रामायणम्

विंशः सर्गः 3.21

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

स पुनः पतिताम् दृष्ट्वा क्रोधात् शूर्पणखाम् खरः । उवाच व्यक्तता वाचा ताम् अनर्थ अर्थम् आगताम् ॥१॥

मया तु इदानीम् शूराः ते राक्षसा पिशित अशनाः । त्वत् प्रियार्थम् विनिर्दिष्टाः किम् अर्थम् रुद्यते पुनः ॥२॥

भक्ताः चैव अनुरक्ताः च हिताः च मम नित्यशः । हन्यमाना अपि न हन्यन्ते न न कुर्युः वचो मम ॥३॥

किम् एतत् श्रोतुम् इच्छ्हामि कारणम् यत् कृते पुनः । हा नाथ इति विनर्दन्ती सर्पवत् चेष्टसे क्षितौ ॥४॥

अनाथ वत् विलपसि किम् नु नाथे मयि स्थिते । उत्तिष्ठोत्तिष्ठ मा मैवम् वैक्लव्यम् त्यज्यताम् इति ॥५॥

इति एवम् उक्ता दुर्धर्षा खरेण परिसान्त्विता । विमृज्य नयने स अस्रे खरम् भ्रातरम् अब्रवीत् ॥६॥

अस्मि इदानीम् अहम् प्रप्ता हत श्रवण नासिका । शोणित ओघ परिक्लिन्ना त्वया च परिसमन्विता ॥७॥

प्रेषिताः च त्वया शूरा राक्षसाः ते चतुर् दश । निहन्तुम् राघवम् घोराम् मत् प्रियार्थम् स लक्ष्मणम् ॥८॥

ते तु रामेण सामर्षाः शूल पट्टिस पाणयः । समरे निहताः सर्वे सायकैः मर्म भेदिभिः ॥९॥

तान् भूमौ पतितान् दृष्ट्वा क्षणेन एव महाजवान् । रामस्य च महत् कर्म महान् त्रासो अभवन् मम ॥१०॥

सा अस्मि भीता समुद्विग्ना विषण्णा च निशाचर । शरणम् त्वाम् पुनः प्राप्ता सर्वतो भय दर्शिनी ॥११॥

विषाद नक्र अध्युषिते परित्रास ऊर्मि मालिनि । किम् माम् न त्रायसे मग्नाम् विपुले शोक सागरे ॥१२॥

एते च निहता भूमौ रामेण निशितैः शरैः । ये च मे पदवीम् प्राप्ता राक्षसाः पिशित अशनाः ॥१३॥

मयि ते यदि अनुक्रोशो यदि रक्षःसु तेषु च । रामेण यदि शक्तिः ते तेजो वा अस्ति निशा चर ॥१४॥

दण्डकारण्य निलयम् जहि राक्षस कण्टकम् । यदि रामम् अमित्रघ्नम् न त्वम् अद्य वधिष्यसि ॥१५॥

तव चैव अग्रतः प्राणान् त्यक्ष्यामि निरपत्रपा । बुद्ध्या अहम् अनुपश्यामि न त्वम् रामस्य संयुगे ॥१६॥

स्थातुम् प्रति मुखे शक्तः स बलो अपि महा रणे । शूरमानी न शूरः त्वम् मिथ्या आरोपित विक्रमः ॥१७॥

अपयाहि जन स्थानात् त्वरितः सह बान्धवः । जहि त्वम् समरे मूढान् यथा तु कुलपांसन ॥१८॥

मानुषौ तौ न शक्नोषि हन्तुम् वै राम लक्ष्मणौ । निःसत्त्वस्य अल्प वीर्यस्य वासः ते कीदृशः तु इह ॥१९॥

राम तेजो अभिभूतो हि त्वम् क्षिप्रम् विनशिष्यसि । स हि तेजः समायुक्तो रामो दशरथात्मजः ॥२०॥

भ्राता च अस्य महा वीर्यो येन च अस्मि विरूपिता । एवम् विलाप्य बहुशो राक्ष्सी प्रदरोदरी ॥२१॥

भ्रातुः समीपे शोक आर्ता नष्ट संज्ञा बभूव ह । कराभ्याम् उदरम् हत्वा रुरोद भृश दुःखिता ॥२२॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे एक विंशः सर्गः ॥

Listen to the sarga
0:00