ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश । हतानि एकेन रामेण रक्षसाम् भीम कर्मणाम् ॥१॥
त्रिंशः सर्गः 3.32
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
दूषणम् च खरम् चैव हतम् त्रिशिरसम् रणे । दृष्ट्वा पुनर् महानादम् ननाद जलद उपमा ॥२॥
सा दृष्ट्वा कर्म रामस्य कृतम् अन्यैः सुदुष्करम् । जगाम परम उद्विग्ना लंकाम् रावण पालिताम् ॥३॥
सा ददर्श विमान अग्रे रावणम् दीप्त तेजसम् । उपोपविष्टम् सचिवैः मरुद्भिः इव वासवम् ॥४॥
आसीनम् सूर्य संकाशे कांचने परमासने । रुक्म वेदि गतम् प्राज्यम् ज्वलंतम् इव पावकम् ॥५॥
देव गन्धर्व भूतानाम् ऋषीणाम् च महात्मनाम् । अजेयम् समरे घोरम् व्यात्त आननम् इव अन्तकम् ॥६॥
देव असुर विमर्देषु वज्र अशनि कृत व्रणम् । ऐरावत विषाण अग्रैः उत्कृष्ट किण वक्षसम् ॥७॥
विंशत् भुजम् दश ग्रीवम् दर्शनीय परिच्छदम् । विशाल वक्षसम् वीरम् राज लक्ष्मण लक्षितम् ॥८॥
नद्ध वैदूर्य संकाशम् तप्त कान्चन कुण्डलम् । सुभुजम् शुक्ल दशनम् महा आस्यम् पर्वतोपमम् ॥९॥
विष्णु चक्र निपातैः च शतशो देव संयुगे । अन्यैः शस्त्रैः प्रहारैः च महायुद्धेषु ताडितम् ॥१०॥
आहत अंगम् समस्तैः च देव प्रहरणैः तथा । अक्षोभ्याणाम् समुद्राणाम् क्षोभणम् क्षिप्र कारिणम् ॥११॥
क्षेप्तारम् पर्वत अग्राणाम् सुराणाम् च प्रमर्दनम् । उच्छेत्तारम् च धर्माणाम् पर दार अभिमर्शनम् ॥१२॥
सर्व दिव्य अस्त्र योक्तारम् यज्ञ विघ्न करम् सदा । पुरीम् भोगवतीम् गत्वा पराजित्य च वासुकिम् ॥१३॥
तक्षकस्य प्रियाम् भार्याम् पराजित्य जहार यः । कैलासम् पर्वतम् गत्वा विजित्य नर वाहनम् ॥१४॥
विमानम् पुष्पकम् तस्य कामगम् वै जहार यः । वनम् चैत्ररथम् दिव्यम् नलिनीम् नंदनम् वनम् ॥१५॥
विनाशयति यः क्रोधात् देव उद्यानानि वीर्यवान् । चन्द्र सूर्यौ महा भागौ उत्तिष्ठन्तौ परंतपौ ॥१६॥
निवारयति बाहुभ्याम् यः शैल शिखरोपमः । दश वर्ष सहस्राणि तपः तप्त्वा महावने ॥१७॥
पुरा स्वयंभुवे धीरः शिरांसि उपजहार यः । देव दानव गधर्व पिशाच पतग उरगैः ॥१८॥
अभयम् यस्य संग्रामे मृत्युतो मानुषाद् ऋते । मन्त्रैः अभितुष्टम् पुण्यम् अध्वरेषु द्विजातिभिः ॥१९॥
हविर्धानेषु यः सोमम् उपहन्ति महाबलः । प्राप्त यज्ञ हरम् दुष्टम् ब्रह्म घ्नम् क्रूर कारिणम् ॥२०॥
कर्कशम् निरनुक्रोशम् प्रजानाम् अहिते रतम् । रावणम् सर्व भूतानाम् सर्व लोक भयावहम् ॥२१॥
राक्षसी भ्रातरम् क्रूरम् सा ददर्श महाबलम् । तम् दिव्य वस्त्र आभरणम् दिव्य माल्य उपशोभितम् ॥२२॥
आसने सूपविष्टम् तम् काले कालम् इव उद्यतम् । राक्षसेन्द्रम् महाभागम् पौलस्त्य कुल नन्दनम् ॥२३॥
उपगम्य अब्रवीत् वाक्यम् राक्षसी भय विह्वला । रावणम् शत्रु हन्तारम् मंत्रिभिः परिवारितम् ॥२४॥
तम् अब्रवीत् दीप्त विशाल लोचनम् प्रदर्शयित्वा भय लोभ मोहिता । सुदारुणम् वाक्यम् अभीत चारिणी महात्मना शूर्पणखा विरूपिता ॥२५॥
इति वाल्मीकि रामायणे आदि काव्ये अरण्य काण्डे द्वा त्रिंशः सर्गः ॥