रामायणम्

विंशः सर्गः 3.27

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

खरम् तु राम अभिमुखम् प्रयांतम् वाहिनी पतिः । राक्षसः त्रिशिरा नाम संनिपत्य इदम् अब्रवीत् ॥१॥

माम् नियोजय विक्रांतम् त्वम् निवर्तस्व साहसात् । पश्य रामम् महाबाहुम् संयुगे विनिपातितम् ॥२॥

प्रतिजानामि ते सत्यम् आयुधम् च अहम् आलभे । यथा रामम् वधिष्यामि वधार्हम् सर्व रक्षसाम् ॥३॥

अहम् वा अस्य रणे मृत्युः एष वा समरे मम । विनिवर्त्य रण उत्साहम् मुहूर्तम् प्राश्निको भव ॥४॥

प्रहृष्टो वा हते रामे जनस्थानम् प्रयास्यसि । मयि वा निहते रामम् संयुगाय प्रयास्यसि ॥५॥

खरः त्रिशिरसा तेन मृत्यु लोभात् प्रसादितः । गच्छ्ह युध्य इति अनुज्ञातो राघव अभिमुखो ययौ ॥६॥

त्रिशिराः तु रथेन एव वाजि युक्तेन भास्वता । अभ्यद्रवत् रणे रामम् त्रि शृंग इव पर्वतः ॥७॥

शर धारा समूहान् स महामेघ इव उत्सृजन् । व्यसृजत् सदृशम् नादम् जल आर्द्रस्य इव दुन्दुभेः ॥८॥

आगच्छ्हंतम् त्रिशिरसम् राक्षसम् प्रेक्ष्य राघवः । धनुषा प्रतिजग्राह विधुन्वन् सायकान् शितान् ॥९॥

स संप्रहारः तुमुलो राम त्रिशिरसोः तदा । संबभूव अतीव बलिनोः सिंह कुञ्जरयोः इव ॥१०॥

ततः त्रिशिरसा बाणैः ललाटे ताडितः त्रिभिः । अमर्षी कुपितो रामः संरब्धम् इदम् अब्रवीत् ॥११॥

अहो विक्रम शूरस्य राक्षसस्य ईदृशम् बलम् । पुष्पैः इव शरैः यस्य ललाटे अस्मि परिक्षतः ॥१२॥

मम अपि प्रतिगृह्णीष्व शरान् चाप गुण च्युतान् । एवम् उक्त्वा सुसंरब्धः शरान् आशीविष उपमान् ॥१३॥

त्रिशिरो वक्षसि क्रुद्धो निजघान चतुर् दश । चतुर्भिः तुरगान् अस्य शरैः संनत पर्वाभिः ॥१४॥

न्यपातयत तेजस्वी चतुरः तस्य वाजिनः । अष्टभिः सायकैः सूतम् रथ उपस्थे न्यपातयत् ॥१५॥

रामः चिच्छ्हेद बाणेन ध्वजम् च अस्य समुच्छ्ह्रितम् । ततो हत रथात् तस्मात् उत्पतंतम् निशाचरम् ॥१६॥

चिच्छ्हेद रामः तम् बाणैः हृदये सो अभवत् जडः । सायकैः च अप्रमेय आत्मा सामर्षः तस्य रक्षसः ॥१७॥

शिरांसि अपातयत् त्रीणि वेगवद्भिः त्रिभिः शतैः । स धूम शोणित उद्गारी राम बाण अभिपीडितः ॥१८॥

न्यपतत् पतितैः पूर्वम् समरस्थो निशाचरः । हत शेषाः ततो भग्ना राक्षसाः खर संश्रयाः ॥१९॥

द्रवन्ति स्म न तिष्ठन्ति व्याघ्र त्रस्ता मृगा इव । तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितः त्वरन् । रामम् एव अभिदुद्राव राहुः चन्द्रमसम् यथा ॥२०॥

इति वाल्मीकि रामायणे आदि काव्ये अरण्य काण्डे सप्त विंशः सर्गः ॥

Listen to the sarga
0:00