ततः शूर्पणखा दीना रावणम् लोक रावणम् । अमात्य मध्ये संक्रुद्धा परुषम् वाक्यम् अब्रवीत् ॥१॥
त्रिंशः सर्गः 3.33
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
प्रमत्तः काम भोगेषु स्वैर वृत्तो निरंकुशः । समुत्पन्नम् भयम् घोरम् बोद्धव्यम् न अवबुध्यसे ॥२॥
सक्तम् ग्राम्येषु भोगेषु काम वृत्तम् महीपतिम् । लुब्धम् न बहु मन्यन्ते श्मशान अग्निम् इव प्रजाः ॥३॥
स्वयम् कार्याणि यः काले न अनुतिष्ठति पार्थिवः । स तु वै सह राज्येन तैः च कार्यैः विनश्यति ॥४॥
अयुक्त चारम् दुर्दर्शम् अस्वाधीनम् नराधिपम् । वर्जयन्ति नरा दूरात् नदी पंकम् इव द्विपाः ॥५॥
ये न रक्षन्ति विषयम् अस्वाधीना नराधिपः । ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा ॥६॥
आत्मवद्भिः विगृह्य त्वम् देव गंधर्व दानवैः । अयुक्त चारः चपलः कथम् राजा भविष्यसि ॥७॥
त्वम् तु बाल स्वभावत् च बुद्धि हीनः च राक्षस । ज्ञातव्यम् तु न जानीषि कथम् राजा भविष्यसि ॥८॥
येषाम् चारः च कोशः च नयः च जयताम् वर । अस्वाधीना नरेन्द्राणाम् प्राकृतैः ते जनैः समाः ॥९॥
यस्मात् पश्यन्ति दूरस्थान् सर्वान् अर्थान् नराधिपाः । चारेण तस्मात् उच्यन्ते राजानो दीर्घ चक्षुषः ॥१०॥
अयुक्त चारम् मन्ये त्वाम् प्राकृतैः सचिवैः युतः । स्व जनम् च जनस्थानम् निहतम् न अवबुध्यसे ॥११॥
चतुर्दश सहस्राणि रक्षसाम् भीम कर्मणाम् । हतानि एकेन रामेण खरः च सह दूषणः ॥१२॥
ऋषीणाम् अभयम् दत्तम् कृत क्षेमाः च दण्डकाः । धर्षितम् च जनस्थानम् रामेण अक्लिष्ट कारिणा ॥१३॥
त्वम् तु लुब्धः प्रमत्तः च पराधीनः च रावण । विषये स्वे समुत्पन्नम् यो भयम् न अवबुध्यसे ॥१४॥
तीक्ष्णम् अल्प प्रदातारम् प्रमत्तम् गर्वितम् शठम् । व्यसने सर्व भूतानि न अभिधावन्ति पार्थिवम् ॥१५॥
अतिमानिनम् अग्राह्यम् आत्म संभावितम् नरम् । क्रोधिनम् व्यसने हन्ति स्व जनो अपि नराधिपम् ॥१६॥
न अनुतिष्ठति कार्याणि भयेषु न बिभेति च । क्षिप्रम् राज्यात् च्युतो दीनः तृणैः तुल्यो भवेत् इह ॥१७॥
शुष्क काष्ठैः भवेत् कार्यम् लोष्टैः अपि च पांसुभिः । न तु स्थानात् परिभ्रष्टैः कार्यम् स्यात् वसुधाधिपैः ॥१८॥
उपभुक्तम् यथा वासः स्रजो वा मृदिता यथा । एवम् राज्यात् परिभ्रष्टः समर्थो अपि निरर्थकः ॥१९॥
अप्रमत्तः च यो राजा सर्वज्ञो विजितेन्द्रियः । कृतज्ञो धर्म शीलः च स राजा तिष्ठते चिरम् ॥२०॥
नयनाभ्याम् प्रसुप्तो वा जागर्ति नय चक्षुषा । व्यक्त क्रोध प्रसादः च स राजा पूज्यते जनैः ॥२१॥
त्वम् तु रावण दुर्बुद्धिः गुणैः एतैः विवर्जितः । यस्य ते अविदितः चारैः रक्षसाम् सुमहान् वधः ॥२२॥
पर अवमंता विषयेषु संगवान् न देश काल प्रविभाग तत्त्व वित् । अयुक्त बुद्धिः गुण दोष निश्चये विपन्न राज्यो न चिरात् विपत्स्यते ॥२३॥
इति स्व दोषान् परिकीर्तिताम् तया समीक्ष्य बुद्ध्या क्षणदा चरेश्वरः । धनेन दर्पेण बलेन च अन्वितो विचिन्तयामास चिरम् स रावणः ॥२४॥
इति वाल्मीकि रामायणे आदि काव्ये अरण्य काण्डे त्रयः त्रिंशः सर्गः ॥