भगिनी खरस्य सा ॥२५॥

इति वाल्मीकि रामायणे आदि काव्ये अरण्य काण्डे विंशः सर्गः ॥

Listen to the sarga
0:00