ह्रियमाणौ तु काकुत्स्थौ दृष्ट्वा सीता रघूत्तमौ । उच्चैः स्वरेण चुक्रोश प्रगृह्य सु महाभुजौ ॥१॥
चतुर्थः सर्गः 3.4
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
एष दाशरथी रामः सत्यवान् शीलवान् शुचिः । रक्षसा रौद्र रूपेण ह्रियते सह लक्ष्मणः ॥२॥
माम् ऋका भक्ष इष्यन्ति शार्दूल द्वीपिनः तथा । माम् हरः उत्सृज्य काकुत्स्थौ नमस्ते राक्षसोत्तमः ॥३॥
तस्याः तत् वचनम् श्रुत्वा वैदेह्याः राम लक्ष्मणौ । वेगम् प्रचक्रतुर् वीरौ वधे तस्य दुरात्मनः ॥४॥
तस्य रौद्रस्य सौमित्रिः सव्यम् बाहुम् बभञ्ज ह । रामः तु दक्षिणम् बाहुम् तरसा तस्य रक्षसः ॥५॥
सः भग्न बहुः संविग्नः पपात आशु विमूर्छितः । धरण्याम् मेघ संकाशो वज्र भिन्न इव अचलः ॥६॥
मुष्टिभिर् बाहुभिर् पद्भिः सूदयन्तौ तु राक्षसम् । उद्यंयोद्यंय च अपि एनम् स्थण्डिले निष्पिपेषतुः ॥७॥
स विद्धो बहुभिर् बाणैः खड्गाभ्याम् च परिक्षतः । निष्पिष्टो बहुधा भूमौ न ममार स राक्षसः ॥८॥
तम् प्रेक्ष्य रामः सुभृशम् अवध्यम् अचल उपमम् । भयेषु अभय दः श्रीमान् इदम् वचनम् अब्रवीत् ॥९॥
तपसा पुरुषव्याघ्र राक्षसोऽयम् न शक्यते । शस्त्रेण युधि निर्जेतुम् राक्षसम् निखनावहे ॥१०॥
कुंजर्स्य इव रौद्रस्य राक्षसस्य अस्य लक्ष्मण! । वने अस्मिन् सुमहद् श्वभ्रम् खन्यताम् रौद्रवर्चसः ॥११॥
इति उक्त्वा लक्ष्मणम् रामः प्रदरः खन्यताम् इति । तस्थौ विराधम् आक्र्ंय कण्ठे पादेन वीर्यवान् ॥१२॥
तत् श्रुत्वा राघवेण उक्तम् राक्षसः प्रश्रितम् वचः । इदम् प्रोवाच काकुत्स्थम् विराधः पुरुषर्षभम् ॥१३॥
हतोऽहम् पुरुषव्याघ्रः शक्र तुल्य बलेन वै । मया तु पूर्वम् त्वम् मोहान् न ज्ञातः पुरुषर्षभः ॥१४॥
कौसल्या सुप्रजातः तात रामः त्वम् विदितो मया । वैदेही च महाभागा लक्ष्मणः च महायशाः ॥१५॥
अभि शापाद् अहम् घोरम् प्रविष्टो राक्ष्सीम् तनुम् । तुंबुरुः नाम गन्धर्वः शप्तो वैश्रवणेन हि ॥१६॥
प्रसाद्यमानः च मया सोऽब्रवीत् माम् महायशाः । यदा दाशरथी रमः त्वाम् वधिष्यति संयुगे ॥१७॥
तदा प्रकृतिम् आपन्नो भवान् स्वर्गम् गमिष्यति । अनुपस्थीयमानो माम् स क्रुद्धो व्याजहार ह ॥१८॥
इति वैश्रवणो राजा रंभ आसक्तम् उवाच ह । तव प्रसादान् मुक्तो अहम् अभिशापात् सु दारुणात् ॥१९॥
भुवनम् स्वम् गमिष्यामि स्वस्ति वोऽस्तु परंतप । इतो वसति धर्मात्मा शरभङ्गः प्रतापवान् ॥२०॥
अध्यर्थ योजने तातः महर्षिः सूर्य संनिभः । तम् क्षिप्रम् अभिगच्छ त्वम् स ते श्रेयो अभिधास्यति ॥२१॥
अवटे च अपि माम् राम निक्षिप्य कुशली व्रज । रक्षसाम् गत सत्त्वानाम् एष धर्मः सनातनः ॥२२॥
अवटे ये निधीयन्ते तेषाम् लोकाः सनातनाः । एवम् उक्त्वा तु काकुत्स्थम् विराधः शर पीडितः ॥२३॥
बभूव स्वर्ग संप्राप्तो न्यस्त देहो महाबलः । तत् श्रुत्वा राघवः वाक्यम् लक्ष्मणम् व्यादिदेश ह ॥२४॥
कुंजर्स्य इव रौद्रस्य राक्षसस्य अस्य लक्ष्मण! । वने अस्मिन् सुमहत् श्वभ्रम् खन्यताम् रौद्रकर्मणः ॥२५॥
इति उक्त्वा लक्ष्मणम् रामः प्रदरः खन्यताम् इति । तस्थौ विराधम् आक्रंय कण्ठे पादेन वीर्यवान् ॥२६॥
ततः खनित्रम् आदाय लक्ष्मणः श्वभ्रम् उत्तमम् । अखनत् पार्श्वतः तस्य विराधस्य महात्मनः ॥२७॥
तम् मुक्त कण्ठम् उत्क्षिप्य शङ्कु कर्णम् महास्वनम् । विराधम् प्राक्षिपत् श्वभ्रे नदन्तम् भैरव स्वनम् ॥२८॥
तम् आहवे दारुणम् आशु विक्रमौ स्थिरौ उभौ संयति राम लक्ष्मणौ । मुदान्वितौ चिक्षिपतुर् भयावहम् नदन्तम् उत्क्षिप्य बिलेन राक्ष्सम् ॥२९॥
अवध्यताम् प्रेक्ष्य महासुरस्य तौ शितेन शस्त्रेण तदा नरर्षभौ । समर्थ्य च अत्यर्थ विशारदौ उभौ बिले विरधस्य वधम् प्रचक्रतुः ॥३०॥
स्वयम् विराधेन हि मृत्युम् आत्मनः प्रसह्य रामेण वधार्थम् ईप्सितः । निवेदितः कानन चारिणा स्वयम् न मे वधः शस्त्र कृतो भवेत् इति ॥३१॥
तदेव रामेण निशंय भाषितम् कृता मतिः तस्य बिल प्रवेशने । बिलम् च तेन अति बलेन रक्षसा प्रवेश्यमानेन वनम् विनादितम् ॥३२॥
प्रहृष्ट रूपौ इव राम लक्ष्मणौ विराधम् उर्व्याम् प्रदरे निपात्य तम् । ननन्दतुः वीत भयौ महावने शिलाभिः अन्तर् दधतुः च राक्षसम् ॥३३॥
ततः तु तौ कांचन चित्र कार्मुकौ निहत्य रक्षः परिगृह्य मैथिलीम् । विजह्रतुः तौ मुदितौ महावने दिवि स्थितौ चन्द्र दिवाकरौ इव ॥३४॥
इति वाल्मीकि रामायणे आदि काव्ये अरण्य काण्डे चतुर्थः सर्गः ॥