रामायणम्

विंशः सर्गः 3.26

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

दूषणः तु स्वकम् सैन्यम् हन्यमानम् विलोक्य च । संदिदेश महाबाहुः भीम वेगान् निशाचरान् ॥१॥

राक्षसान् पंच साहस्रान् समरेषु अनिवर्तिनः । ते शूलैः पट्टिशैः कदगैः शिला वरषैः द्रुमैः ॥२॥

शर वर्षैः विच्छ्हिन्नम् ववर्षुः तम् समन्ततः । तत् द्रुमाणाम् शिलानाम् च वर्षम् प्राण हरम् महत् ॥३॥

प्रतिजग्राह धर्मात्मा राघवः तीक्ष्ण सायकैः । प्रतिगृह्य च तद् वर्षम् निमीलित इव ऋषभः ॥४॥

रामः क्रोधम् परम् लेभे वध अर्थम् सर्व रक्षसाम् । ततः क्रोध समाविष्टः प्रदीप्त इव तेजसा ॥५॥

शरैः अभ्यकिरत् सैन्यम् सर्वतः सह दूषणम् । ततः सेना पतिः क्रुद्धो दूषणः शत्रु दूषणः ॥६॥

3.26.6 #9001644f80f9 timing uncertain

शरैः अशनि कल्पैः तम् राघवम् समवारयत् । ततो रामः संक्रुद्धः क्षुरेण अस्य महत् धनुः ॥७॥

चिच्छ्हेद समरे वीरः चतुर्भिः चतुरो हयान् । हत्वा च अश्वान् शरैः तीक्ष्णैः अर्थ चन्द्रेण सारथे ॥८॥

3.26.8 #20652ecdbe76 timing uncertain

शिरो जहार तद् रक्षः त्रिभिर् विव्याध वक्षसि । स च्छ्हिन्न धन्वा विरथो हत अश्वो हत सारथिः ॥९॥

जग्राह गिरि शृंग आभम् परिघम् रोम हर्षणम् । वेष्टितम् कांचनैः पट्टैः देव सैन्य अभिमर्दनम् ॥१०॥

आयसैः शंकुभिः तीक्ष्णैः कीर्णम् पर वसा उक्षिताम् । वज्र अशनि सम स्पर्शम् पर गोपुर दारणम् ॥११॥

तम् महा उरग संकाशम् प्रगृह्य परिघम् रणे । दूषणो अभ्यपतत् रामम् क्रूर कर्मा निशाचरः ॥१२॥

तस्य अभिपतमानस्य दूषणस्य स राघवः । द्वाभ्याम् शराभ्याम् चिच्छ्हेद स हस्त आभरणौ भुजौ ॥१३॥

भ्रष्टः तस्य महाकायः पपात रण मूर्धनि । परिघः छ्हिन्न हस्तस्य शक्र ध्वज इव अग्रतः ॥१४॥

कराभ्याम् च विकीर्णाभ्याम् पपात भुवि दूषणः । विषाणाभ्याम् विशीर्णाभ्याम् मनस्वी इव महागजः ॥१५॥

दृष्ट्वा तम् पतितम् भूमौ दूषणम् निहतम् रणे । साधु साधु इति काकुत्स्थम् सर्व भूतानि अपूजयन् ॥१६॥

एतस्मिन् अन्तरे क्रुद्धाः त्रयः सेना अग्र यायिनः । संहत्य अभ्यद्रवन् रामम् मृत्यु पाश अवपाशिताः ॥१७॥

महाकपालः स्थूलाक्षः प्रमाथी च महाबलः । महाकपालो विपुलम् शूलम् उद्यम्य राक्षसः ॥१८॥

स्थूलाक्षः पट्टिशम् गृह्य प्रमाथी च परश्वधम् । दृष्ट्वा एव आपततः ताम् तु राघवः सायकैः शितैः ॥१९॥

तीक्ष्ण अग्रैः प्रतिजग्राह संप्राप्तान् अतिथीन् इव । महाकपालस्य शिरः चिच्छ्हेद रघुनंदनः ॥२०॥

असंख्येयैः तु बाण ओघैः प्रममाथ प्रमाथिनम् । स्थूलाक्षस्य अक्षिणी स्थूले पूरयामास सायकैः ॥२१॥

स पपात हतो भूमौ विटपी इव महाद्रुमः । दूषणस्य अनुगान् पंच सहस्रान् कुपितः क्षणात् ॥२२॥

हत्वा तु पंच सहस्रान् अनयत् यम सदनम् । दूषणम् निहतम् श्रुत्वा तस्य च एव पदानुगान् ॥२३॥

व्यादिदेश खरः क्रुद्धो सेन अध्यक्षान् महाबलान् । अयम् विनिहतः संख्ये दूषणः स पदानुगाः ॥२४॥

महत्या सेनया सार्धम् युद्ध्वा रामम् कुमानुषम् । शस्त्रैः नाना विध अकारैः हनध्वम् सर्व राक्षसाः ॥२५॥

एवम् उक्त्वा खरः क्रुद्धो रामम् एव अभि दुद्रुवे । श्येनगामी पृथुग्रीवो यज्ञशत्रुर् विहंगमः ॥२६॥

दुर्जयः करवीराक्षः परुषः कालकार्मुकः । हेममाली महामाली सर्पस्यो रुधिराशनः ॥२७॥

द्वादश एते महावीर्या बल अध्यक्षाः स सैनिकाः रमम् एव अभ्यधावंत विसृजंतः शरोत्तमान् ॥२८॥

ततः पावक संकाशैः हेम वज्र विभूषितैः । जघन शेषम् तेजस्वी तस्य सैन्यस्य सायकैः ॥२९॥

ते रुक्म पुंखा विशिखाः स धूमा इव पावकाः । निजघ्नुः तानि रक्षांसि वज्रा इव महाद्रुमान् ॥३०॥

रक्षसाम् तु शतम् रामः शतेन एकेन कर्णिना । सहस्रम् तु सहस्रेण जघान रण मूर्धनि ॥३१॥

तैः भिन्न वर्म आभरणाः छ्हिन्न भिन्न शर आसनाः । निपेतुः शोणित आदिग्धा धरण्याम् रजनीचराः ॥३२॥

तैः मुक्त केशैः समरे पतितैः शोणित उक्षितैः । विस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैः इव ॥३३॥

तत् क्षणे तु महा घोरम् वनम् निहत राक्षसम् । बभूव निरय प्रख्यम् मांस शोणित कर्दमम् ॥३४॥

चतुर्दश सहस्राणि रक्षसाम् भीम कर्मणाम् । हतानि एकेन रामेण मानुषेण पदातिना ॥३५॥

तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः । राक्षसः त्रिशिराः चैव रामः च रिपुसूदनः ॥३६॥

शेषा हता महावीर्या राक्षसा रण मूर्धनि । घोरा दुर्विषहाः सर्वे लक्ष्मणस्य अग्रजेन ॥३७॥

ततः तु तद् भीम बलम् महा आहवे समीक्ष्य रामेण हतम् बलीयसा । रथेन रामम् महता खरः ततः समाससाद इन्द्र इव उद्यत अशनिः ॥३८॥

इति वाल्मीकि रामायणे आदि काव्ये अरण्य काण्डे षड् विंशः सर्गः ॥

Listen to the sarga
0:00