रामायणम्

पञ्चमः सर्गः 3.5

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

हत्वा तु तम् भीम बलम् विराधम् राक्षसम् वने । ततः सीताम् परिष्वज्य समाश्वास्य च वीर्यवान् ॥१॥

अब्रवीत् भ्रातरम् रामो लक्ष्मणम् दीप्त तेजसम् । कष्टम् वनम् इदम् दुर्गम् न च स्मो वन गोचराः ॥२॥

अभिगच्छामहे शीघ्रम् शरभङ्गम् तपो धनम् । आश्रमम् शरभन्गस्य राघवोऽभिजगाम ह ॥३॥

तस्य देव प्रभावस्य तपसा भावित आत्मनः । समीपे शरभंगस्य ददर्श महत् अद्भुतम् ॥४॥

विभ्राजमानम् वपुषा सूर्य वैश्वानर प्रभम् । रथ प्रवरम् आरूढम् आकाशे विबुध अनुगम् ॥५॥

असंस्पृशन्तम् वसुधाम् ददर्श विबुध ईश्वरम् । संप्रभ आभरणम् देवम् विरजो अंबर धारिणम् ॥६॥

तत् विधैः एव बहुभिर् पूज्यमानम् महात्मभिः । हरितैः वाजिभिर् युक्तम् अंतरिक्ष गतम् रथम् ॥७॥

ददर्श अदूरतः तस्य तरुण आदित्य संनिभम् । पाण्डुर अभ्र घन प्रख्यम् चन्द्र मण्डल संनिभम् ॥८॥

अपश्यत् विमलम् छत्रम् चित्र माल्य उपशोभितम् । चामर व्यजने च अग्र्ये रुक्म दण्डे महाधने ॥९॥

गृहीते वर नारीभ्याम् धूयमाने च मूर्धनि । गन्धर्व अमर सिद्धाः च बहवः परम ऋषयः ॥१०॥

अन्तरिक्ष गतम् देवम् गीर्भिर् अग्र्याभिर् ऐडियन् । सह संभाषमाणे तु शरभंगेन वासवे ॥११॥

दृष्ट्वा शत क्रतुम् तत्र रामो लक्ष्मणम् अब्रवीत् । रामोऽथ रथम् उद्दिश्य भ्रातुर् दर्शयत अद्भुतम् ॥१२॥

अर्चिष्मन्तम् श्रिया जुष्टम् अद्भुतम् पश्य लक्ष्मण । प्रतपन्तम् इव आदित्यम् अन्तरिक्ष गतम् रथम् ॥१३॥

ये हयाः पुरु हूतस्य पुरा शक्रस्य नः श्रुताः । अन्तरिक्ष गता दिव्याः ते इमे हरयो ध्रुवम् ॥१४॥

इमे च पुरुष व्याघ्र ये तिष्ठन्ति अभितः दिशम् । शतम् शतम् कुण्डलिनो युवानः खड्ग पाणयः ॥१५॥

विस्तीर्ण विपुल उरस्काः परिघायत बाहवः । शोणांशु वसनाः सर्वे व्याघ्र इव दुरासदाः ॥१६॥

उरो देशेषु सर्वेषाम् हारा ज्वलन संनिभाः । रूपम् बिभ्रति सौमित्रे पंच विंशति वार्षिकम् ॥१७॥

एतद्धि किल देवानाम् वयो भवति नित्यदा । यथा इमे पुरुष व्याघ्रा दृश्यन्ते प्रिय दर्शनाः ॥१८॥

इह एव सह वैदेह्या मुहूर्तम् तिष्ठ लक्ष्मण । यावत् जानामि अहम् व्यक्तम् क एष द्युतिमान् रथे ॥१९॥

तम् एवम् उक्त्वा सौमित्रिम् इह एव स्थीयताम् इति । अभिचक्राम काकुत्स्थः शरभंग आश्रमम् प्रति ॥२०॥

ततः समभिगच्छन्तम् प्रेक्ष्य रामम् शची पतिः । शरभंगम् अनुज्ञाप्य विबुधान् इदम् अब्रवीत् ॥२१॥

इह उपयाति असौ रामो यावन् माम् न अभिभाषते । निष्ठाम् नयत तावत् तु ततो मा द्रष्टुम् अर्हति ॥२२॥

जितवन्तम् कृतार्थम् हि तदा अहम् अचिराद् इमम् । कर्म हि अनेन कर्तव्यम् महत् अन्यैः सुदुष्करम् ॥२३॥

अथ वज्री तम् आमंत्र्य मानयित्वा च तापसम् । रथेन हय युक्तेन ययौ दिवम् अरिन्दमः ॥२४॥

प्रयाते तु सहस्राक्षे राघवः सपरिच्छदः । अग्नि होत्रम् उपासीनम् शरभंगम् उपागमत् ॥२५॥

तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः । निषेदुः तद् अनुज्ञाता लब्ध वासा निमंत्रिताः ॥२६॥

ततः शक्र उपयानम् तु पर्यपृच्छत राघवः । शरभंगः च तत् सर्वम् राघवाय न्यवेदयत् ॥२७॥

माम् एष वरदो राम ब्रह्म लोकम् निनीषति । जितम् उग्रेण तपसा दुष्प्रापम् अकृत आत्मभिः ॥२८॥

अहम् ज्ञात्वा नर व्याघ्र वर्तमानम् अदूरतः । ब्रह्म लोकम् न गच्छामि त्वाम् अदृष्ट्वा प्रिय अतिथिम् ॥२९॥

त्वया अहम् पुरुषव्याघ्र धार्मिकेण महत्मनाअ । समागंय गमिष्यामि त्रिदिवम् च अवरम् परम् ॥३०॥

अक्षया नर शार्दूल जितालोका मया शुभाः । ब्राह्ंयाः च नाक पृष्ठ्याः च प्रतिगृह्णीष्व मामकान् ॥३१॥

एवम् उक्तो नरव्याघ्रः सर्व शास्त्र विशारदः । ऋषिणा शरभंगेन राघवो वाक्यम् अब्रवीत् ॥३२॥

अहम् एव आहरिष्यामि सर्वान् लोकान् महामुने । आवासम् तु अहम् इच्छामि प्रदिष्टम् इह कानने ॥३३॥

राघवेण एवम् उक्तः तु शक्र तुल्य बलेन वै । शरभंगो महाप्राज्ञः पुनर् एव अब्रवीत् वचः ॥३४॥

इह राम महातेजाः सुतीक्ष्णो नम धार्मिकः । वसति अरण्ये नियतः स ते श्रेयो विधास्यति ॥३५॥

सुतीक्ष्णम् अभिगच्छ त्वम् शुचौ देशे तपस्विनम् । रमणीये वनोद्देशे स ते वासम् विधास्यति ॥३६॥

इमाम् मन्दाकिनीम् राम प्रतिस्रोतम् अनुव्रज । नदीम् पुष्पोडुप वहाम् ततः तत्र गमिष्यसि ॥३७॥

एष पन्था नरव्याघ्र मुहूर्तम् पश्य तात माम् । यावत् जहामि गात्राणि जीर्णाम् त्वचम् इव उरगः ॥३८॥

ततो अग्निम् सु समाधाय हुत्वा च आज्येन मंत्रवित् । शरभंगो महातेजाः प्रविवेश हुताशनम् ॥३९॥

तस्य रोमाणि केशाम् च तदा वह्निः महात्मनः । जीर्णम् त्वचम् तद् अस्थीनि यत् च मांसम् च शोणितम् ॥४०॥

स च पावक संकाशः कुमारः समपद्यत । उत्थाय अग्निचयात् तस्मात् शरभंगो व्यरोचत ॥४१॥

स लोकान् आहिताग्नीनाम् ऋषीणाम् च महात्मनाम् । देवानाम् च व्यतिक्रंय ब्रह्म लोकम् व्यरोहत ॥४२॥

स पुण्य कर्मा भुवने द्विजर्षभः पितामहम् सानुचरम् ददर्श ह । पितामहः च अपि समीक्ष्य तम् द्विजम् ननन्द सुस्वागतम् इति उवाच ह ॥४३॥

इति वाल्मीकि रामायणे आदि काव्ये अरण्य काण्डे पञ्चमः सर्गः ॥

Listen to the sarga
0:00